संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
श्रीरघुनाथाष्टकम्

श्रीरघुनाथाष्टकम्

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


श्री गणेशाय नमः ।

शुनासीराधीशैरवनितलज्ञप्तीडितगुणं
प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् ।
सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥१॥

निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे
पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् ।
विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥२॥

गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं
ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम् ।
विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥३॥

विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं
गतं पम्पातीरे पवनसुतसम्मेलनसुखम् ।
गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥४॥

प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं
जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् ।
विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥५॥

विमानं चारुह्याऽनुजजनकजासेवितपद
मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् ।
सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥६॥

प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं
सदाचारं वेदोदितमपि च कर्तारमखिलम् ।
नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं
सतीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥७॥

तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति
ज्ञात्वा जगति खलु गन्तारमजनम् ॥
अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥८॥

रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम् ।
पठतां पापराशिघ्नं भुक्तिमुक्तिप्रदायकम् ॥९॥

॥ इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : March 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP