संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कनत्कनकताटङ्कविलसन्मुखपङ्...

श्रीदेवीमङ्गलाष्टकम् - कनत्कनकताटङ्कविलसन्मुखपङ्...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कनत्कनकताटङ्कविलसन्मुखपङ्कजे ।
कारुण्यवारिधे त्वं मे सन्ततं मङ्गलं कुरु ॥१॥

खण्डिताखिलदैतेये खर्वशून्यास्त्रवैभवे ।
गिरिराजसुते देवि सन्ततं मङ्गलं कुरु ॥२॥

घनराजिनिभाखर्वसुगन्धिकुटिलालके ।
चण्डमुण्डादिदर्पघ्नि सन्ततं मङ्गलं कुरु ॥३॥

छत्रीकृतयशोराशे छेदिताखिलपातके ।
जगदाधारसन्मूर्ते सन्ततं मङ्गलं कुरु ॥४॥

तत्वमस्यादिलक्ष्यार्थे तापत्रयविभंजिनि ।
दण्डनीतिस्थिते देवि सन्ततं मङ्गलं कुरु ॥५॥

धराधरसुते देवि धनधान्यविवर्धनि ।
दयमानासितापाङ्गे सन्ततं मङ्गलं कुरु ॥६॥

पञ्चप्रेतासनासीने पञ्चसंख्योपचारिणि ।
परमानन्दनिलये सन्ततं मङ्गलं कुरु ॥७॥

अकारादिक्षकारान्तवर्णरूपे महेश्वरि ।
अविद्यामूलविच्छेत्रि सन्ततं मङ्गलं कुरु ॥८॥

मंगलाष्टकमेतद्वै यः पठेत् भक्तिसंयुतः ।
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिकं लभेत् ॥९ ॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP