श्रीगणेशाय नमः ॥
ध्येयं वदन्ति शिवमेव ही केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै । रूपैस्तु तैरपि विभासि यतस्त्वमेकस्- तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥१॥
नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा । संदृष्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥२॥
नोपासिता मदमपास्य मया महान्तस्- तीर्थानि चास्तिकधिया नहि सेवितानि । देवार्चनं च विधिवन्न कृतं कदापि तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥३॥
दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणा दहन्ति । सञ्जीवनं च परहस्तगतं सदैव तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥४॥
पूर्वं कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि हृदयं परिकम्पते मे । ख्याता च ते पतितपावनता तु यस्मात् तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥५॥
दुःखं जराजननजं विविधाश्च रोगाः काकश्वसूकरजनिर्निरये च पातः । त्वद्विस्मॄतेः फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥६॥
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् । तं यच्छसीश निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥७॥
वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बके वा । सर्वत्र सर्वविधिना गदितस्त्वमेव तस्मात्त्वमेव शरणं मम शङ्खपाणे ॥८॥
॥इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥
Translation - भाषांतर
N/A