शिवमङ्गलाष्टकम्
भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥१॥
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥२॥
भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥३॥
सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥४॥
मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे । त्र्यम्बकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥५॥
गङ्गाधराय सोमाय नमो हरिहरात्मने । उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥६॥
सद्योजाताय शर्वाय दिव्यज्ञानप्रदायिने । ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गलम् ॥७॥
सदाशिवस्वरूपाय नमस्तत्पुरुषाय च । अघोरायच घोराय महादेवाय मङ्गलम् ॥८॥
मङ्गलाष्टकमेतद्वै शम्भोर्यः कीर्तयेद्दिने । तस्य मृत्युभयं नास्ति रोगपीडाभयं तथा ॥९॥
Translation - भाषांतर
N/A