संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
श्रीराघवाष्टकम्

श्रीराघवाष्टकम्

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते ।
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥१॥

राघवं करुणाकरं मुनिसेवितं सुरवन्दितं
जानकीवदनारविन्ददिवाकरं गुणभाजनम् ।
वालिसूनुभृदीक्षणं हनुमत्प्रियं कमलेक्षणं
यातुधानभयंकरं प्रणमामि राघवकुञ्जरम् ॥२॥

मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम दैवतम् ।
मेदिनीतनयामुखाम्बुजबोधकारिदिवाकरं
सूर्यवंशविवर्द्धनं प्रणमामि राघवकुञ्जरम् ॥३॥

हेमकुण्डलमण्डितामलगण्डदेशमरिन्दमं
शातकुंभमयूरनेत्रविभूषणेन विभूषितम् ।
चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं
भानुवंशविवर्द्धनं प्रणमामि राघवकुञ्जरम् ॥४॥

दण्डकाख्यवने रतं सुरसिद्धयोगिगणाश्रयं
शिष्टपालनतत्परं धृतिशालिवालिकृतस्तुतिम् ।
कुंभकर्णभुजाभुजङ्गविकर्तने सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥५॥

केतकीकरवीरजातिसुगन्धमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुचकुङ्कुमारुणवक्षसं ।
देवदेवमशेषभूतमनोहरं जगतां पतिं
दासभूतजनावनं प्रणमामि राघवकुञ्जरम् ॥६॥

यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निशमादरेण सुपूजितं ।
ताटकावधधीरमङ्गदनाथवालिनिषूदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥७॥

लीलया खरदूषणादिनिशाचरासुविनाशिनं
रावणान्तकमच्युतं हरियूथकोटिसमावृतं ।
नीरजाननमम्बुजाङ्घ्रियुगं हरिं भुवनाश्रयं
देवकार्यविचक्षणं प्रणमामि राघवकुञ्जरम् ॥८॥

कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
चारुहासमनाथबन्धुमशेषलोकनिवासिनं ।
वासवादिसुरारिरावणशासनं च परां गतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम् ॥९॥

राघवाष्टकमिष्टसिद्धिदमच्युतालयसाधकं
भुक्तिमुक्तिफलप्रदं धनधान्यपुत्रविवर्धनम् ।
रामचन्द्रकृपाकटाक्षदमादरेण सदा पठेत्
रामचन्द्रपदाम्बुजद्वयसन्ततार्पितमानसः ॥१०॥

निगमसरसिरत्नं नित्यमासक्तरत्नं
निखिलसुकृतिरत्नं जानकीरूपरत्नम् ।
भुवनवलयरत्नं भूभृतामेकरत्नं
प्रकृतिसुलभरत्नं मैथिलीप्राणरत्नम् ॥११॥

N/A

References : N/A
Last Updated : February 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP