संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
जगदादिमनादिमजं पुरुषं शरद...

रमापत्यष्टकम् - जगदादिमनादिमजं पुरुषं शरद...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


जगदादिमनादिमजं पुरुषं शरदम्बरतुल्यतनुं वितनुम् । धृतकञ्जरथाङ्गगदं विगदं प्रणमामि रमाधिपतिं तमहम् ॥१॥
कमलाननकञ्जरतं विरतं हृदि योगिजनैः कलितं ललितम् । कुजनैः सुजनैरलभं सुलभं प्रणमामि रमाधिपतिं तमहम् ॥२॥
मुनिवृन्दहृदिस्थपदं सुपदं निखिलाध्वरभागभुजं सुभुजम् । हृतवासवमुख्यमदं विमदं प्रणमामि रमाधिपतिं तमहम् ॥३॥
हृतदानवदृप्तबलं सुबलं स्वजनास्तसमस्तमलं विमलम् । समपास्त गजेन्द्रदरं सुदरं प्रणमामि रमाधिपतिं तमहम् ॥४॥
परिकल्पितसर्वकलं विकलं सकलागमगीतगुणं विगुणम् । भवपाशनिराकरणं शरणं प्रणमामि रमाधिपतिं तमहम् ॥५॥
मृतिजन्मजराशमनं कमनं शरणागतभीतिहरं दहरम् । परितुष्टरमाहृदयं सुदयं प्रणमामि रमाधिपतिं तमहम् ॥६॥
सकलावनिबिम्बधरं स्वधरं परिपूरितसर्वदिशं सुदृशम् । गतशोकमशोककरं सुकरं प्रणमामि रमाधिपतिं तमहम् ॥७॥
मथितार्णवराजरसं सरसं ग्रथिताखिललोकहृदं सुहृदम् । प्रथिताद्भुतशक्तिगणं सुगणं प्रणमामि रमाधिपतिं तमहम् ॥८॥
सुखराशिकरं भवबन्धहरं परमाष्टकमेतदनन्यमतिः । पठतीह तु योऽनिशमेव नरो लभते खलु विष्णुपदं स परम् ॥९॥
इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरमापत्यष्टकं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP