धन्याष्टकं
धन्याष्टकं तज्ज्ञानं प्रशमकरं यदिन्द्रियाणं तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थं ।
ते धन्या भुवि परमार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमन्तः ॥ १ ॥
आदौ विजित्य विषयान्मदमोहराग- द्वेषादिशत्रुगमाहृतयोगराज्याः ।
ज्ञात्वा मतं समनुभूयपरात्मविद्या- कान्तासुखं वनगृहे विचरन्ति धन्याः ॥ २ ॥
त्यक्त्वा गृहे रतिमधोगतिहेतुभूताम् आत्मेच्छयोपनिषदर्थरसं पित्बन्तः ।
वीतस्पृहा विषयभोगपदे विरक्ता धन्याश्चरन्ति विजनेषु विरक्तसङ्गाः ॥ ३ ॥
त्यक्त्वा ममाहमिति बन्धकरे पदे द्वे मानावमानसदृशाः समदर्शिनश्च ।
कर्तारमन्यमवगम्य तदर्पितानि कुर्वन्ति कर्मपरिपाकफलानि धन्याः ॥ ४ ॥
त्यक्त्वौषात्रयमवेक्षितमोक्षमर्गा भैक्षामृतेन परिकल्पितदेहयात्राः ।
ज्योतिः परात्परतरं परमात्मसंज्ञं धन्या द्विजारहसि हृद्यवलोकयन्ति ॥ ५ ॥
नासन्न सन्न सदसन्न महसन्न चाणु न स्त्री पुमान्न च नपुंसकमेकबीजं ।
यैर्ब्रह्म तत्समनुपासितमेकचितैः धन्या विरेजुरिते भवपाशबद्धाः ॥ ६ ॥
अज्ञानपङ्कपरिमग्नमपेतसारं दुःखालयं मरणजन्मजरावसक्तं ।
संसारबन्धनमनित्यमवेक्ष्य धन्या ज्ञानासिना तदवशीर्य विनिश्चयन्ति ॥ ७ ॥
सान्तैरनन्यमतिभिर्मधुरस्वभावैः एकत्वनिश्चितमनोभिरपेतमोहैः ।
साकं वनेषु विजितात्मपदस्वरुपं तद्वस्तु सम्यगनिशं विमृशन्ति धन्याः ॥ ८ ॥
॥ इति श्रीमद् शङ्कराचार्यविरचितं धन्याष्टकं समाप्तं ॥
Translation - भाषांतर
N/A