संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
नन्दगोपभूपवंशभूषणं विभूषण...

गोकुलेशाष्टकम् - नन्दगोपभूपवंशभूषणं विभूषण...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


नन्दगोपभूपवंशभूषणं विभूषणं भूमिभूतिभूरिभाग्यभाजनं भयापहम् ।
धेनुधर्मरक्षणावतीर्णपूर्णविग्रहं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥१॥
गोपबालसुन्दरीगणावृतं कलानिधिं रासमण्डलीविहारकारिकामसुन्दरम् ।
पद्मयोनिशंकरादिदेवबृन्दवन्दितं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥२॥
गोपराजरत्नराजिमन्दिरानुरिङ्गणं गोपबालबालिकाकुलानुरुद्धगायिनम् ।
सुन्दरीमनोजभावभाजनाम्बुजाननं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥३॥
कंसकेशिकुञ्जरादि दुष्टदैत्यदारणं इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम् ।
कामधेनुकारिताभिधानगानशोभितं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥४॥
गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम् ।
धेनुधूलिधूसराङ्गशोभिहारनूपुरं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥५॥
वत्सधेनुगोपबालभीषणास्यवह्निपं केकिपिञ्छकल्पितावतंसशोभिताननम् ।
वेणुनादमत्तघोषसुन्दरीमनोहरं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥६॥
गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं शारदारविन्दबृन्दशोभिहंसजागतम् ।
दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥७॥
वासरावसानगोष्ठगामिगोगणानुगं धेनुदोहदेहगेहमोहविस्मयक्रियम् ।
स्वीयगोकुलेशदानदत्तभक्तरक्षणं नीलवारिवाहकान्ति गोकुलेशमाश्रये ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP