श्रीवाग्वादिनीषट्कम् (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)
वरदाप्यहेतुकरुणाजन्मावनिरपि पयॊजभवजाये ।
किं कुरुषॆ न कृपां मयि वद वद वाग्वादिनि स्वाहा ॥१॥
किं वा ममास्ति महती पापततिस्तत्प्रभेदने तरसा ।
किं वा न तेऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥२॥
किं जीवः परमशिवाद्भिन्नॊऽभिन्नॊऽथ भेदश्च ।
औपाधिकः स्वतॊ वा वद वदवाग्वादिनि स्वाहा ॥३॥
वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् ।
मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥४॥
ज्ञानं कर्म च मिलितं हेतुर्मॊक्षेऽथवा ज्ञानम् ।
तज्ज्ञानं केन भवेद्वद वदवाग्वादिनि स्वाहा ॥५॥
ज्ञानं विचारसाध्यं किं वा यॊगेन कर्मसाहस्रैः ।
कीदृक्सॊऽपि विचारो वद वद वाग्वादिनि स्वाहा ॥६॥
Translation - भाषांतर
N/A