संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ८९

उपशमप्रकरणम् - सर्गः ८९

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
वीतहव्यवदात्मानं नीत्वा विदितवेद्यताम् ।
वीतरागभयोद्वेगस्तिष्ठ राघव सर्वदा एकोननवतितमः सर्गः ८९
श्रीवसिष्ठ उवाच ।
वीतहव्यवदात्मानं नीत्वा विदितवेद्यताम् ।
वीतरागभयोद्वेगस्तिष्ठ राघव सर्वदा ॥१॥
त्रिंशद्वर्षसहस्राणि विजहार यथासुखम् ।
वीतहव्यो वीतशोकस्तथा विहर राघव ॥२॥
अन्ये च राजन्मुनयो ज्ञातज्ञेया महाधियः ।
यथावसन्स्वराष्ट्रे त्वं तथैवास्व महामते ॥३॥
सुखदुःखक्रमैरात्मा न कदाचन गृह्यते ।
सर्वगोऽपि महाबाहो किं मुधा परिशोचसि ॥४॥
बहवो विदितात्मानो विहरन्तीह भूतले ।
न केचन वशं यान्ति दुःखस्याङ्ग भवानिव ॥५॥
स्वस्थो भव भवोदारः समो भव सुखी भव ।
सर्वगस्त्वं त्वमात्मैव तव नास्ति पुनर्भवः ॥६॥
हर्षामर्षविकाराणां जीवन्मुक्ता भवादृशाः ।
न केचन वशं यान्ति मृगेन्द्राः शिखिनामिव ॥७॥
श्रीराम उवाच ।
अनेनैव प्रसङ्गेण संशयोऽयं ममोदितः ।
शरत्काल इवाम्भोदं तं मे त्वं तनुतां नय ॥८॥
जीवन्मुक्तशरीराणां कथमात्मविदां वर ।
शक्तयो नेह दृश्यन्ते आकाशगमनादिकाः ॥९॥
श्रीवसिष्ठ उवाच ।
आकाशगमनादीनि यान्येतानि रघूद्वह ।
प्रमाणिताः पदार्थानां सहजाः खलु शक्तयः ॥१०॥
यद्विचित्रं क्रियाजालं दृश्यते गम्यते पुनः ।
राम वस्तुस्वभावोऽसौ न तदात्मविदां मतम् ॥११॥
अनात्मविदमुक्तोऽपि नभोविहरणादिकम् ।
द्रव्यकर्मक्रियाकालशक्त्या प्राप्नोति राघव ॥१२॥
नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्मवान्स्वयम् ।
आत्मनात्मनि संतृप्तो नाविद्यामनुधावति ॥१३॥
ये केचन जगद्भावास्तानविद्यामयान्विदुः ।
कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति ॥१४॥
अविद्यामपि ये युक्त्या साधयन्ति सुखात्मिकाम् ।
ते ह्यविद्यामया एव नत्वात्मज्ञास्तथाक्रमाः ॥१५॥
तत्त्वज्ञोऽवाप्यतत्त्वज्ञो यः कालद्रव्यकर्मभिः ।
यथाक्रमं प्रयतते तस्योर्ध्वत्वादि सिद्ध्यति ॥१६॥
आत्मवानिह सर्वस्मादतीतो विगतैषणः ।
आत्मन्येव हि संतुष्टो न करोति न चेहते ॥१७॥
न तस्यार्थो नभोगत्या न सिद्ध्या न च भोगकैः ।
न प्रभावेण नो मानैर्नाशामरणजीवितैः ॥१८॥
नित्यतृप्तः प्रशान्तात्मा वीतरागो विवासनः ।
आकाशसदृशाकारस्तज्ज्ञ आत्मनि तिष्ठति ॥१९॥
अशङ्कितोपयातेन दुःखेन च सुखेन च ।
तृप्यत्यपगतासङ्गो जीवेन मरणेन च ॥२०॥
समुद्रः सरितेवान्तः क्रमसंप्राप्तवस्तुना ।
समेन विषमेणापि तिष्ठत्यात्मानमर्चयन् ॥२१॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥२२॥
यस्तु वाऽभावितात्मापि सिद्धिजालानि वाञ्छति ।
स सिद्धिसाधकैर्द्रव्यैस्तानि साधयति क्रमात् ॥२३॥
सिद्ध्यतीत्थमिदं युक्त्यैवेत्ययं नियतेः क्रमः ।
त्र्यक्षादिभिः सुरवरैर्व्यर्थीकर्तुं न शक्यते ॥२४॥
स्वभाव एष वस्तूनां स्वतःसिद्धिर्हि नान्यतः ।
नियतिं न जहात्येव शशाङ्क इव शीतताम् ॥२५॥
सर्वज्ञोऽपि बहुज्ञोऽपि माधवोऽपि हरोऽपि च ।
अन्यथा नियतिं कर्तुं न शक्तः कश्चिदेव हि ॥२६॥
द्रव्यकालक्रियामन्त्रप्रयोगाणां स्वभावजाः ।
एतास्ताः शक्तयो राम यद्व्योमगमनादिकम् ॥२७॥
यथा विषाणि निघ्नन्ति मदयन्ति मधूनि च ।
वमयन्ति च शुक्तानि मदनानि फलानि च ॥२८॥
तथा स्वभाववशतो द्रव्यकालक्रियाक्रमाः ।
नियतं साधयन्त्याशु प्रयोगं युक्तियोजिताः ॥२९॥
एतस्मात्समतीतस्य त्यक्ताविद्यस्य राघव ।
आत्मज्ञानस्य नास्त्यत्र कर्तृताकर्तृतानघ ॥३०॥
द्रव्यदेशक्रियाकालयुक्तयः साधुसंविदः ।
परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥३१॥
यस्येच्छा विद्यते काचित्स सिद्धिं साधयत्यलम् ।
आत्मज्ञस्य तु पूर्णस्य नेच्छा संभवति क्वचित् ॥३२॥
सर्वेच्छाजालसंशान्तावात्मलाभोदयो हि यः ।
तद्विरुद्धा कथं कस्मादिच्छा संजायतेऽनघ ॥३३॥
यथोदेति च यस्येच्छा स तया यतते तथा ।
यथाकालं तदाप्नोति ज्ञो वाप्यज्ञतरोऽपि वा ॥३४॥
वीतहव्येन यतितं नो ज्ञानेच्छेन किंचन ।
ज्ञानेच्छेनाशु यतितं प्रोत्थितोऽसौ यथा वने ॥३५॥
एवं कालक्रियाकर्मद्रव्ययुक्तिस्वभावजाः ।
यथेच्छमेव सिद्ध्यन्ति सिद्धयः स्वाः क्रमार्जिताः ॥३६॥
याः फलावलयो येन संप्राप्ताः सिद्धिनामिकाः ।
तास्तेनाधिगता राम निजात्प्रयतनद्रुमात् ॥३७॥
महतां नित्यतृप्तानां तज्ज्ञानां भावितात्मनाम् ।
ईहितं संप्रयातानां नोपकुर्वन्ति सिद्धयः ॥३८॥
श्रीराम उवाच ।
अयं मे संशयो ब्रह्मन्वीतहव्यस्य सा तनुः ।
क्रव्यादैर्न कथं भुक्ता कथं क्लिन्ना न भूतले ॥३९॥
तदैव वीतहव्योऽसौ कथं वनगतः प्रभो ।
विदेहमुक्ततां शीघ्रं यथावदिति मे वद ॥४०॥
श्रीवसिष्ठ उवाच ।
या संविद्वलिता साधो वासनामलतन्तुना ।
सुखदुःखदशादाहभागिनी भवतीह सा ॥४१॥
निर्मुक्तवासना शुद्धसंविन्मात्रमयी तु सा ।
तनुस्तिष्ठति तच्छेदे शक्ता नेह हि केचन ॥४२॥
श्रृणु युक्त्या कया योगी तनुच्छेदादिविभ्रमैः ।
नाक्रम्यते महाबाहो बहुवर्षशतैरपि ॥४३॥
चेतः पदार्थे पतति यस्मिन्यस्मिन्यदा यदा ।
तन्मयं तद्भवत्याशु तस्मिंस्तस्मिंस्तदा तदा ॥४४॥
तथा दृष्टारि हि मनो विकारमुपगच्छति ।
दृष्टमित्रं सुहृद्यत्वं स्वयमित्यनुभूयते ॥४५॥
रागद्वेषविहीने तु पथिके पादपे गिरौ ।
भवत्यरागद्वेषं च स्वयमित्यनुभूयते ॥४६॥
मृष्टे लौल्यमुपादत्ते दुर्भोज्ये याति निःस्पृहम् ।
वैरस्यं याति कटुनि स्वयमित्यनुभूयते ॥४७॥
समसंविद्विलासाढ्ये यद्यदा यतिदेहके ।
हिंस्रचेतः पतत्याशु समतामेति तत्तदा ॥४८॥
समसङ्गविमुक्तत्वाच्छेदादौ न प्रवर्तते ।
पान्थो व्यर्थं पथि ग्रामे यथा ग्रामीणकर्मणि ॥४९॥
योगिदेहसमीपात्तु गत्वा प्राप्नोति हिंस्रताम् ।
यद्यद्भवति तत्राशु तथारूपं न संशयः ॥५०॥
इति हिंस्रैर्मृगव्याघ्रसिंहकीटसरीसृपैः ।
न च्छिन्ना वीतहव्यस्य तनुर्भूतलशालिनी ॥५१॥
सर्वत्र विद्यते संवित्काष्ठलोष्टोपलादिके ।
सत्तासामान्यरूपेण संस्थिता मूकबालवत् ॥५२॥
पोप्लूयमाना तरला केवलं परिदृश्यते ।
तन्वी पुर्यष्टकेष्वेव प्रतिबिम्बजलेष्विव ॥५३॥
तेन भूजलवाय्वग्निसंवित्त्या समरूपया ।
निर्विकारं तनुर्नीता वीतहव्यस्य राघव ॥५४॥
अन्यच्च श्रृणु मे राम स्पन्दो नाशस्य कारणम् ।
विकारः स च चित्तोत्थो वातजो वा जगत्स्थितौ ॥५५॥
प्राणानां प्राणनं स्पन्दस्तच्छान्तौ ते दृषत्समाः ।
यतः स्थिता धारणया तेनानष्टास्य सा तनुः ॥५६॥
सबाह्याभ्यन्तरं स्पन्दश्चित्तजो वातजोऽथवा ।
न यस्य विद्यते तस्य दूरस्थौ प्रकृतिक्षयौ ॥५७॥
सबाह्याभ्यन्तरे शान्ते स्पन्दे तत्त्वविदां वर ।
धातवः संस्थितिं देहे न त्यजन्ति कदाचन ॥५८॥
संशान्ते देहप्रस्पन्दे चित्तवातमये तथा ।
धातवो मैरवं स्थैर्यं यान्ति संस्तम्भितात्मकाः ॥५९॥
तथा च दृश्यते लोके स्पन्दशान्तौ दृढा स्थितिः ।
दारूणामिव धीराणां शवाङ्गानामचोपता ॥६०॥
इति वर्षसहस्राणि देहा जगति योगिनाम् ।
न क्लिद्यन्ते न भिद्यन्ते मग्नवज्जलदा इव ॥६१॥
तदैव वीतहव्योऽसौ श्रृणु किं नोपशान्तवान् ।
देहमुत्सृज्य तत्त्वज्ञो ज्ञातज्ञेयवतां वरः ॥६२॥
ये हि विज्ञातविज्ञेया वीतरागा महाधियः ।
विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थिताः॥६३॥
दैवं वापि च कर्माणि प्राक्तनान्यैहिकानि च ।
वासना वा न तेषां तच्चेतो नियमयन्त्यलम् ॥६४॥
तेन तत्त्वविदां तात काकतालीयवन्मनः ।
यद्यद्भावयति क्षिप्रं तत्तदाशु करोत्यलम् ॥६५॥
काकतालीययोगेन वीतहव्यस्य संविदा ।
सांप्रतं जीवितं बुद्धं तदेवाशु स्थिरीकृतम् ॥६६॥
यदा तु तस्य प्रतिभा विदेहोन्मुक्ततां गता ।
तदा विदेहमुक्तोऽभूदसौ स्वातन्त्र्यसंस्थितिः ॥६७॥
विगतवासनमाशु विपाशता-
मुपगतं मन आत्मतयोदितम् ।
यदभिवाञ्छति तद्भवति क्षणा-
त्सकलशक्तिमयो हि महेश्वरः ॥६८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सद्विलासविचारयोगोपदेशो नामैकोननवतितमः सर्गः ॥८९॥

N/A

References : N/A
Last Updated : September 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP