संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५९ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इत्युक्त्वा भगवानेनं सुरघुं रघुनन्दन ।ययौ स्वमेव रुचिरं माण्डव्यो मौनमण्डलम् ॥१॥गते वरमुनौ राजा गत्वैकान्तमनिन्दितम् ।धिया संचिन्तयामास को नामाहमिति स्वयम् ॥२॥नाहं मेरुर्न मे मेरुर्जगन्नाहं न मे जगत् ।नाहं शैला न मे शैला धरा नाहं न मे धरा ॥३॥किरातमण्डलं नेदं मम नाहं च मण्डलम् ।निजसंकेतमात्रेण केवलं देश एव मे ॥४॥त्यक्तो मयैष संकेतो नाहं देशो न वैष मे ।इदानीं नगरं शिष्टमेष एवात्र निश्चयः ॥५॥पताकावनपङ्क्त्याढ्या भृत्योपवनसंकुला ।गजाश्वसामन्तयुता पुरी नाहं न मे पुरी ॥६॥व्यर्थसंकेतसंबन्धं संकेतविगमे क्षतम् ।भोगवृन्दं कलत्रं च नाहं नैतन्ममाखिलम् ॥७॥एवं सभृत्यं सबलं सवाहनपुरान्तरम् ।नाहं राज्यं न मे राज्यं संकेतो ह्ययमाकुलः ॥८॥देहमात्रमहं मन्ये हस्तपादादिसंयुतम् ।तदिदं तावदाश्वन्तरलमालोकयाम्यहम् ॥९॥तदत्र तावन्मांसास्थि नाहमेतदचेतनम् ।न चैतन्मम संश्लेषमेत्यब्जस्य यथा जलम् ॥१०॥मांसं जडं न तदहं नैवाहं रक्तमप्यलम् ।जडान्यस्थीनि नैवाहं न चैतानि मम क्वचित् ॥११॥कर्मेन्द्रियाणि नैवाहं न च कर्मेन्द्रियाणि मे ।जडं यत्किल देहेऽस्मिंस्तदहं नैव चेतनः ॥१२॥नाहं भोगा न मे भोगा न मे बुद्धीन्द्रियाणि च ।जडान्यसत्स्वरूपाणि न च बुद्धीन्द्रियाण्यहम् ॥१३॥मूलं संसृतिदोषस्य मनो नाहं जडं हि तत् ।अथ बुद्धिरहंकार इति दृष्टिर्मनोमयी ॥१४॥मनोबुद्धीन्द्रियाद्यन्तो भूतकोशश्चलद्वपुः ।नाहमेवं शरीरादि शिष्टमालोकयाम्यहम् ॥१५॥शेषस्तु चेतनो जीवः स चेच्चेत्येन चेतति ।अन्येन बोध्यमानोऽसौ नात्मतत्त्ववपुर्भवेत् ॥१६॥एवं त्यजामि संवेद्यं चेत्यं नाहं हि तत्किल ।शेषो विकल्परहितो विशुद्धचिदहंस्थितः ॥१७॥चित्रमेषोऽस्मि लब्धात्मा जातः कालेन कार्यवान् ।एष सोऽहमनन्तात्मा नान्तोऽस्य परमात्मनः ॥१८॥ब्रह्मणीन्द्रे यमे वायौ सर्वभूतगणे तथा ।स एष भगवानात्मा तन्तुर्मुक्तास्विव स्थितः ॥१९॥चिच्छक्तिरमला सैषा चेत्यामयविवर्जिता ।भरिताशेषदिक्कुञ्जा भैरवाकारधारिणी ॥२०॥सर्वभावगता सूक्ष्मा भावाभावविवर्जिता ।आब्रह्मभुवनान्तःस्था सर्वशक्तिसमुद्गिका ॥२१॥सर्वसौन्दर्यसुभगा सर्वप्राकाश्यदीपिका ।सर्वसंसारमुक्तानां तन्तुराततरूपिणी ॥२२॥सर्वाकारविकाराढ्या सर्वाकारविवर्जिता ।सर्वभूतौघतां याता सर्वदा सर्वतां गता ॥२३॥चतुर्दशविधान्येषा भूतानि भुवनोदरे ।एतन्मयीयं कलना जागती वेदनात्मिका ॥२४॥मिथ्यावभासमात्रं तु सुखदुःखदशागतिः ।नानाकारमयाभासः सर्वमात्मैव चित्परा ॥२५॥सोऽयमात्मा मम व्यापी सेयं यदवबोधनम् ।सेयमाकलिताङ्गाभा करोति नृपविभ्रमम् ॥२६॥अस्या एव प्रसादेन मनो देहरथे स्थितम् ।संसारजाललीलासु याति वल्गति नृत्यति ॥२७॥इदं मनःशरीरादि न किंचिदपि वस्तुतः ।नष्टे न किंचिदप्यस्मिन्परिनश्यति पेलवे ॥२८॥जगज्जालमयं नृत्तमिदं चित्तनटैस्ततम् ।एतयैवैकया बुद्ध्या दृश्यते दीपलेखया ॥२९॥कष्टं मुधैव मे चिन्ता निग्रहानुग्रहस्थितौ ।बभूव देहनिष्ठेह न किंचिदपि देहकम् ॥३०॥अहो त्वहं प्रबुद्धोऽस्मि गतं दुर्दर्शनं मम ।दृष्टं द्रष्टव्यमखिलं प्राप्तं प्राप्यमिदं मया ॥३१॥सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् ।चिन्निष्पन्दांशमात्रांशान्नान्यत्किंचन शाश्वतम् ॥३२॥क्व तौ कीदृग्विधौ वापि किंनिष्ठौ वा किमात्मकौ ।निग्रहानुग्रहौ लोके हर्षामर्षक्रमौ तथा ॥३३॥किं सुखं किं नु वा दुःखं सर्वं ब्रह्मेदमाततम् ।अहमासं मुधा मूढो दिष्ट्या मूढोऽस्म्यहं स्थितः ॥३४॥किमस्मिन्नेवमालोके शोच्यते किं विमुह्यते ।किं प्रेक्ष्यते किं क्रियते स्थीयते वाथ गम्यते ॥३५॥किंचिदेवमिदं नाम चिदाकाशे विराजते ।नमो नमस्ते निस्तत्त्व दिष्ट्या दृष्टोऽसि सुन्दर ॥३६॥अहो नु संप्रबुद्धोऽस्मि सम्यग्ज्ञातमलं मया ।नमो मह्यमनन्ताय सम्यग्ज्ञानोदयाय च ॥३७॥विगतरञ्जननिर्विषयस्थिति-र्गतभवभ्रमरञ्जितवर्जिते ।स्थिरसुषुप्तकलाभिगतस्ततःसमसमं निवसाम्यहमात्मनि ॥३८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरहवृ० सुरघुविश्रान्तिर्नामैकोनषष्टितमः सर्गः ॥५९॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP