संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः १३ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः १३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं जनकवद्राम विचार्यात्मानमात्मना ।पदं विदितवेद्यानामविघ्नेनाधिगच्छसि ॥१॥ये हि पाश्चात्यजन्मानः प्राज्ञा राजससात्त्विकाः ।प्राप्नुवन्ति स्वयं प्राप्यं ते जना जनका इव ॥२॥तावत्तावद्विजित्यारीनिन्द्रियाख्यान्पुनःपुनः ।यावदात्मात्मनैवायमात्मन्येव प्रसीदति ॥३॥प्रसन्ने सर्वगे देवे देवेशे परमात्मनि ।स्वयमालोकिते सर्वाः क्षीयन्ते दुःखदृष्टयः ॥४॥मुष्टयो मोहबीजानां वृष्टयो विविधापदाम् ।कुदृष्टयः क्षयं यान्ति दृष्टे तस्मिन्परावरे ॥५॥सदा जनकवद्राम सर्वारम्भवदात्मना ।प्रज्ञयात्मानमालक्ष्य लक्ष्मीवानुत्तमो भव ॥६॥नित्यमन्तर्विचारस्य पश्यतश्चञ्चलं जगत् ।जनकस्येव कालेन स्वयमात्मा प्रसीदति ॥७॥न दैवं नच कर्माणि न धनानि न बान्धवाः ।शरणं भवभीतानां स्वप्रयत्नादृते नृणाम् ॥८॥ये दैवनिष्ठाः कृत्यादौ कुविकल्पपरायणाः ।तेषां मन्दा मतिस्तात नानुगम्या विनाशनी ॥९॥विवेकं परमाश्रित्य विलोक्यात्मानमात्मना ।धिया विरागोद्धुरया संसारजलधिं तरेत् ॥१०॥एषा सा कथिता राम नभःफलनिपातवत् ।सुखदा ज्ञानसंप्राप्तिरज्ञानतरुशातनी ॥११॥जनकस्येव सद्बुद्धेः स्वयमेव विलोकिनः ।विकासमेत्ययं देही देवः प्रातरिवाम्बुजम् ॥१२॥संसारमननं चित्रं विचारेण विलीयते ।गलद्वशीकृतस्पर्शमातपेन हिमं यथा ॥१३॥अयमेवाहमित्यस्या निशाया उदिते क्षये ।स्वयं सर्वगतः स्फारः स्वालोकः संप्रवर्तते ॥१४॥अयमेवाहमित्यस्मिन्संकोचे विलयं गते ।अनन्तभुवनव्यापी विस्तार उपजायते ॥१५॥जनकेन परित्यक्ता यथाहंकारवासना ।तथा त्वमपि सद्बुद्धे विचार्यान्तः परित्यज ॥१६॥अहंकाराम्बुदे क्षीणे चिद्व्योम्नि विमले तते ।नूनं संप्रौढतामेति स्वालोको भास्करः परः ॥१७॥एतावदेवातितमो यदहंभावभावनम् ।तस्मिंश्च शममानीते प्रकाश उपजायते ॥१८॥नाहमस्ति न चान्योस्ति नच नास्तीति भावितम् ।मनः प्रशान्तिमायातं नोपादेयेषु मज्जति ॥१९॥उपादेयानुपतनं हेयैकान्तविवर्जनम् ।यदेतन्मनसो राम तद्बन्धं विद्धि नेतरत् ॥२०॥मा खेदं भज हेयेषु नोपादेयपरो भव ।हेयादेयदृशौ त्यक्त्वा शेषस्थः स्वच्छतां व्रज ॥२१॥येषामिदमुपादेयमिदं हेयमिति स्थितिः ।विलीना ते न वाञ्छन्ति त त्यजन्तीह किंचन ॥२२॥हेयोपादेयकलने क्षीणे यावन्न चेतसः ।न तावत्समता भातिसाभ्रे व्योम्नीवचन्द्रिका ॥२३॥अवस्त्विदमिदं वस्तु यस्येति लुलितं मनः ।तस्मिन्नोदेति समता शाखोट इव मञ्जरी ॥२४॥युक्तायुक्तैषणा यत्र लाभालाभविलासिनी ।समता स्वच्छता तत्र कुतो वैराग्यभासिनी ॥२५॥एकस्मिन्ब्रह्मतत्त्वेऽस्मिन्विद्यमाने निरामये ।नानाऽनानातया नित्यं किमयुक्तं क्व युक्तता ॥२६॥ईप्सितानीप्सिताशङ्के मर्कट्यौ चित्तपादपे ।चञ्चले स्फुरतो यस्मिन्कुतस्तस्येह सौम्यता ॥२७॥निराशता निर्भयता नित्यता समता ज्ञता ।निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥२८॥धृतिर्मैत्री मतिस्तुष्टिर्मृदुता मृदुभाषिता ।हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् ॥२९॥धावमानमधोभागे चित्तं प्रत्याहरेद्बलात् ।प्रत्याहारेण पतितमधो वारीव सेतुना ॥३०॥बाह्यानर्थानिमांस्त्यक्त्वा तिष्ठन्गच्छन्स्वपन्श्वसन् ।सर्वथा सर्वदा सर्वानान्तरांश्च विचारय ॥३१॥गृहीततृष्णाशफरि वासनाजालमाविलम् ।संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥३२॥अनया तीक्ष्णया तात च्छिन्धि बुद्धिशलाकया ।वात्ययेवाम्बुदं काले वहन्त्या वितते पदे ॥३३॥अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् ।भव्यधीरेण धैर्येण प्रोद्धरोद्धुरया धिया ॥३४॥मनसैव मनश्छित्त्वा कुठारेणेव पादपम् ।पदं पावनमासाद्य सद्य एव स्थिरो भव ॥३५॥मनसैव मनच्छित्त्वा विस्मृत्या चरमं मनः ।वर्तमानमपि च्छित्त्वा च्छिन्नसंसारतां व्रज ॥३६॥मोहो विस्मृत्य संसारं न भूयः परिरोहति ।चित्तं विस्मृत्य संसारो न भूयः परिरोहति ॥३७॥तिष्ठन्गच्छन्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् ।असदेवेदमित्यन्तर्निश्चित्यास्थां परित्यज ॥३८॥समतामलमाश्रित्य संप्राप्तं कार्यमाहरन् ।अचिन्तयंस्तथाऽप्राप्तं विहरेह हि राघव ॥३९॥यथा शर्वोऽपि लिङ्गानि न बिभर्ति बिभर्ति च ।त्वमेवमिह कार्याणि कुरु मा कुरु चानघ ॥४०॥त्वमेव वेत्ता त्वमजस्त्वमात्मा त्वं महेश्वरः ।आत्मनोऽव्यतिरिक्तः संस्त्वयेत्थमिदमाततम् ॥४१॥येनात्मदृश्यसद्भावादभितो भावनोज्झिता ।स न संगृह्यते दोषैर्हर्षामर्षविषादजैः ॥४२॥रागद्वेषविनिर्मुक्तः समलोष्टाश्मकाञ्चनः ।युक्त इत्युच्यते योगी त्यक्तसंसारवासनः ॥४३॥स यत्करोति यद्भुङ्क्ते यद्ददाति निहन्ति यत् ।तत्र मुक्तधियस्तस्य समता सुखदुःखयोः ॥४४॥प्राप्तं कर्तव्यमेवेति त्यक्तेष्टानिष्टभावनः ।प्रवर्तते यः कार्येषु न स मज्जति कुत्रचित् ॥४५॥चित्सत्तामात्रमेवेदमिति निश्चयवन्मनः ।त्यक्तभोगाभिमननं शममेति महामते ॥४६॥मनः प्रकृत्यैव जडं चित्तत्त्वमनुधावति ।मांसगर्धेन मार्जारो वने मृगपतिं यथा ॥४७॥सिंहवीर्यवशाल्लब्धं मांसं भुङ्क्तेऽनुगो हरेः ।चिद्वीर्यवशतः प्राप्तं दृश्यमाश्रयते मनः ॥४८॥मन एवमसत्कल्पं चित्प्रसादेन जीवति ।भावयन्विश्वमेवैकं चिन्तामेत्य चिदप्युत ॥४९॥जडं यत्किल निर्हीनं चिता दीपिकयौजसा ।तन्मनः शवसंकाशमचिदुत्तिष्ठते कथम् ॥५०॥चित्स्वभावपरामृष्टा स्पन्दशक्तिरसन्मयी ।कल्पना चित्तमित्युक्त्या कथ्यते शास्त्रदृष्टिभिः ॥५१॥यश्चित्तफणिकूत्कारः सैवेयं कलनोच्यते ।चिदेवाहमिति ज्ञात्वा सा चित्तामेव गच्छति ॥५२॥चेत्येन रहिता यैषा चित्तद्ब्रह्म सनातनम् ।चेत्येन सहिता यैषा चित्सेयं कलनोच्यते ॥५३॥किंचिदामृष्टरूपं यद्ब्रह्म तच्च स्थिरं मनः ।कल्पना सत्सदैवैतत्सदिवोपस्थिता हृदि ॥५४॥चित्तमित्येव रूढेयं यदैव कलनोदिता॥तदैव चित्त्वं विस्मृत्य सा जडेव व्यवस्थिता ॥५५॥संपन्ना कलनानाम्नी संकल्पानुविधायिनी ।अवच्छेदवती वाग्रा हेयोपादेयधर्मिणी ॥५६॥सैषा चिदेव जगतामागतेव स्वशक्तितः ।न संप्रबोधिता यावद्रूपं तावन्न बुध्यते ॥५७॥अतः शास्त्रविचारेण वैराग्येण परेण च ।निग्रहेणेन्द्रियाणां च बोधयेत्कलनां स्वयम् ॥५८॥कलना सर्वजन्तूनां विज्ञानेन शमेन च ।प्रबुद्धा ब्रह्मतामेति भ्रमतीतरथा जगत् ॥५९॥व्यामोहमदिरामत्तां लुठितां विषयावटे ।आत्मावेदनसंसुप्तां कलनामेव बोधयेत् ॥६०॥अप्रबुद्धा यदा ह्येषा न किंचिदवबुध्यते ।संकल्पकलनेवान्तर्दृश्यमानाप्यसन्मयी ॥६१॥तया परमया दृष्ट्या कलनैषान्तरस्थया ।मञ्जरी गन्धशक्त्येव पदार्थेषु विराजते ॥६२॥तनुः संकल्पिता यैषा कलनेति जगत्त्रये ।सा हि किंचिद्विजानाति नित्यं ज्ञानैकधर्मिणी ॥६३॥चेतनेन जडा राम कलनोपलरूपिणी ।पद्मिनीवातपेनासौ परेणैव प्रबोध्यते ॥६४॥यथा शिलामयी कन्या चोदितापि न नृत्यति ।तथेयं कलना देहे न किंचिदवबुध्यते ॥६५॥लिपिकर्मनृपैर्युद्धं क्व कृतं घर्घरारवम् ।क्वचिन्न चन्द्रकिरणैरोषध्यः प्रतिबोधिताः ॥६६॥असृगालिप्तगात्रैश्च शवैः क्व परिवल्गितम् ।क्व गीतं मधुरध्वानं वनपाषाणखण्डकैः ॥६७॥क्व पुंसा विहितैरर्कैः क्षपितं यामिनीतमः ।क्व संकल्पमयैश्छाया क्रियते व्योमकाननैः ॥६८॥क्व जडैरुपलाकारैर्मिथ्याभ्रमभरोत्थितैः ।मृगतृष्णामयैरेभिर्मनोभिः क्रियते क्रिया ॥६९॥यथातपे क्षते स्फारे मृगतृष्णातरङ्गिणी ।कलना तद्वदेवेयं स्फुरत्यात्मनि सत्यलम् ॥७०॥यदेतत्स्पन्दितं नाम तन्मनोऽधिगतं शठैः ।मरुतां विद्धि तां शक्तिमन्तः प्राणशरीरिणीम् ॥७१॥येषां संविदनाक्रान्ता संकल्पलवनिश्चयैः ।अनाक्षिप्तरसाकारा प्रभैषा पारमात्मिकी ॥७२॥अयं सोऽहमिदं तन्म इति या कलनाविला ।प्राणात्मतत्त्वयोस्तस्याः संज्ञा जीवेति कथ्यते ॥७३॥धीश्चित्तं जीव इत्येताः संकल्पस्यासतो मताः ।संज्ञाः संकल्पितास्तज्ज्ञैर्न राम परमार्थतः ॥७४॥मनो नो न मतिर्नापि धीरेषा न शरीरकम् ।अस्तीह परमार्थेन स्वात्मैवेहास्ति सर्वदा ॥७५॥आत्मैवेदं जगत्सर्वमात्मा कालक्रमस्तथा ।स चाकाशादच्छतरो नास्तीवास्त्येव चामलः ॥७६॥अच्छत्वादसदाभासः संविद्रूपतया तु सत् ।आत्मा सर्वपदातीतः स्वानुभूत्यानुभूयते ॥७७॥मनस्तत्र परिक्षीणं यत्र संवित्परात्मनः ।अन्धकारक्षयस्तत्र यत्रालोकः प्रवर्तते ॥७८॥यत्रात्मसंविदोऽच्छायाः संकल्पोत्थतया मताः ।तत्रात्मनो विस्मरणं स्मरणं चित्तजन्मनः ॥७९॥परस्य पुंसः संकल्पमयत्वं चित्तमुच्यते ।अचित्तत्वमसंकल्पान्मोक्षस्तेनाभिजायते ॥८०॥एतावच्चेतसो जन्म बीजं संसारभूतये ।संकल्पोन्मुखतां यातः संविदो वा किलात्मनः ॥८१॥निर्विकल्पाच्चितः सत्ता संकल्पाङ्ककलङ्किता ।कलनेत्युच्यते तेन पुंस्त्ववद्बुद्ध्यते मनः ॥८२॥प्राणशक्तौ निरुद्धायां मनो राम विलीयते ।द्रव्यच्छायानु तद्द्रव्यं प्राणरूपं हि मानसम् ॥८३॥देशान्तरानुभवनं प्राणो वेत्ति हृदि स्थितम् ।स्पन्दवेदनतो यत्तन्मन इत्यभिधीयते ॥८४॥वैराग्यात्कारणाभ्यासाद्युक्तितो व्यसनक्षयात् ।परमार्थावबोधाच्च रोध्यन्ते प्राणवायवः ॥८५॥दृषदो विद्यते शक्तिः कदाचिच्चलनैधसाम् ।न पुनर्मनसामस्ति शक्तिः स्पन्दावबोधने ॥८६॥स्पन्दः प्राणमरुच्छक्तिश्चलद्रूपैव सा जडा ।चिच्छक्तिः स्वात्मनः स्वच्छा सर्वदा सर्वगैव सा ॥८७॥चिच्छक्तेः स्पन्दशक्तेश्च संबन्धः कल्प्यते मनः ।मिथ्यैव तत्समुत्पन्नं मिथ्या ज्ञानं तदुच्यते ॥८८॥एषा ह्यविद्या कथिता मायैषा सा निगद्यते ।परमेतत्तदज्ञानं संसारादिविषप्रदम् ॥८९॥चिच्छक्तेः स्पन्दशक्तेश्च सङ्गे संकल्पकल्पनम् ।न कृतं चेत्परिक्षीणास्तदिमा भवभीतयः ॥९०॥वायुतः स्पन्दशक्तिर्या सा चिता चेत्यते यदा ।सचेत्या चित्तदैवान्तः संकल्पाद्याति चित्तताम् ॥९१॥चित्ततैषा चितो मिथ्या कल्पिता बालयक्षवत् ।अखण्डमण्डलाकारस्पन्दरूपा चिदेव यत् ॥९२॥सैषा चित्ता तदन्येन केन संबाध्यते किल ।अखण्डशक्तेरिन्द्रस्य केन स्यात्सह संगरः ॥९३॥अतः संबन्धिनोऽभावात्संबन्धोऽत्र न विद्यते ।संबन्धेन विना कस्य सिद्धं तत्कीदृशं मनः ॥९४॥चित्स्पन्दयोरेकतायां किं नाम मन उच्यते ।का सेना हयमातङ्गसङ्गसंघट्टनं विना ॥९५॥तस्मान्नास्त्येव दुष्टात्म चित्तं राम जगत्त्रये ।सैषा सम्यक्परिज्ञानाच्चेतसो जायते क्षतिः ॥९६॥मुधा मैवमनर्थाय मनः संकल्पयानघ ।मनो मिथ्यासमुदितं नास्त्यत्र परमार्थतः ॥९७॥मा त्वमन्तः क्वचित्किंचित्संकल्पय महामते ।मनः संकल्पकं राम यस्मान्नास्तीह कुत्रचित् ॥९८॥असम्यग्ज्ञानसंभूता कल्पना मृगतृष्णिका ।हृन्मरौ तव संशान्ता सम्यगालोकनान्मुने ॥९९॥जडत्वान्निःस्वरूपत्वात्सर्वदैव मृतं मनः ।मृतेन मार्यते लोकश्चित्रेयं मौर्ख्यचक्रिका ॥१००॥यस्य नात्मा न देहोऽस्ति नाधारो नापि चाकृतिः ।तेनेदं भक्ष्यते सर्वं चित्रेयं मौर्ख्यवागुरा ॥१०१॥सर्वसामग्र्यहीनेन हन्यते मनसापि यः ।नीलोत्पलदलाघातैर्मन्ये दलितमस्तकम् ॥१०२॥जडेन मूकेनान्धेन निहतो मनसापि यः ।मन्ये स दह्यते मूढः पूर्णचन्द्रमरीचिभिः ॥१०३॥विद्यमानोऽपि यः शूरो लोकस्तेनाभिभूयते ।अविद्यमानमेवेदं हन्यते मुग्धतोदिता ॥१०४॥मिथ्यासंकल्पकलितं मिथ्यावस्थितिमागतम् ।अन्विष्टमपि नो दृष्टं का तस्य किल शक्तता ॥१०५॥अहो नु खलु चित्रेयं मायामयविधायिनी ।चेतसाप्यतिलोलेन लोकोऽयमभिभूयते ॥१०६॥मौर्ख्यं यदापदान्विष्टः का हि नापदजानतः ।पश्य मौर्ख्यादियं सृष्टिरज्ञानेनैव जन्यते ॥१०७॥हा कष्टमपि दुर्बुद्धेः सृष्टिर्मौर्ख्यवशं गता ।असतैव यदेतेन जीवेनाप्युपपाद्यते ॥१०८॥मन्ये मौर्ख्यमयी सृष्टिरियमत्यन्तपेलवा ।वास्तरङ्गप्रवाहेण कणशः परिशीर्यते ॥१०९॥नीलाञ्जनालवालेन यन्त्रेणैव विचूर्ण्यते ।इन्दोराभोगपूर्णस्य करस्पर्शेन मुह्यति ॥११०॥रिपुभिर्नयनोन्मुक्तैर्दृष्टः सूत्रैर्निबध्यते ।संकल्पकृतया शूरसेनया परिभूयते ॥१११॥तस्मात्किलेयं मनसा न स्थितेनैव कुत्रचित् ।कल्पितेन मुधान्येन कृपणेन निहन्यते ॥११२॥मूर्खलोकमयी सृष्टिर्मन एवासदुत्थितम् ।यः शक्तो न वशीकर्तुं नासौ रामोपदिश्यते ॥११३॥अभिजाताऽस्वरूपैषा प्रज्ञा क्षोदेषु न क्षमा ।नोपदेशगिरां योग्या परिपूर्णेव संस्थिता ॥११४॥विभेत्येषापि वीणायास्तन्त्रीगुणतनुध्वनेः ।बन्धोरपि सनिद्रस्य विभेति वदनद्युतेः ॥११५॥असतोऽपि जनादुच्चैर्गीताद्भीता पलायते ।स्वेनैव मनसाप्यज्ञा किलैषा विवशीकृता ॥११६॥सुखलवविवशा द्विषेव तप्ताहृदयगतेन निजेन चेतसैव ।विधुरितधिषणा न वेत्ति सत्यंतदपि कथं परिमोहितो मुधैव ॥११७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे मनोविनिवारणं नाम त्रयोदशः सर्गः ॥१३॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP