संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५७ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।यदात्ममरिचस्यान्तश्चित्त्वात्तीक्ष्णत्ववेदनम् ।तदहंतादि भेदादि देशकालादि चेत्यतः ॥१॥यदात्मलवणस्यान्तश्चित्त्वाल्लवणवेदनम् ।तदहंतादि भेदादि देशकालादि मत्स्थितम् ॥२॥स्वतो यदन्तरात्मेक्षोश्चित्त्वान्माधुर्यवेदनम् ।तदहंतादि भेदादि जगत्तत्त्वादि जृम्भितम् ॥३॥स्वतो यदात्मदृषदश्चित्त्वात्काठिन्यवेदनम् ।तदहंतादि भेदादि देशकालादितां गतम् ॥४॥स्वतो यदात्मशैलस्य ज्ञतया जाड्यवेदनम् ।तदहंतादि भेदादि भुवनादीति संस्थितम् ॥५॥स्वतो यदात्मतो यस्य चिद्द्रवत्वादिवर्तनम् ।तदावर्ताद्यहंतादिभेदाद्याकारिता इव ॥६॥स्वतो यदात्मवृक्षस्य शाखादिस्तस्य वेदनम् ।तदहंतादि भेदादि भुवनादीव सत्स्फुरत् ॥७॥यदात्मगगनस्यान्तश्चित्त्वाच्छून्यत्ववेदनम् ।तदहंतादि भेदादि भुवनादीति भावनम् ॥८॥यदात्मगगनस्यान्तश्चित्त्वात्सौषिर्यवेदनम् ।तदहंतादि भेदादि शरीरादि च दीपितम् ॥९॥स्वतो यदात्मकुड्यस्य नैरन्तर्यं निरन्तरम् ।तदहंतादिभेदेन चित्ताद्वहिरिव स्थितम् ॥१०॥स्वतो यदात्मसत्तायाश्चित्त्वात्सत्त्वैकवेदनम् ।तदहंतादि भेदादि चेतनानीतिवत्स्थितम् ॥११॥अन्तरात्मप्रकाशस्य स्वतो यदवभासनम् ।तदहंतादि चित्त्वादि जीव इत्येव वेद सः ॥१२॥अन्तरस्ति यदात्मेन्दोश्चिद्रूपं चिद्रसायनम् ।स्वत आस्वादितं तेन तदहंतादिनोदितम् ॥१३॥परमात्मगुडस्यान्तर्यच्चित्स्वादूदयात्मकम् ।तदेवास्वाद्यते तेन स्वतोऽहंतादि नान्तरे ॥१४॥परमात्ममणेश्चित्त्वाद्यदन्तः कचनं स्वयम् ।चेतनात्मपदे चान्तरहमित्यादि वेत्त्यसौ ॥१५॥न च किंचन वेत्त्यन्तर्वेद्यस्यासंभवादिह ।न चास्वादयति स्वादु स्वाद्यस्यासंभवादयम् ॥१६॥न च किंचिच्चिनोत्यन्तश्चेत्यस्यासंभवे सति ।विन्दते न च वा किंचिद्वेद्यस्यासंभवादसौ ॥१७॥असदाभास एवात्मा अनन्तो भरिताकृतिः ।स्थितः सदैवैकघनो महाशैल इवात्मनि ॥१८॥अनया तु वचोभङ्ग्या मया ते रघुनन्दन ।नाहंतादिजगत्तादिभेदोस्तीति निदर्शितम् ॥१९॥न चित्तमस्ति नो चेता न जगत्तादिविभ्रमः ।वृष्टमूकाम्बुदसितं शान्तं शाम्यति केवलम् ॥२०॥यथावर्तादितामेति द्रवत्वाद्वारि वारिणि ।तदाहंतादितामेति ज्ञप्ता ज्ञप्तौ ज्ञ आत्मनि ॥२१॥यथा द्रवत्वं पयसि यथा स्पन्दः सदागतौ ।अहंतादेशकालादि तथा ज्ञे ज्ञप्तिमात्रके ॥२२॥ज्ञो ज्ञतायां शिव ज्ञानं जानाति ज्ञानबृंहया ।ज्ञायतेऽहंतदि ज्ञेन जीवादीत्यभिजीवनैः ॥२३॥यथोदेति ययाऽज्ञस्य तृप्तिर्ज्ञानेन यादृशी ।अनन्ये वान्यता बुद्धा स तथा जृम्भते तया ॥२४॥जीवनं ज्ञातता ज्ञाता जीवनं जीवजीवनम् ।अत्यन्तमस्ति नो भेदश्चिद्रूपत्वे ज्ञजीवयोः ॥२५॥यथा ज्ञजीवयोर्नास्ति भेदो नाम तथैतयोः ।भेदोऽस्ति न ज्ञशिवयोर्विद्धि शान्तमखण्डितम् ॥२६॥सर्वं प्रशान्तमजमेकमनादिमध्य-माभास्वरं स्वदनमात्रमचेत्यचिह्नम् ।सर्वं प्रशान्तमिति शब्दमयी तु दृष्टि-र्बोधार्थमेव हि मुधैव तदोमितीदम् ॥२७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे भेदनिरासो नाम सप्तपञ्चाशः सर्गः ॥५७॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP