संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ७१ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ७१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।यावत्तुर्यपरामर्शस्तावत्केवलतापदम् ।जीवन्मुक्तस्य विषयो वचसां च रघूद्वह ॥१॥अत ऊर्ध्वमदेहानां मुक्तानां वचसा तथा ।विषयो न महाबाहो पुरुषाणामिवाम्बरम् ॥२॥सा हि विश्रान्तिपदवी दूरेभ्योऽपि दवीयसी ।गम्या विदेहमुक्तानां खलेखेव नभस्वताम् ॥३॥सुषुप्तावस्थया कंचित्कालं भुक्त्वा जगत्स्थितिम् ।तुर्यतामेति तदनु परमानन्दघूर्णितः ॥४॥तुर्यातीतदशां तज्ज्ञा यथा यान्त्यात्मकोविदाः ।तथाधिगच्छ निर्द्वन्द्वं पदं रघुकुलोद्वह ॥५॥सुषुप्तावस्थया राम भव संव्यवहारवान् ।चित्रेन्दोरिव ते न स्तः क्षयोद्वेगावरिन्दम ॥६॥शरीरसंनिवेशस्य क्षये स्थैर्ये च संविदः ।मा गृहाण भ्रमो ह्येष शरीरमिति जृम्भते ॥७॥देहनाशेन कोऽर्थस्ते कोऽर्थस्ते देहसंस्थया ।भव त्वं प्रकृतारम्भस्तिष्ठत्वेष यथास्थितम् ॥८॥ज्ञातवानसि तत्सत्यं बुद्धवानसि तत्पदम् ।प्राप्तवानसि रूपं स्वं विशोको भव भूतये ॥९॥ईप्सितानीप्सितं त्यक्त्वा शीतलालोकशोभया ।अन्धकारात्तथाम्भोदान्मुक्तं खमिव शोभते ॥१०॥मनस्तवात्मसंपन्नं नाधः समनुधावति ।योगमन्त्रतपःसिद्धः पुरुषः खादिवावनिम् ॥११॥इह शुद्धा चिदेवास्ति पारावारविवर्जिता ।अयं सोऽहमिदं तन्म इति ते मास्तु विभ्रमः ॥१२॥आत्मेति व्यवहारार्थमभिधा कल्पिता विभोः ।नामरूपादिभेदस्तु दूरमस्मादलं गतः ॥१३॥जलमेव यथाम्भोधिर्न तरङ्गादिकं पृथक् ।आत्मैवेदं तथा सर्वं न भूतोयादिकं पृथक् ॥१४॥यथा समस्ताज्जलधौ जलादन्यन्न लभ्यते ।तथैव जगतः स्फारादात्मनोऽन्यन्न लभ्यते ॥१५॥अयं सोऽहमिति प्राज्ञ क्व करोषि व्यवस्थितिम् ।किं तत्त्वं किं च वा ते स्यात्किं तत्त्वं किं च वा न ते ॥१६॥न द्वित्वमस्ति नो देहाः संबन्धो न च तैः स्थितः ।संभाव्यते कलङ्को वा भानोरिव तमःपटैः ॥१७॥द्वित्वमभ्युपगम्यापि कथयामि तवारिहन् ।देहादिभिः सद्भिरपि न संबन्धो विभोर्भवेत् ॥१८॥छायातपप्रसरयोः प्रकाशतमसोर्यथा ।न संभवति संबन्धस्तथा वै देहदेहिनोः ॥१९॥यथा शीतोष्णयोर्नित्यं परस्परविरुद्धयोः ।न संभवति संबन्धो राम देहात्मनोस्तथा ॥२०॥अविनाभाविनोर्यस्तु संबन्धः कथमेतयोः ।जडचेतनयोर्देहदेहिनोरनुभूयते ॥२१॥चिन्मात्रस्यात्मनो देहसंबन्ध इति या कथा ।सैषा दुरवबोधार्था दावाग्नौ जलधिर्यथा ॥२२॥सत्यावलोकनेनैषा मिथ्यादृष्टिर्विनश्यति ।अवलोकनया साम्यमातपे जलधिर्यथा ॥२३॥चिदात्मा निर्मलो नित्यः स्वावभासो निरामयः ।देहस्त्वनित्यो मलवांस्तेन संबध्यते कथम् ॥२४॥स्पन्दमायाति वातेन भूतैर्वा पीवरीकृतः ।देहस्तेन न संबन्धो मनागेव सहात्मना ॥२५॥सिद्धे द्वित्वेऽपि देहस्य न संबन्धस्य संभवः ।द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः ॥२६॥इत्येतदेव तत्सत्त्वे तत्रैवान्तःस्थितिं कुरु ।न बन्धोऽस्ति न मोक्षोऽस्ति कदाचित्कस्यचित्क्वचित् ॥२७॥सर्वमात्ममयं शान्तमित्येवं प्रत्ययं स्फुटम् ।सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय ॥२८॥सुखी दुःखी विमूढोऽस्मीत्येता दुर्दृष्टयः स्मृताः ।आसु चेद्वस्तुबुद्धिस्ते तच्चिरं दुःखमिच्छसि ॥२९॥यः क्रमः शैलतृणयोः कौशेयोपलयोस्तथा ।साम्यं प्रति स एवोक्तः परमात्मशरीरयोः ॥३०॥यथा तेजस्तिमिरयोर्न संबन्धो न तुल्यता ।अत्यन्तभिन्नयो राम तथैवात्मशरीरयोः ॥३१॥यथा शीतोष्णयोरैक्यं कथास्वपि न दृश्यते ।जडप्रकाशयोः श्लेषो न तथात्मशरीरयोः ॥३२॥देहश्चलति वातेन तेनैवायाति गच्छति ।शब्दं करोति वातेन देहनाडीविलासिना ॥३३॥शब्दः कचटतप्रायः स्फुरत्यन्तः समीरणैः ।यथा प्रजायते वंशाद्देहरन्ध्रात्तथैव हि ॥३४॥कनीनिकापरिस्पन्दश्चक्षुःस्पन्दस्य मारुतात् ।इन्द्रियस्फुरणात्सैव संवित्केवलमात्मनः ॥३५॥आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता ।प्रतिबिम्बमिवादर्शे चित्त एवात्र दृश्यते ॥३६॥शरीरालयमुत्सृज्य यत्र चित्तविहंगमः ।स्ववासनावशाद्याति तत्रैवात्मानुभूयते ॥३७॥यत्र पुष्पं तत्र गन्धसंविदः संस्थिता यथा ।यत्र चित्तं हि तत्रात्मसंविदः संस्थितास्तथा ॥३८॥सर्वत्र स्थितमाकाशमादर्शे प्रतिबिम्बति ।यथा तथात्मा सर्वत्र स्थितश्चेतसि दृश्यते ॥३९॥अपामवनतं स्थानमास्पदं भूतले यथा ।अन्तःकरणमेवात्मसंविदामास्पदं तथा ॥४०॥सत्यासत्यं जगद्रूपमन्तःकरणबिम्बिता ।आत्मसंवित्तनोतीदमालोकमिव सूर्यभा ॥४१॥अन्तःकरणमेवातः कारणं भूतसंसृतौ ।आत्मा सर्वातिगत्वात्तु कारणं सदकारणम् ॥४२॥अविचारणमज्ञानं मौर्ख्यमाहुर्महाधियः ।संसारसंसृतौ सारमन्तःकरणकारणम् ॥४३॥असम्यक्प्रेक्षणान्मोहाच्चेतःसत्तां गृहीतवत् ।संमोहबीजकणिकां तमोऽर्कादिव दृश्यते ॥४४॥यथा भूतात्मतत्त्वैकपरिज्ञानेन राघव ।असत्तामेत्यलं चेतो दीपेनेव तमः क्षणात् ॥४५॥संसारकारणमितः स्वयं चेतो विचारयेत् ।जीवोऽन्तःकरणं चित्तं मनश्चेत्यादिनामकम् ॥४६॥श्रीराम उवाच ।एताः संज्ञाः प्रभो ब्रह्मंश्चेतसो रूढिमागताः ।कथमित्येव कथय मयि मानद सिद्धये ॥४७॥श्रीवसिष्ठ उवाच ।सर्वे भावा इमे नित्यमात्मतत्वैकरूपिणः ।चित्तात्तरङ्गकगणा जलैककलिता यथा ॥४८॥आत्मा स्पन्दैकरूपात्मा स्थितस्तेषु क्वचित्क्वचित् ।तरङ्गेषु विलोलेषु पयोधेः सलिलं यथा ॥४९॥क्वचिदस्पन्दरूपात्मा स्थितस्तेषु महेश्वरः ।तरङ्गत्वमयातेषु जलभावो जलेष्विव ॥५०॥तत्रोपलादयो भावा अलोलाः स्वात्मनि स्थिताः ।सुराफेनवदुत्स्पन्दा लोलास्तु पुरुषादयः ॥५१॥तत्र तेषु शरीरेषु सर्वशक्तिस्तदात्मनः ।कलिताऽज्ञानकलना तेनाज्ञानमसौ स्थितः ॥५२॥तदज्ञानमनन्तात्मभूषितं जीव उच्यते॥स संसारे महामोहमायापञ्जरकुञ्जरः ॥५३॥जीवनाज्जीव इत्युक्तोऽहंभावः स्यात्त्वहंतया ।बुद्धिर्निश्चायकत्वेन संकल्पकलनान्मनः ॥५४॥प्रकृतिः प्रकृतित्वेन देहो दिग्धतया स्थितः ।जडः प्रकृतिभावेन चेतनः स्वात्मसत्तया ॥५५॥जडाजडदृशोर्मध्यं यत्तत्त्वं पारमात्मिकम् ।तदेतदेव नानात्वं नानासंज्ञाभिराततम् ॥५६॥एवं स्वरूपं जीवस्य बृहदारण्यकादिषु ।बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ ॥५७॥अज्ञैस्त्वेतासु संज्ञासु कुविकल्पकुतार्किकैः ।मोहाय केवलं मूढैर्व्यर्थमास्थाः प्रकल्पिताः ॥५८॥एवमेष महाबाहो जीवः संसारकारणम् ।मूकेनातिवराकेण देहकेनेह किं कृतम् ॥५९॥आधाराधेययोरेकनाशे नान्यस्य नष्टता ।यथा तथा शरीरादिनाशे नात्मनि नष्टता ॥६०॥एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् ।याति पर्णरसश्चार्करश्मिजालान्तरे यथा ॥६१॥शरीरसंक्षये देही न क्षयं याति कस्यचित् ।निर्वासनश्चेत्तद्व्योम्नि तिष्ठत्यात्मपदे तथा ॥६२॥देहनाशे विनष्टोऽस्मीत्येवं यस्याऽमतेर्भ्रमः ।मातुः स्तनतटात्तस्य मन्ये वेताल उत्थितः ॥६३॥यस्य ह्यात्यन्तिको नाशः स्यादसावुदितः स्मृतः ।चित्तनाशो हि नाशः स्यात्स मोक्ष इति कथ्यते ॥६४॥मृतो नष्ट इति प्रोक्तो मन्ये तच्च मृषा ह्यसत् ।स देशकालान्तरितो भूत्वा भूत्वानुभूयते ॥६५॥इहोह्यन्ते जनैरेवं तरङ्गान्तस्तृणैरिव ।मरणव्यपदेशासु देशकालतिरोहितैः ॥६६॥वासनावस्थितो जीवो यात्युत्सृज्य शरीरकम् ।कपिर्वनतरुं त्यक्त्वा तर्वन्तरमिवास्थितः ॥६७॥पुनस्तदपि संत्यज्य गच्छत्यन्यदपि क्षणात् ।अन्यस्मिन्वितते देशे कालेऽन्यस्मिंश्च राघव ॥६८॥इतश्चेतश्च नीयन्ते जीवा वासनया स्वया ।चिरं तदपिजीविन्या धूर्त्या धात्र्यैव बालकाः ॥६९॥वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु ।जरयन्त्यतिदुःखेन जीवितं जीवजीविकाः ॥७०॥जरठजरदुपोढदुःखभाराःपरिणतिजर्जरजीविताश्च सत्यः ।हृदयजनितवासनानुवृत्त्यानरकभरे जनताश्चिरं पतन्ति ॥७१॥श्रीवाल्मीकिरुवाच ।इत्युक्तवत्यथ मुनौ दिवसो जगामसायंतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामाक्षये रविकरैश्च सहाजगाम ॥७२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे संसारोपदेशो नामैकसप्ततितमः सर्गः ॥७१॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP