संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ४६

उपशमप्रकरणम् - सर्गः ४६

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
विलासिनीभिर्वलितो मन्त्रिमण्डलपूजितः ।
वन्दितः सर्वसामन्तैश्छत्रचामरलालितः ॥१॥
सिद्धानुशासनः कान्तो ज्ञातराज्यगुणक्रमः ।
वीतशोकभयायासप्रज्ञः प्राप्तमहादशः ॥२॥
विस्मृतात्मस्वभावोऽभूदनिशं स्तवमङ्गलैः ।
आनन्दपूर्णया वृत्त्या भृशं क्षीव इवासवैः ॥३॥
कीरेषु श्वपचो राज्यं वर्षाण्यष्टौ चकार ह ।
आर्यवृत्तमशेषेण तावत्कालं बभार ह ॥४॥
यदृच्छयैकदाथासावतिष्ठत्त्यक्तभूषणः ।
अतमस्तारकेन्द्वर्कतेजोऽम्भोदमिवाम्बरम् ॥५॥
बह्वमन्यत नो हारकेयूरवलयान्यसौ ।
प्रभुताबृंहितं चेतो नाहार्यमभिनन्दति ॥६॥
एक एवाजिरं बाह्यं तादृग्वेषः स निर्ययौ ।
मुख्याङ्गं णान्नभोभागादस्तं गच्छन्निवांशुमान् ॥७॥
तत्रापश्यद्धनं श्यामं पीनं श्वपचपेटकम् ।
गायन्मृदु वसन्तोत्थं कोकिलानामिव व्रजम् ॥८॥
धुनानं वल्लकीतन्त्रीं करपल्लवलीलया ।
मृदुरेफं रणद्रेफामलिश्रेणिमिव द्रुमम् ॥९॥
एकस्तस्मात्समुत्तस्थौ जरावान्रक्तलोचनः ।
काचश्रृङ्गहिमापूर्णमिव श्वपचनायकः ॥१०॥
भो कटंजेति सहसा वदन्कीरमहीपतिम् ।
इह राजा भवन्तं वा कच्चिद्गेयक्रियाविदम् ॥११॥
रक्तकण्ठं मानयति रागवानिव कोकिलम् ।
आपूरयति वा कच्चिद्गृहवस्त्रासनार्पणैः ॥१२॥
मधू रसालविटपं फलपुष्पभरैरिव ।
दर्शनेन तवाद्याहं परां निर्वृतिमागतः ॥१३॥
पद्मं सूर्योदयेनेव चन्द्रोदय इवौषधी ।
आनन्दानामशेषाणां लाभानां महतामपि ॥१४॥
विश्रामाणामनन्तानां सीमान्तो बन्धुदर्शनम् ।
श्वपचे प्रवदत्येवं राजा यावत्तया तया ।
चकार तत्कालजया चेष्टयैवावधीरणम् ॥१५॥
तावद्वातायनगताः कान्ताः प्रकृतयस्तथा ।
श्वपचोऽयमिति ज्ञात्वा म्लानतामलमाययुः ॥१६॥
पद्मास्तुषारप्रावृष्ट्या ग्रामाः सावग्रहा इव ।
दाववन्त इवाद्रीन्द्रा नागरा न विरेजिरे ॥१७॥
नृपोऽवधीरयामास तां तां श्वपचसंकथाम् ।
वृक्षाग्रगतमार्जारफेत्कारं मृगराडिव ॥१८॥
सत्वरं प्रविवेशान्तःपुरमाम्लानमानवम् ।
राजहंस इवावर्षे सीदत्सरसिजं सरः ॥१९॥
सर्वावयवविश्रान्तां म्लाननामयमाययौ ।
जानुस्तम्भान्तरमहारन्ध्राग्निरिव दुर्द्रुमः ॥२०॥
तत्रापश्यदसौ सर्वं विषण्णवदनं जनम् ।
जालं कुङ्कुमपुष्पाणां भुक्तमूलमिवाखुना ॥२१॥
मन्त्रिणो नागरा नार्यस्ततस्ते तं महीपतिम् ।
नास्प्राक्षुरपि तिष्ठन्तं गृह एव शवं यथा ॥२२॥
भृत्याश्चाकृतसत्कारं दूर एनमथात्यजन् ।
दुःखयुक्ता घनस्नेहा अपि बालाः शवं यथा ॥२३॥
अनानन्दमुखं श्यामं शरीरं श्रीविवर्जितम् ।
दग्धं स्थलमिवैनं ते बह्वमन्यन्त नाकुलाः ॥२४॥
धूमायमानदेहस्य परितापदशावती ।
नाढौकतास्य जनता पार्श्वमग्निर्गिरेरिव ॥२५॥
मन्दोत्साहाः समुद्भूताः सभ्यसंघातवर्जिताः ।
न तदाज्ञाः पदं प्रापुर्भस्मनीवाम्बुविप्रुषः ॥२६॥
क्रूरकर्मकराकारात्संगताशुभदायिनः ।
तस्माद्विशेषेण जना राक्षसादिव दुद्रुवुः ॥२७॥
एक एव बभूवासौ जनमध्यगतोऽपि सन् ।
अर्थादिगुणनिर्मुक्तः परदेश इवाध्वगः ॥२८॥
भृशमालपतेऽप्यस्मे नालापं नागरा ददुः ।
मुक्ताजालयुतायापि कीचकायाध्वगा इव ॥२९॥
अथ सर्वे वयं दीर्घकालं श्वपचदूषिताः ।
प्रायश्चित्तैर्न शुद्ध्यामः प्रविशामो हुताशनम् ॥३०॥
इति निर्णीय नगरे नागरा मन्त्रिणस्तथा ।
अभितो ज्वालयामासुश्चिताः शुष्केन्धनैधिताः ॥३१॥
ज्वलितास्वभितस्तासु तारकास्विव खे तदा ।
बभूव नगरं सर्वमाक्रन्दपरमानवम् ॥३२॥
करुणारावमुखरैः कलत्रैर्बाष्पवर्षिभिः ।
अवष्टब्धं ज्वलत्कुण्डोपान्तमन्दरुदत्प्रजम् ॥३३॥
अग्निकुण्डप्रविष्टानां मन्त्रिणां भृत्यरोदनैः ।
रुदत्क्रन्ददृढतरमरण्यमिव मारुतैः ॥३४॥
चितादीपितविप्रेन्द्रमांसमांसलगन्धया ।
जातनीहारमुत्पातवात्ययावकरोद्धतैः ॥३५॥
वातदीर्घवसागन्धदूरानीतखगोर्जितैः ।
चक्रैर्व्योभाभवच्छन्नभास्करं जलदैरिव ॥३६॥
वातोद्धूतचितावह्निप्रज्वलद्व्योममण्डलम् ।
उड्डीनाग्निकणव्राततारासारदिगन्तरम् ॥३७॥
प्रमत्ततस्करक्रन्दद्वेल्लद्वालकुमारकम् ।
संत्रस्तनागरापास्तजीविताख्यमसंस्थिति ॥३८॥
अलक्षितगृहं चौरलुण्ठिताखिलसंचयम् ।
त्यक्तपुत्रकलत्रं तन्मरणव्यग्रनागरम् ॥३९॥
तस्मिंस्तथा वर्तमाने कष्टे विधिविपर्यये ।
अशेषजनताशेषकल्पान्तसदृशस्थितौ ॥४०॥
राज्यसज्जनसंपर्कपवित्रीकृतधीरधीः ।
गवलश्चिन्तयामास शोकेनाकुलचेतनः ॥४१॥
मदर्थे हि कदर्थोऽयं देशेऽस्मिन्स्थितिमागतः ।
अकालकल्पान्तमयः सर्वनायकनाशनः ॥४२॥
किं मे जीवितदुःखेन मरणं मे महोत्सवः ।
लोकनिन्द्यस्य दुर्जन्तोर्जीवितान्मरणं वरम् ॥४३॥
इति निश्चित्य गवलो ज्वलिते ज्वलने पुनः ।
पतङ्गवदनुद्वेगमकरोदाहुतिं वपुः ॥४४॥
तस्मिन्बलाद्गवलनाम्नि हुताशराशौ
देहे पतत्यवयवाकुलतां प्रयाते ।
स्वाङ्गावदाहदहनस्फुरणानुरोधा-
दन्तर्जले झटिति बोधमवाप गाधिः ॥४५॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥४६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० उपशमप्रकरणे गाधिवृत्तान्ते राज्यभ्रंशो नाम षट्चत्वारिंशः सर्गः ॥४६॥

N/A

References : N/A
Last Updated : September 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP