संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ८४ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ८४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति निर्णीय स मुनिर्वीतहव्यो विवासनः ।आसीत्समाधावचलो विन्ध्यकन्दरकोटरे ॥१॥अपरिस्पन्दिताशेषसंविदानन्दसुन्दरः ।बभावस्तंगतमनाः स्तिमिताम्भोधिशोभनः ॥२॥अन्तरेव शशामास्य क्रमेण प्राणसंततिः ।ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः ॥३॥अनन्तर्निष्ठतां याते बाह्यार्थे चाप्यसंस्थिते ।शेषेऽन्तर्लब्धसंस्थाने तस्यास्फुरितपक्ष्मणी ॥४॥घ्राणप्रान्तगताल्पाल्पसमालोके इवेक्षणे ।अर्धकुड्मलितैः पद्मैः श्रियमाययतुः समाम् ॥५॥समकायशिरोग्रीवस्थानकः स महामतिः ।आसीच्छैलादिवोत्कीर्णश्चित्रार्पित इवाथवा ॥६॥तथाभितिष्ठतस्तस्य संवत्सरशतत्रयम् ।कोटरे विन्ध्यकच्छस्य ययावर्धमुहूर्तवत् ॥७॥एतावन्तमसौ कालं नाबुद्ध्यत किलात्मवान् ।जीवन्मुक्ततया ध्यानी न च तत्याज तां तनुम् ॥८॥तावत्कालं स सुभगो न प्राबुध्यत योगवित् ।उदारैरम्बुदारावैरासारभरघर्घरैः ॥९॥पर्यन्तमण्डलाधीशमृगयानतबृंहितैः ।पक्षिवानरनिर्ह्रादैर्मातङ्गास्फोटनिःस्वनैः ॥१०॥सिंहसंरम्भरटितैर्निर्झरारावसीत्कृतैः ।विषमाशनिसंपातैर्जनकोलाहलैर्घनैः ॥११॥प्रमत्तशरभास्फोटैर्भूकम्पतटघट्टनैः ।वनदाहधमध्वानैर्जलौघाहतिवल्गनैः ॥१२॥महोपलतटाघातैर्धरणीतलमृज्जलैः ।जलौघान्दोलनायातैस्तापैरनलकर्कशैः ॥१३॥केवलं वहति स्वैरं काले गलितकारणम् ।परियान्तीषु वर्षासु लहरीष्विव वारिणि ॥१४॥स्वल्पेनैव हि कालेन तस्मिन्पर्वतकन्दरे ।प्रावृडोघविनुन्नेन पङ्केनोर्वीतले कृतः ॥१५॥तत्रासाववसद्भूमौकोटरे संकटोदरे ।पङ्कसंपीडितस्कन्धः पर्वतेषु शिला यथा ॥१६॥शतत्रये स वर्षाणामथ याते स्वयंप्रभुः ।व्यबुध्यतात्मरूपात्मा धराकोटरपीडितः ॥१७॥संविदेवास्य तं देहं जग्राहोर्वीनिपीडितम् ।तनुः प्राणमयस्पन्दः प्राणसंसरणं विना ॥१८॥उत्पत्तिप्रौढिमासाद्य कलना हृदयान्तरे ।स्वमनोरूपिणी तस्य हृद्येवानुबभूव सा ॥१९॥कैलासकानने कान्ते कदम्बस्य तरोस्तले ।मुनित्वं शतमब्दानां जीवन्मुक्तात्मनिर्मलम् ॥२०॥विद्याधरत्वं वर्षाणां शतमाधिविवर्जितम् ।युगपञ्चकमिन्द्रत्वं प्रणतं सुरचारणैः ॥२१॥श्रीराम उवाच ।शक्रत्वादिषु तेष्वस्य प्रतिभासेषु भो मुने ।नियमोऽनियमश्चैव दिक्कालनियतेः कथम् ॥२२॥श्रीवसिष्ठ उवाच ।सर्वात्मिकैषा चिच्छक्तिर्यत्रोदेति यथा यथा ।तथा तत्राशु भवति तथात्मैकस्वभावतः ॥२३॥यथा यत्र यदा बुद्धौ नियमः स तदा स्थितः ।देशकालादिनियमक्रमाणां तन्मयात्मता ॥२४॥तेन नानाविधान्येष जगन्ति परिदृष्टवान् ।हृदि संवेदनाकाशे वीतहव्यो विवासनः ॥२५॥सम्यग्बोधवतामेषा वासनैव न वासना ।ज्ञानाग्निदग्धाऽदग्धस्य कैव बीजस्य बीजता ॥२६॥कल्पमेकं गणत्वं स चन्द्रमौलेश्चकार ह ।समस्तविद्यानिपुणं त्रिकालामलदर्शनम् ॥२७॥यो यादृग्दृढसंस्कारः स तं पश्यति तादृशम् ।जीवन्मुक्ततयैवैतद्वीतहव्योऽनुभूतवान् ॥२८॥श्रीराम उवाच ।एवं स्थिते मुनिश्रेष्ठ जीवन्मुक्तमतेरपि ।बन्धमोक्षदृशः सन्ति वीतहव्यात्मनो यथा ॥२९॥श्रीवसिष्ठ उवाच ।यथास्थितमिदं विश्वं शान्तमाकाशनिर्मलम् ।ब्रह्मैव जीवन्मुक्तानां बन्धमोक्षदृशः कुतः ॥३०॥एतत्संविन्नभो भाति यत्र यत्र यथा यथा ।तत्र तत्र तथा तावत्तावत्तद्विन्दते ततम् ॥३१॥तेनानुभूतानि बहून्यनुभूयन्त एव च ।जगन्ति सर्वात्मतया ब्रह्मरूपेण राघव ॥३२॥धराकोटरनिर्मग्नवीतहव्यचिदात्मसु ।जगत्सु तेष्वसंख्येषु नीरूपेषु महात्मसु ॥३३॥यः शक्रोऽनवबुद्धात्मा सोऽद्य दीनेषु पार्थिवः ।कर्तुं प्रवृत्तो मृगयां क्षणेऽस्मिन्नपि कानने ॥३४॥यो हंसोऽनवबुद्धात्मा पाद्मे पैतामहेऽभवत् ।स्थितः स एव दाशेन्द्रः कैलासवनकुञ्जके ॥३५॥यो राजानवबुद्धात्मा भूमेः सौराष्ट्रमण्डले ।स एषोऽद्य स्थितोऽन्ध्राणां ग्रामे बहुलपादपे ॥३६॥श्रीराम उवाच ।मानसः किल सर्गोऽसौ वीतहव्यस्य तत्र ये ।देहिनो भ्रान्तिपात्रं चेत्तद्देहाकारिणः कथम् ॥३७॥श्रीवसिष्ठ उवाच ।यदि भ्रान्त्येकमात्रात्म वीतहव्यस्य तज्जगत् ।तदिदं नाम ते राम किं भूयः परिभासते ॥३८॥इदमप्यङ्ग चिन्मात्रं मनोमात्रभ्रमोपमम् ।तदपि व्योम चिन्मात्रं मनोमात्रं भ्रमोपमम् ॥३९॥वस्तुतस्तु न तद्राम जगन्नैवं न चेतरत् ।तवापि न जगत्सत्ता ब्रह्मेदं भाति केवलम् ॥४०॥भावि भूतं भविष्यच्च यथेदं च तथेतरत् ।जगत्सर्वमिदं दृश्यं संविन्मात्रमनोमयम् ॥४१॥एवंरूपमिदं यावन्न परिज्ञातमीदृशम् ।वज्रसारदृढं तावज्ज्ञातं सत्परमाम्बरम् ॥४२॥अज्ञानान्मन एवेदमित्थं संप्रविजृम्भते ।प्रत्युल्लासविलासाभ्यां जलमम्बुनिधाविव ॥४३॥यथास्थितेनैव चिदम्बरेणस्वचित्तमेवैति मनोभिधानम् ।स्फारं कृतं तेन जगच्च दृश्य-मेवं ततं नैव ततं च किंचित् ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वीतहव्यमनोजगद्वर्णनं नाम चतुरशीतितमः सर्गः ॥८४॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP