संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः २९ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः २९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ वर्षसहस्रेण दिव्येनासुरपुङ्गवः ।देवदुन्दुभिनिर्घोषैर्बुबुधे भगवान्बलिः ॥१॥बलौ प्रबुद्धे तद्बालं विरेजे नगरं तदा ।वैरिञ्च इव सूर्यौघ उदिते कमलाकरः ॥२॥बलिः प्रबुद्ध एवासौ यावन्नायान्ति दानवाः ।तावत्संचिन्तयामास समाधिसदने क्षणम् ॥३॥अहो नु रम्या पदवी शीतला पारमार्थिकी ।अहमस्यां क्षणं स्थित्वा परां विश्रान्तिमागतः ॥४॥तदेतामेव पदवीमवलम्ब्य करोम्यहम् ।भवतीहोपभुक्ताभिः किं मे बाह्यविभूतिभिः ॥५॥ऐन्दवेष्वपि विश्वेषु न तथानन्दवीचयः ।तोषयन्ति यथान्तर्मे संसिद्धिभवभूतयः ॥६॥इति भूयोऽपि विश्रान्त्यै कुर्वाणं गलितं मनः ।बलिमावारयामासुर्दैत्याश्चन्द्रमिवाम्बुदाः ॥७॥तानालोक्य पुनर्दध्यौ तत्प्रणामाकुलेक्षणः ।तैः कुलाचलसंकाशैः परिवीतवपुस्त्विदम् ॥८॥चितः क्षीणविकल्पस्य किमुपादेयमस्ति मे ।मनस्तदभिपातित्वाद्याति तद्रसतामलम् ॥९॥मोक्षमिच्छाम्यहं कस्माद्बद्धः केनास्मि वै पुरा ।अबद्धो मोक्षमिच्छामि केयं बालविडम्बना ॥१०न बन्धोस्ति न मोक्षोस्ति मौर्ख्यं मे क्षयमागतम् ।किं मे ध्यानविलासेन किं वा ध्यानेन मे भवेत् ॥११॥ध्यानाध्यानभ्रमौ त्यक्त्वा पुंस्त्वं स्वमवलोकयत् ।यदायाति तदायातु न मे वृद्धिर्न वा क्षयः ॥१२॥न ध्यानं नापि वाऽध्यानं न भोगान्नाप्यभोगिताम् ।अभिवाञ्छामि तिष्ठामि सममेव गतज्वरः ॥१३॥न मे वाञ्छा परे तत्त्वे न मे वाञ्छा जगत्स्थितौ ।न मे ध्यानदशाकार्यं न कार्यं विभवेन मे ॥१४॥नाहं मृतो न जीवामि न सन्नासन्न सन्मयः ।नेदं मे नैव चान्यन्मे नमो मह्यमहं बृहत् ॥१५॥इदमस्तु जगद्राज्यं तिष्ठाम्यत्र तु संस्थितः ।नेह वास्तु जगद्राज्यं तिष्ठाम्यात्मनि शीतलः ॥१६॥किं मे ध्यानदृशा कार्यं किं राज्यविभवश्रिया ।यदायाति तदायातु नाहं किंचन मे क्वचित् ॥१७॥न किंचिदपि कर्तव्यं यदि नाम मयाधुना ।तत्कस्मान्न करोमीदं किंचित्प्रकृतकर्म वै ॥१८॥इति निर्णीय पूर्णात्मा बलिर्ज्ञानवतां वरः ।दैत्यानालोकयामास पद्मानीव दिवाकरः ॥१९॥दृष्टिपातविभागेन सर्वेषां दनुजन्मनाम् ।शिरःप्रणामाञ्जग्राह पुष्पामोदानिवानिलः ॥२०॥अथ वैरोचनिस्तत्र ध्येयत्यागमयात्मना ।मनसा सकलान्येव राजकार्याणि संव्यधात् ॥२१॥द्विजान्देवान्गुरूंश्चैव पूजयामास पूजया ।संमानयामास सुहृद्बन्धुसामन्तसज्जनान् ॥२२॥अर्थेनापूरयामास भृत्यानर्थिगणांस्तथा ।ललना लालयामास विचित्रविभवार्पणैः ॥२३॥इत्यसौ ववृधे तस्मिन्राज्ये सकलशासने ।यज्ञं प्रति बभूवाथ मतिरस्य कदाचन ॥२४॥तर्पिताशेषभुवनं देवर्षिगणपूजितम् ।सह शुक्रादिभिर्मुख्यैः स चकार महामखम् ॥२५॥बलिर्भोगभरस्यार्थी नेति निर्णीय माधवः ।बलेरीहितसिद्ध्यर्थं सिद्धिदस्तन्मखं ययौ ॥२६॥भोगैककृपणायेदं जगज्जङ्गलखण्डकम् ।दातुं शोच्याय शक्राय वयोज्येष्ठाय कार्यवित् ॥२७॥क्रममाणो बलेनात्र वञ्चयित्वा बलिं हरिः ।बबन्ध पातालतले भूगेह इह वानरम् ॥२८॥अद्यासौ संस्थितो राम पुनरिन्द्रत्वहेतुना ।जीवन्मुक्तवपुः स्वस्थो नित्य ध्यानविषण्णधीः ॥२९॥पातालकुहरे तिष्ठञ्जीवन्मुक्तमतिर्बलिः ।आपदं संपदं दृष्ट्या समयैव स पश्यति ॥३०॥नास्तमेति न चोदेति तत्प्रज्ञा सुखदुःखयोः ।समा स्थिरकरा चित्रलेख्या सूर्यावलिर्यथा ॥३१॥आविर्भावतिरोभावसहस्त्राणीह जीवताम् ।तन्मनश्चिरमालोक्य भीमेषु विरतिं गतम् ॥३२॥दशकोटीश्च वर्षाणामनुशास्य जगत्त्रयम् ।अन्ते विरक्ततां प्राप्तमुपशान्तं बलेर्मनः ॥३३॥ऊहापोहसहस्राणि भावाभावशतानि च ।बलिना परिदृष्टानि क्व समाश्वासमेत्यसौ ॥३४॥भोगाभिलाषं संत्यज्य बलिः संपूर्णमानसः ।आत्मारामस्थितो नित्यं मध्ये पातालकोटरे ॥३५॥पुनरेतेन बलिना जगदिन्द्रतयाखिलम् ।अनुशास्यमिदं राम बहून्वर्षगणानिह ॥३६॥न तस्येन्द्रपदप्राप्त्या तुष्टिः समुपजायते ।न तस्य स्वपदभ्रंशादुद्वेग उपजायते ॥३७॥समः सर्वेषु भावेषु सर्वदैवोदिताशयः ।संप्राप्तमाहरन्स्वस्थ आकाश इव तिष्ठति ॥३८॥बलेर्विज्ञानसंप्राप्तिरेषा ते कथिता मया ।एतां दृष्टिमवष्टभ्य त्वमप्यभ्युदितो भव ॥३९॥बलिवत्प्रविवेकेन नित्योऽहमिति निश्चयात् ।पदमासादयाद्वैतं पौरुषेणैव राघव ॥४०॥द्वे चाष्टौ चैव वर्षाणां कोटीर्भुक्त्वा जगत्त्रयम् ।अन्ते वैरस्यमापन्नो बलिरप्यसरोत्तमः ॥४१॥तस्मादवश्यवैरस्यं भोगभारमरिंदम ।संत्यज्य सत्यमानन्दमवैरस्यं पदं व्रज ॥४२॥इमा दृश्यदृशो राम नानाकारविकारदाः ।नेह कान्ततया ज्ञेया दूराच्छैलशिला इव ॥४३॥धावमानमिहामुत्र लुठितं लोकवृत्तिषु ।संस्थापय निबद्ध्यैतच्चेतो हृदयकोटरे ॥४४॥चिदादित्यो भवानेव सर्वत्र जगति स्थितः ।कः परस्ते क आत्मीयः परिस्खलसि किं मुधा ॥४५॥त्वमनन्तो महाबाहो त्वमाद्यः पुरुषोत्तमः ।त्वं पदार्थशताकारैः परिस्फूर्जसि चिद्वपुः ॥४६॥त्वयि सर्वमिदं प्रोतं जगत्स्थावरजंगमम् ।बोधे नित्योदिते शुद्धे सूत्रे मणिगणा यथा ॥४७॥न जायसे न म्रियसे त्वमजः पुरुषो विराट् ।चिच्छुद्धा जन्ममरणभ्रान्तयो मा भवन्तु ते ॥४८॥समस्तजन्मरोगाणां प्रविचार्य बलाबलम् ।तृष्णामुत्सृज्य भोगानां भोक्तैव भव केवलम् ॥४९॥त्वयि स्थिते जगन्नाथे चिदादित्ये सदोदिते ।इदमाभासते सर्वं संसारस्वप्नमण्डनम् ॥५०॥मा विषादं कृथा व्यर्थं सुखदुःखैषणा न ते ।शुद्धचित्तोऽसि सर्वात्मा सर्ववस्त्ववभासकः ॥५१॥पूर्वमिष्टमनिष्टं त्वमनिष्टं चेष्टमित्यपि ।परिकल्प्य तदभ्यासात्तत्ततोऽपि परित्यज ॥५२॥इष्टानिष्टदृशोस्त्यागे समतोदेति शाश्वती ।तया हृदयवर्तिन्या पुनर्जन्तुर्न जायते ॥५३॥येषु येषु प्रदेशेषु मनो मज्जति बालवत् ।तेभ्यस्तेभ्यः समाहृत्य तद्धि तत्त्वे नियोजयेत् ॥५४॥एवमभ्यागताभ्यासं मनोमत्तमतंगजम् ।निबध्य सर्वभावेन परं श्रेयोऽधिगम्यते ॥५५॥मा शरीरयथार्थज्ञैर्मिथ्यादृष्टिहताशयैः ।धूर्तैः संकल्पविक्रीतैर्विमूढैः समतां व्रज ॥५६॥अकिंचनात्स्वनिर्णीतौ लम्बमानात्परोक्तिषु ।न मौर्ख्यादधिको लोके कश्चिदस्तीह दुःखदः ॥५७॥त्वमेतदविवेकाब्भ्रमुदितं हृदयाम्बरे ।विवेकपवनेनाशु दूरं नय महामते ॥५८॥आत्मनैव प्रयत्नेन यावदात्मावलोकने ।न कृतोऽनुग्रहस्तावन्न विचारोदयो भवेत् ॥५९॥वेदवेदान्तशास्त्रार्थतर्कदृष्टिभिरप्ययम् ।नात्मा प्रकटतामेति यावन्न स्वमवेक्षितम् ॥६०॥त्वमात्मन्यात्मना राम प्रसादे समवस्थितः ।प्राप्तोऽसि विततं बोधं मद्वचस्येव बुध्यसे ॥६१॥विकल्पांशविहीनस्य त्वयैषा चिद्विवस्वतः ।गृहीता वितता व्याप्तिर्मदुक्त्या परमात्मनः ॥६२॥विलीनसर्वसंकल्पः शान्तसंदेहविभ्रमः ।क्षीणकौतुकनीहारो जातोऽसि विगतज्वरः ॥६३॥यदुपगच्छसि पासि निहंसि वापिबसि विस्मयसे च विवर्धसे ।तदपि तेन तदास्तु यदा मुनेविगतबोधकलङ्कविशङ्कितः ॥६४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे बलेर्विज्ञानप्राप्तिर्नामैकोनत्रिंशः सर्गः ॥२९॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP