संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः १९

उपशमप्रकरणम् - सर्गः १९

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
भ्रात्रोस्त्रिपथगातीरे संवादं मुनिपुत्रयोः ॥१॥
अयं बन्धुरयं नेति कथाप्रस्तावतः स्मृतम् ।
इतिहासमिमं पुण्यमाश्चर्यं श्रृणु राघव ॥२॥
अस्त्यस्य जम्बूद्वीपस्य कस्मिंश्चिद्गिरिकुञ्जके ।
वनव्यूहमहोत्तंसो महेन्द्रो नाम पर्वतः ॥३॥
कल्पद्रुमवनच्छायाविश्रान्तमुनिकिन्नरः ।
श्रृङ्गैराततमाकाशं जितवान्यः समुन्नतैः ॥४॥
ब्रह्मलोकान्तरप्राप्तश्रृङ्गकन्दरचारिभिः ।
सामवेदप्रतिध्वानघुंघुमैर्गायतीव यः ॥५॥
यः पयोमेदुरैर्मेघैर्लसितैः श्रृङ्गकोटिषु ।
लताकुसुमसंप्रोतैः कुन्तलैरिव राजते ॥६॥
यस्तदोड्डयनोत्कानां शरभाणां विजृम्भितैः ।
विस्फूर्जति गुहावक्रैः कल्पाभ्राणि हसन्निव ॥७॥
येन निर्झरनिर्ह्रादैः कन्दरान्तरचारिभिः ।
समुद्रजलकल्लोलविलासो विजितोऽभितः ॥८॥
तस्यैकदेशे वितते रत्नसानौ मनोरमे ।
मुनिभिः स्नानपानार्थं व्योमगङ्गावतारिता ॥९॥
तस्यास्त्रिपथगायास्तु तीरे विकसितद्रुमे ।
रत्नाद्रितटविद्योते कचत्कनकपिञ्जरे ॥१०॥
आसीदभ्युदितज्ञानस्तपोराशिरुदारधीः ।
मुनिर्दीर्घतपा नाम तपो मूर्तमिवापरम् ॥११॥
मुनेर्बभूवतुस्तस्य पुत्रौ द्वाविन्दुसुन्दरौ ।
पुण्यपावननामानौ द्वौ कचाविव वाक्पतेः ॥१२॥
स ताभ्यां सह पुत्राभ्यां भार्यया च सहैकया ।
उवास सरितस्तीरे तस्मिन्सफलपादपे ॥१३॥
अथ काले तयोस्तस्य पुत्रयोर्ज्ञानवानभूत् ।
पुण्यो नाम च यो ज्येष्ठो गुणज्येष्ठश्च राघव ॥१४॥
पावनोर्धप्रबुद्धोऽभूत्पूर्वसंध्याम्बुजं यथा ।
मौर्ख्यादधिगतो नाप्तः पदे दोलायितः स्थितः ॥१५॥
ततो वहत्यकलिते काले कलितकारणे ।
संवत्सरशते जीर्णदीर्घदेहलतायुषि ॥१६॥
अस्माद्भङ्गुरभूताढ्याद्वृत्तान्तशतभीषणात् ।
रतिमुत्सृज्य संसाराज्जराजर्जरजीवितः ॥१७॥
कलनापक्षिणी नीडं देहं दीर्घतपा मुनिः ।
जहौ गिरिगुहागेहे भारं वैवधिको यथा ॥१८॥
प्रशान्तकलनारम्भं चेत्यरिक्तचिदास्पदम् ।
पदं जगाम नीरागं पुष्पगन्ध इवाम्बरम् ॥१९॥
अथ भार्या मुनेर्देहं प्राणापानविवर्जितम् ।
दृष्ट्वा विलुलितं भूमौ विनालमिव पङ्कजम् ॥२०॥
चिरमभ्यस्तया योगयुक्त्या पतिवितीर्णया ।
तत्याज तनुमम्लानां षट्पदी पद्मिनीमिव ॥२१॥
भर्तारमेवानुययौ जनस्यादृष्टतां गता ।
प्रभागगनकोशस्थमस्तं यातमिवोडुपम् ॥२२॥
मातापित्रोस्तु गतयोरौर्ध्वदेहिककर्मणि ।
पुण्य एव स्थितोऽव्यग्रः पावनो दुःखमाययौ ॥२३॥
शोकोपहतचित्तोऽसो भ्रमन्काननवीथिषु ।
ज्यायांसमनवेक्ष्यैव पावनो विललाप ह ॥२४॥
अथौर्ध्वदेहिकं कृत्वा मातापित्रोरुदारधीः ।
आययौ विपिने पुण्यः पावनं शोकलालसम् ॥२५॥
पुण्य उवाच ।
किं पुत्र घनतां शोकं नयस्यान्ध्यैककारणम् ।
वाष्पधाराधरं घोरं प्रावट्काल इवाम्बुजम् ॥२६॥
पिता तव महाप्राज्ञ गतः सार्धं त्वदम्बया ।
स्वामेव परमात्मात्मपदवीं मोक्षनामिकाम् ॥२७॥
तत्स्थानं सर्वजन्तूनां तद्रूपं विजितात्मनाम् ।
स्वभावमभिसंपन्ने किं पितर्यनुशोचसि ॥२८॥
ईदृशी तु त्वया बद्धा भावनेह विमोहजा ।
संसारे यदशोच्योऽपि त्वया तातोनुशोच्यते ॥२९॥
न सैव भवतो माता नासावेव पिता तव ।
न भवानेष तनयस्तयोर्निःसंख्यपुत्रयोः ॥३०॥
मातापितृसहस्राणि समतीतानि ते सुत ।
बहून्यम्बुप्रवाहस्य निम्नानीव वने वने ॥३१॥
असंख्यपुत्रयोर्नैव भवानेव सुतस्तयोः ।
सरित्तरङ्गवत्पुत्र गताः पुत्रगणा नृणाम् ॥३२॥
अस्मत्पित्रोरतीतानि पुत्रलक्षाण्यनेकशः ।
पत्रकोरकवृन्तानि लताविटपयोरिव ॥३३॥
मित्रबान्धववृन्दानि जन्तोर्जन्मनि जन्मनि ।
ऋतावृतावतीतानि फलानीव महातरोः ॥३४॥
शोचनीया यदि स्नेहान्मातापितृसुताः सुत ।
तदतीता न शोच्यन्ते किमजस्रं सहस्रशः ॥३५॥
प्रपञ्चोऽयं महाभाग दृश्यते जागते भ्रमे ।
परमार्थेन ते प्राज्ञ नास्ति मित्रं न बान्धवाः ॥३६॥
न नाश इव हि भ्रातः परमार्थेन विद्यते ।
महत्यपि चिरातप्ते मराविव पयोलवाः ॥३७॥
एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः ।
स्वप्न एव महाबुद्धे दिनानि त्रीणि पञ्च वा ॥३८॥
दृष्ट्या तु पारमार्थिक्या पुत्र सत्यं विचारय ।
नैव त्वं न वयं चैव भ्रान्तिमन्तः परित्यज ॥३९॥
अयं गतो मृतश्चायमिति दुर्दृष्टयः पुरः ।
स्वसंकल्पोपतापोत्था दृश्यन्ते नतु सत्यतः ॥४०॥
अज्ञानविस्तीर्णमरौ विलोलं
शुभाशुभस्यन्दमयैस्तरङ्गैः ।
सवासनानाममरीचिवारि
परिस्फुरत्येतदनन्तरूपम् ॥४१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे पावनबोधनं नामैकोनविशः सर्गः ॥१९॥

N/A

References : N/A
Last Updated : September 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP