संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ३७

उपशमप्रकरणम् - सर्गः ३७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
इति संचिन्तयन्नेव प्रह्लादः परवीरहा ।
निर्विकल्पपरानन्दसमाधिं समुपाययौ ॥१॥
निर्विकल्पसमाधिस्थश्चित्रार्पित इवाचलः ।
शैलादिव समुत्कीर्णो बभौ स्वपदमास्थितः ॥२॥
तथानुतिष्ठतस्तस्य कालो बहुतरो ययौ ।
स्वगृहे भुवनस्थस्य मेरोरिव सुरद्विषः ॥३॥
बोधितोऽप्यसुराधीशैर्नाबुध्यत महामतिः ।
अकाले बहुसेकोऽपि बीजकोशादिवाङ्कुरः ॥४॥
एवं वर्षसहस्राणि पीनात्माऽतिष्ठदेकदृक् ।
शान्त एवासुरपुरे मार्तण्ड इव चोपले ॥५॥
परानन्ददशैकान्तपरिणामितया तया ।
निरानन्दं पराभासमिवाभासपदं गतः ॥६॥
एतावताथ कालेन तद्रसातलमण्डलम् ।
बभूवाराजकं तीक्ष्णं मात्स्यन्यायकदर्थितम् ॥७॥
हिरण्यकशिपौ क्षीणे समाधौ तत्सुते स्थिते ।
न बभूवापरः कश्चिद्राजा दनुसुतालये ॥८॥
असुरेशार्थिनां तेषां दानवानां समाधितः ।
परेणापि प्रयत्नेन प्रह्लादो न व्यबुध्यत ॥९॥
न प्रापुर्विकसद्रूपं पतिं तममरारयः ।
लसत्पत्रलताजालं निशि पद्ममिवालयः ॥१०॥
संविद्वादो न तस्यान्तरबोध्यत विचेतसः ।
भुवश्चेष्टाक्रम इव पौरुषो गतभास्वतः ॥११॥
अथोद्विग्नेषु दैत्येषु गतेष्वभिमतां दिशम् ।
विचरत्सु यथाकाममराजनि पुरे पुरा ॥१२॥
चिराय पातालमभूदभूपालतया तया ।
मात्स्यन्यायविपर्यस्तमस्तंगतगुणक्रमम् ॥१३॥
बलिमुक्ताबलपुरं मर्यादाक्रमवर्जितम् ।
सर्वार्ताशेषवनितं परस्परहृताम्बरम् ॥१४॥
प्रलापाक्रन्दपुरुषं विसंस्थानपुरान्तरम् ।
लुठदुद्याननगरं व्यर्थानर्थकदर्थितम् ॥१५॥
चिन्तापरासुरगणं निरन्नफलबान्धवम् ।
अकाण्डोत्पातविवशं ध्वस्ताशामुखमण्डलम् ॥१६॥
सुरार्भकपराभूतं भूतैराक्रान्तमन्त्यजैः ।
भूतरिक्तमलक्ष्मीकमुच्छिन्नप्रायकोटरम् ॥१७॥
अनियतवनितार्थमन्त्रयुद्धं
हृतधनदारविरावितं समन्तात् ।
कलियुगसमयोद्भटोत्कटाभं
तदसुरमण्डलमाकुलं बभूव ॥१८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे असुरमण्डलव्याकुलीभवनं नाम सप्तत्रिंशः सर्गः ॥३७॥

N/A

References : N/A
Last Updated : September 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP