संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ७५ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ७५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।जनकः संस्थितो राज्ये व्यवहारपरोऽपि सन् ।विगतज्वर एवान्तरनाकुलमतिः सदा ॥१॥पितामहो दिलीपस्ते सर्वारम्भपरोऽप्यलम् ।वीतरागतयैवान्तर्बुभुजे मेदिनीं चिरम् ॥२॥निरञ्जनतया बुद्धो जनतां पालयंश्चिरम् ।जीवन्मुक्ताकृतिर्नित्यं मनू राज्यमपालयत् ॥३॥विचित्रबलयुद्धेषु व्यवहारेषु भूरिषु ।मान्धाता सुचिरं तिष्ठन्प्राप्तवान्वै परं पदम् ॥४॥बलिः पातालपीठस्थः कुर्वन्सदिव संस्थितिम् ।सदा त्यागी सदाऽसक्तो जीवन्मुक्त इति स्थितः ॥५॥नमुचिर्दानवाधीशो देवद्वन्द्वपरः सदा ।नानाचारविचारेषु क्वचिन्नान्तरतप्यत ॥६॥वासवाजौ तनुत्यागी वृत्रो विततमानसः ।अन्तःशान्तमना मानी चकार सुरसंगरम् ॥७॥कुर्वन्दानवकार्याणि पातालतलपालकः ।अनपायं निराक्रोशं प्रह्लादो ह्लादमागतः ॥८॥शम्बरैकपरोऽप्यन्तःशम्बरैकतयोदितः ।संसारशम्बरं राम शम्बरस्त्यक्तवानिदम् ॥९॥असक्तबुद्धिर्हरिणा कुर्वन्दानवसंगरम् ।परां संविदमासाद्य कुशलस्त्यक्तवानिदम् ॥१०॥सर्वामरमुखो वह्नि क्रियाजालपरो ह्यपि ।यज्ञलक्ष्मीश्चिरं भुंक्ते मुक्त एवेह तिष्ठति ॥११॥पीयमानः सुरैः सर्वैः सोमः समरसाशयः ।क्वचिदेति न संसङ्गमाक्रान्तावम्बरं यथा ॥१२॥बृहस्पतिर्देवगुरुर्दारार्थं चन्द्रयोध्यपि ।.आचरन्दिवि चित्रेहां मुक्त एव ह्यवस्थितः ॥१३॥शुक्रोऽम्बरतलद्योती बुधः सर्वार्थपालकः ।निर्विकारमतिः कालं नयत्यसुरदेशिकः ॥१४॥जगद्भूतगणाङ्गानि चिरं संचारयन्नपि ।सर्वदा सर्वसंचारी मुक्त एव समीरणः ॥१५॥लोकाजवं जवीभावप्रोद्वेगज्ञोऽप्यखिन्नधीः ।ब्रह्मा सममना राम क्षिपयत्यायुराततम् ॥१६॥जरामरणयुद्धादिद्वत्द्वसंगरलीलया ।चरती ह चिरं कालं मुक्तोऽपि भगवान्हरिः ॥१७॥मुक्तेनापि त्रिनेत्रेण सौन्दर्यतरुमञ्जरी ।देहार्धे धार्यते गौरी कामुकेनेव कामिनी ॥१८॥मुक्तयापि गले बद्धो गौर्या गौरस्त्रिलोचनः ।संशुद्ध इव मुक्तानां हारः शशिकलामलः ॥१९॥गुहो गहनधीर्वीरस्तारकादिरणक्रियाम् ।मुक्तोऽपि कृतवान्सर्वं ज्ञानरत्नैकसागरः ॥२०॥भृङ्गीशो रक्तमांसं स्वं स्वमात्रे प्रवितीर्णवान् ।मुक्तयैव धिया राम धीरया ध्यानधौतया ॥२१॥मुनिर्मुक्तस्वभावोऽपि जगज्जङ्गलखण्डकम् ।नारदो विजहारेमं शीतया कार्यशीलया ॥२२॥जीवन्मुक्तमना मान्यो विश्वामित्रोऽप्ययं प्रभुः ।वेदोक्तां मखनिर्माणक्रियां समधितिष्ठति ॥२३॥धारयत्यवनीं शेषः करोत्यर्को दिनावलीम् ।यमो यमत्वं कुरुते जीवन्मुक्ततयैव हि ॥२४॥अन्येऽप्यस्मिंस्त्रिभुवने यक्षासुरनराः सुराः ।शतशो मुक्ततां याताः सन्तस्तिष्ठन्तिसंसृतौ ॥२५॥संस्थिता व्यवहारेषु विचित्राचारधारिषु ।अन्तराशीतलाः केचित्केचिन्मूढाः शिलासमाः ॥२६॥परमं बोधमासाद्य केचित्काननमागताः ।यथा भृगुभरद्वाजविश्वामित्रशुकादयः ॥२७॥केचिद्राज्येषु तिष्ठन्ति च्छत्रचामरपालिताः ।यथा जनकशर्यातिमान्धातृसगरादयः ॥२८॥केचिद्व्योमनि तिष्ठन्ति धिष्ण्यचक्रान्तरस्थिताः ।यथा बृहस्पत्युशनश्चन्द्रसूर्यमुनीश्वराः ॥२९॥केचित्सुरपदे याता विमानावलिमास्थिताः ।यथाग्निवायुवरुणयमतुम्बुरुनारदाः ॥३०॥केचितपातालकुहरे जीवन्मुक्ता व्यवस्थिताः।यथा बलिसुहोत्रान्धप्रह्लादाह्लादपूर्वकाः ॥३१॥तिर्यग्योनिष्वपि सदा विद्यन्ते कृतबुद्धयः ।देवयोनिष्वपि प्राज्ञा विद्यन्ते मूर्खबुद्धयः ॥३२॥सर्वं सर्वेण सर्वत्र सर्वथा सर्वदैव हि ।संभवत्येव सर्वात्मन्यात्मन्याततरूपिणि ॥३३॥विधेर्विचित्रा नियतिरनन्तारम्भमन्थरा ।संनिवेशांशवैचित्र्यात्सर्वं सर्वत्र दृश्यते ॥३४॥विधिर्दैवं विधिर्धाता सर्वेशः शिव ईश्वरः ।इति नामभिरात्मा नः प्रत्यक्चेतन उच्यते ॥३५॥अस्त्यवस्तुनि वस्त्वन्तः काञ्चनं सिकतास्विव ।अस्ति वस्तुन्यवस्त्वन्तर्मलं हेमकणेष्विव ॥३६॥अयुक्ते युक्तता युक्त्या प्रेक्ष्यमाणा प्रदृश्यते ।पापस्य हि भयाल्लोको राम धर्मे प्रवर्तते ॥३७॥असत्ये सत्यता साधो शाश्वती परिलक्ष्यते ।शून्येन ध्यानयोगेन शाश्वतं पदमाप्यते ॥३८॥यन्नास्ति तदुदेत्याशु देशकालविलासतः ।शशकाः श्रृङ्गवन्तो हि दृश्यन्ते शम्बरस्थितौ ॥३९॥ये वज्रसाराः सुदृढा दृश्यन्ते ते क्षयं गताः ।कल्पस्यान्ते यथेन्द्वर्कधराब्धिविबुधादयः ॥४०॥इति पश्यन्महाबाहो भावाभावभवक्रमम् ।हर्षामर्षविषादेहाः संत्यज्य समतां व्रज ॥४१॥असत्सदेव भातीह सदसच्चापि दृश्यते ।आस्थानास्थे परित्यज्य तेनाशु समतां व्रज ॥४२॥मुक्तौ राघव लोकेऽस्मिन्न प्राप्तिः संभवत्यलम् ।अप्रवृत्तौ विवेकस्य मग्ना हि जनकोटयः ॥४३॥मुक्तौ राघव लोकेऽस्मिन्प्राप्तिरस्ति सदैव हि ।प्रवृत्त्या हि विवेकस्य विमुक्ता भूतकोटयः ॥४४॥प्रविवेकाविवेकाभ्यां सुलभालभ्यतां गता ।मुक्तिर्मनःक्षयप्राप्त्या विवेकं तेन दीपय ॥४५॥आत्मावलोकने यत्नः कर्तव्यो भूतिमिच्छता ।सर्वदुःखशिरश्छेद आत्मालोकेन जायते ॥४६॥नीरागा निरुपासङ्गा जीवन्मुक्ता महाधियः ।संभवन्तीह बहुशः सुहोत्रजनका इव ॥४७॥तस्मात्त्वमपि वैराग्यविवेकोदितधीरधीः ।जीवन्मुक्तो विहर भो समलोष्टाश्मकाञ्चनः ॥४८॥द्विविधा मुक्तता लोके विद्यते देहधारिणाम् ।सदेहैका विदेहान्या विभागोऽयं तयोः श्रृणु ॥४९॥असंसङ्गात्पदार्थानां मनःशान्तिर्विमुक्तता ।सत्यसत्यपि देहे सा संभवत्यनघाकृते ॥५०॥स्नेहसंक्षयमेवाङ्ग विदुः कैवल्यमुत्तमम् ।तत्संभवति देहस्य भावे चाभाव एव च ॥५१॥यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ।सस्नेहजीवितो बद्धो मुक्त एव तृतीयकः ॥५२॥यत्नो यत्नेन कर्तव्यो मोक्षार्थं युक्तिपूर्वकम् ।यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत् ॥५३॥न त्वनध्यवसायस्य दुःखाय विपुलात्मने ।आत्मा परवशः कार्यो मोहमाश्रित्य केवलम् ॥५४॥सुमहद्धैर्यमालम्ब्य मनसा व्यवसायिना ।विचारयात्मनात्मानमात्मनश्चिरसिद्धये ।वितताध्यवसायस्य जगद्भवतिगोष्पदम् ॥५५॥यदुपगतः सुगतः पदं प्रधानंयदपगतोऽध्रुवतां नृपश्च कश्चित् ।यदुपगताः पदमुत्तमं महान्तःप्रयतनकल्पतरोर्महाफलं तत् ॥५६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे मुक्तामुक्तविचारो नाम पञ्चसप्ततितमः सर्गः ॥७५॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP