संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ६७

उपशमप्रकरणम् - सर्गः ६७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् ।
कालेनासाद्य विमलं ज्ञानं मोक्षं ततो गतौ ॥१॥
ततो वच्मि महाबाहो यथा ज्ञानेतरा गतिः ।
नास्ति संसारतरणे पाशबन्धस्य चेतसः ॥२॥
इदं भव्यमतेर्दुःखमनन्तमपि पेलवम् ।
कुखगस्याऽतरोऽम्भोधिः सर्पारेर्गोष्पदायते ॥३॥
देहातीता महात्मानश्चिन्मात्रस्वात्मनि स्थिताः ।
दूराद्देहं समीक्षन्ते प्रेक्षको जनतामिव ॥४॥
देहे दुःखातिसंक्षुब्धे का नः क्षतिरुपस्थिता ।
रथे विधुरिते भग्ने सारथेः केव खण्डना ॥५॥
मनसि क्षुब्धतां याते चित्त्वस्याङ्ग किमागतम् ।
तरङ्गजलसंताने वैपरीत्यं किमम्बुधेः ॥६॥
केऽभवन्पयसां हंसाः पयसामुपलाश्च के ।
काः शिलाः किल दारूणां के भोगाः परमात्मनः ॥७॥
संबन्धः क इव श्रीमन् शैलापरसमुद्रयोः ।
अन्तरे गिरिसंबाधे कश्च चित्तत्त्वबन्धयोः ॥८॥
अप्युत्सङ्गोह्यमानानि पद्मानि सरिदम्भसाम् ।
कानि नाम भवन्तीह शरीराणि तथात्मनः ॥९॥
संघट्टात्काष्ठपयसोर्यथोत्तुङ्गाः कणादयः ।
देहात्मनोः समायोगात्तथैताश्चित्तवृत्तयः ॥१०॥
संबन्धाद्दारुपयसां प्रतिबिम्बानि दारुणः ।
यथा पयसि लक्ष्यन्ते शरीराणि तथात्मनि ॥११॥
यथा दर्पणवीच्यादौ प्रतिबिम्बानि वस्तुतः ।
नासत्यानि च सत्यानि शरीराणि तथात्मनः ॥१२॥
दारुवार्युपलास्फोटे दुःखिता न यथा क्वचित् ।
संयुक्तेषु वियुक्तेषु न तथा पञ्चसु क्षतिः ॥१३॥
दारुसंश्लेषितात्तोयात्कम्पशब्दादयो यथा ।
प्रजायन्ते तथैवास्माद्देहाच्चित्परिबोधितात् ॥१४॥
न शुद्धजडयोरेताः संविदश्चिच्छरीरयोः ।
एता ह्यज्ञानमात्रस्य तस्मिन्नष्टे चिदेव नः ॥१५॥
यथा न कस्यचिद्वारिदारुश्लेषेऽनुभूतयः ।
तथा न कस्यचिद्देहदेहिसङ्गेऽनुभूतयः ॥१६॥
अज्ञस्यायं यथा दृष्टः संसारः सत्यतां गतः ।
न ज्ञस्यायं यथाभूतः संसारः सत्यतां गतः ॥१७॥
अन्तःसङ्गविहीनास्तु यथा स्नेहा दृषज्जले ।
तथासक्तमनोवृत्तौ बाह्यभोगानुभूतयः ॥१८॥
अन्तःसङ्गेन रहितो यद्वत्सलिलकाष्ठयोः ।
संबन्धस्तद्वदेवान्तरसङ्गो देहदेहिनोः ॥१९॥
अन्तःसङ्गेन रहितः संबन्धो जलकाष्ठयोः ।
स देहदेहिनोश्चैवं प्रतिबिम्बाम्भसोस्तथा ॥२०॥
स्थिता सर्वत्र संवित्तिः शुद्धा संवेद्यवर्जिता ।
द्वित्वोपलाञ्छिता त्वन्या दुःसंवित्तिर्न विद्यते ॥२१॥
अदुःखमेति दुःखित्वमन्तःसंवेदना स्फुटम् ।
स्फारो भवति वेतालो वेतालत्वेन भावितः ॥२२॥
असंबन्धोऽपि संबन्धो भवत्यन्तर्विनिश्चयात् ।
स्वप्नाङ्गनासुरतवत्स्थाणुवेतालसङ्गवत् ॥२३॥
असत्प्रायो हि संबन्धो यथा सलिलकाष्ठयोः ।
तथैव मिथ्यासंबन्धः शरीरपरमात्मनोः ॥२४॥
अन्तःसङ्गं विना नाम्बु काष्ठपातैः प्रगृह्यते ।
आत्माऽङ्गसङ्गरहितो देहदुःखैर्न दह्यते ॥२५॥
देहभावनयैवात्मा देहदुःखवशे स्थितः ।
तत्त्यागेन ततो मुक्तो भवतीति विदुर्बुधाः ॥२६॥
अन्तःसङ्गविहीनत्वाद्दुःखवन्त्यङ्ग नो यथा ।
पत्राम्बुमलदारूणि श्लिष्टान्यपि परस्परम् ॥२७॥
अन्तःसङ्गेन रहिता यान्ति निर्दुःखतां पराम् ।
श्लिष्टान्यपि तथैवात्मदेहेन्द्रियमनांस्यलम् ॥२८॥
अन्तःसङ्गो हि संसारे सर्वेषां राम देहिनाम् ।
जरामरणमोहानां तरूणां बीजकारणम् ॥२९॥
अन्तःसंसङ्गवाञ्जन्तुर्मग्नः संसारसागरे ।
अन्तःसंसक्तिमुक्तस्तु तीर्णः संसारसागरात् ॥३०॥
अन्तःसंसङ्गवच्चित्तं शतशाखमिवोच्यते ।
अन्तःसंसङ्गरहितं विलीनं चित्तमुच्यते ॥३१॥
भग्नस्फटिकवद्विद्धि मनः सक्तमपावनम् ।
अभग्नस्फटिकाभासमसक्तं विद्धि मे मनः ॥३२॥
असक्तं निर्मलं चित्तं मुक्तं संसार्यपि स्फुटम् ।
सक्तं तु दीर्घतपसा युक्तमप्यतिबन्धवत् ॥३३॥
अन्तःसक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् ।
अन्तःसंसक्तिरेवैकं कारणं बन्धमोक्षयोः ॥३४॥
अन्तःसंसक्तिमुक्तस्य कुर्वतोऽपि न कर्तृता ।
गुणदोषवती तोये दारुवाहननौर्यथा ॥३५॥
अन्तःसंसक्तितो जन्तोरकर्तुरपि कर्तृता ।
सुखदुःखवति स्वप्ने संभ्रमोन्मुखता यथा ॥३६॥
चित्ते कर्तरि कर्तृत्वमदेहस्यापि विद्यते ।
स्वप्नादाविव विक्षुब्धसुखदुःखदृशोपमम् ॥३७॥
अकर्तरि मनस्यन्तरकर्तृत्वं स्फुटं भवेत् ।
शून्यचित्तो हि पुरुषः कुर्वन्नपि न चेतति ॥३८॥
चेतसा कृतमाप्नोषि चेतसा न कृतं तु न ।
न क्वचित्कारणे देहो न च चित्तेन कर्तृता ॥३९॥
असंसक्तमकर्तेव कुर्वदेव मनो विदुः ।
न कर्मफलभोक्तृत्वमसक्तं प्रतिपद्यते ॥४०॥
ब्रह्महत्याश्वमेधाभ्यामसंसक्तो न लिप्यते ।
दूरस्थकान्तासंलीनमनाः कार्यैरिवाग्रगैः ॥४१॥
अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् ।
बहिःकुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ॥४२॥
अन्तःसंसक्तिमुक्तं यन्मनः स्यात्तदकर्तृकम् ।
तद्विमुक्तं प्रशान्तं तत्तद्युक्तं तदलेपकम् ॥४३॥
तस्मात्सर्वपदार्थानां श्लिष्टानां निश्चितं बहिः ।
सर्वदुःखकरीं क्रूरामन्तःसक्तिं विवर्जयेत् ॥४४॥
विरहितमलमन्तःसङ्गदोषेण चेतः
शममुपगतमाद्यं व्योमवन्निर्मलाभम् ।
सकलमलविमुक्तेनात्मनैकत्वमेति
स्थिरमणिनिभमम्भोवारिणी वारिनीले ॥४५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे अन्तःसंसङ्गविचारो नाम सप्तषष्टितमः सर्गः ॥६७॥

N/A

References : N/A
Last Updated : September 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP