संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः २ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः २ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।ते समेत्य गृहं गत्वा राजपुत्राः शशित्विषः ।चक्रुः सर्वमशेषेण स्वसद्मसु दिनक्रमम् ॥१॥वसिष्ठो राघवश्चैव राजानो मुनयो द्विजाः ।इति चक्रुः स्वकार्याणि तथा स्वगृहवीथिषु ॥२॥सस्नुः कमलकह्लारकुमुदोत्पलहारिषु ।जलाशयेषु चक्राह्वहंससारसराजिषु ॥३॥गोभूतिलहिरण्यानि शयनान्यासनानि च ।ददुर्दानानि विप्रेभ्यो भाजनान्यंशुकानि च ॥४॥हेमरत्नविचित्रेषु स्वेषु चामरसद्मसु ।आनर्चुरच्युतेशानहुताशार्कादिकान्सुरान् ॥५॥पुत्रपौत्रसुहृद्भृत्यबन्धुमित्रगणैः सह ।तत आस्वादयामासुर्भोजनान्युचितानि वै ॥६॥एतस्मिन्समये चास्मिन्नगरे दिवसोऽभवत् ।तनुरष्टाङ्गशेषत्वाद्दृष्टो न च मनोहरः ॥७॥सायन्तनदिनान्तं ते तत्कालोचितचेष्टया ।अनयन्नंशुभिः सार्धं यावदस्तं ययौ रविः ॥८॥संध्यां ववन्दिरे सुष्टु जेपुश्चैवाघमर्षणम् ।पेठुः स्तोत्राणि पुण्यानि जगुर्गाथा मनोहराः ॥९॥ततश्चाभ्युदिता श्यामा कामिनीशोकहारिणी ।क्षीरोदादिव माहेन्द्री चन्द्रावश्यायदायिनी ॥१०॥शनैरास्तीर्णपुष्पेषु कीर्णकर्पूरमुष्टिषु ।दीर्घेन्दुबिम्बरम्येषु तस्थुस्तल्पेषु राघवाः ॥११॥अथ रामादृतेऽन्येषां तत्र तद्व्यवहारिणी ।व्यतीयाय शनैः श्यामा मुहूर्त इव शोभना ॥१२॥तस्थौ रामस्तु तामेव वासिष्ठीं वचनावलीम् ।चिन्तयन्मधुरोदारां करिणीं कलभो यथा ॥१३॥किमिदं नाम संसारभ्रमणं किमिमे जनाः ।भूतानि च विचित्राणि किमायान्ति प्रयान्ति किं ॥१४॥मनसः कीदृशं रूपं कथं चैतत्प्रशाम्यति ।मायेयं सा किमुत्था स्यात्कथं चैव निवर्तते ॥१५॥निवृत्तयानया कः स्याद्गुणो दोषोऽथ वा भवेत् ।कथमात्मनि चैवायं तते संकोच आगतः ॥१६॥किमुक्तं स्याद्भगवता मुनिना मनसः क्षये ।किं चेन्द्रियजये प्रोक्तं किमुक्तमथवात्मनि ॥१७॥जीवश्चित्तं मनो मायेत्येवमादिभिराततैः ।रूपैरात्मैव संसारं तनोतीममसन्मयम् ॥१८॥एभिरेवं मनोमात्रतन्तुबद्धैः क्षयं गतैः ।दुःखोपशान्तिरेतानि सुचिकित्स्यानि नः कथम् ॥१९॥भोगाभ्रमालावलयां धीबलाकामिमां कथम् ।पृथक्करोमि पयसो धारां हंस इवाम्भसः ॥२०॥भोगास्त्यक्तुं न शक्यन्ते तत्त्यागेन विना वयम् ।प्रभवामो न विपदामहो संकटमागतम् ॥२१॥मनोमात्रमिदं प्राप्यं तथैवेदं प्रयोजनम् ।संपन्नं नो गिरिगुरु मौर्ख्याद्यक्षः शिशोरिव ॥२२॥परमां शान्तिमागत्य गतसंसारसंभ्रमा ।बालेव लब्धदयिता कंचित्प्राप्स्यति नो मतिः ॥२३॥कदोपशान्तसंरम्भं विगताशेषकौतुकम् ।अपापमात्मविश्रान्तं मम स्यात्पावनं मनः ॥२४॥कलाकलापसंपूर्णाच्छशाङ्कादपि शीतले ।पदे सुरूढं विश्रम्य भ्रमिष्यामि कदा जगत् ॥२५॥कलनापेलवं रूपमुत्सृज्यालीनमात्मनि ।कदैष्यति मनः शान्तिमम्भसीव तरङ्गकः ॥२६॥तृष्णातरङ्गाकुलितमाशामकरमालिनम् ।कदा संसारजलधिं तीर्त्वा स्यामहमज्वरः ॥२७॥कदोपशमशुद्धासु पदवीषु विचक्षणाः ।मुमुक्षूणां निवत्स्यामो निःशोकं समदर्शनाः ॥२८॥संतापितसमस्ताङ्गः सर्वधातुभयंकरः ।संसृतिज्वर आदीर्घः कदा नाशमुपैष्यति ॥२९॥निर्वातदीपलेखेव कदा चित्तं गतव्यथम् ।शममेष्यति हे बुद्धे सुप्रकाशघनान्तरम् ॥३०॥कदेन्द्रियाणि दुःखेभ्यः संतरिष्यन्ति हेलया ।दुरीहादग्धदेहानि गरुत्मन्त इवार्णवान् ॥३१॥अयं सोऽहं रुदन्मूढ इति व्यर्थाहितो भ्रमः ।शरदीवासितो मेघः कदा नाशमुपैष्यति ॥३२॥मन्दारवनलेखासु या मतिः सा तृणायते ।याचे तत्पदमात्मीयं संप्राप्स्यामः कदा वयम् ॥३३॥वीतरागजनप्रोक्ता निर्मला ज्ञानदृष्टयः ।कच्चित्पदं त्वयि मनः करिष्यन्तीति मे वद ॥३४॥हा तात मातः पुत्रेति गिरामासामहं पुनः ।भाजनं चित्त माभूवं भोजनं दुःखभोगिनाम् ॥३५॥हे बुद्धे भगिनि भ्रातुरर्थितां पूरयाशु मे ।आवयोर्दुःखमोक्षाय विचारय मुनेर्गिरः ॥३६॥त्वां पादपतितः प्रीत्या याचे सति सुते मते ।तेन भव्ये भवोच्छेदभूतये सुस्थिरा भव ॥३७॥वसिष्ठमुनिना प्रोक्ता विरक्ताः प्रथमं गिरः ।ततो मुमुक्षोराचार उत्पत्तीनां क्रमस्ततः ॥३८॥ततः स्थितिप्रकरणं समं दृष्टान्तसुन्दरम् ।विज्ञानगर्भसुलभं यथावत्स्मर हे मते ॥३९॥कृतमतिं शतशो विचारितं यद्यदि तदुपैति न मानसस्य बुद्धिः ।भवति तदफलं शरद्धनाभं सततमतो मतिरेव कार्यसारः ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उपदेशानुवर्णनं नाम द्वितीयः सर्गः ॥२॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP