संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः १२ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः १२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं विचारयंस्तत्र स्वराज्ये जनको नृपः ।चकाराखिलकार्याणि न मुमोह च धीरधीः ॥१॥न मनः प्रोल्ललासास्य क्वचिदानन्दवृत्तिषु ।केवलं सुषुप्तसंस्थं सदैव व्यवतिष्ठत ॥२॥ततःप्रभृत्यसौ दृश्यं नाजहार न वात्यजत् ।केवलं विगताशङ्क वर्तमाने व्यवस्थितः ॥३॥अनारतविवेकेन तेन सद्यः सनातनम् ।पुनः कलङ्कं नैवाप्तमम्बरेणेव राजसम् ॥४॥स्वविवेकानुसंधानादिति तस्य महीपतेः ।सम्यग्ज्ञानमनन्ताभमलं विमलतां ययौ ॥५॥अनामृष्टविकल्पांशुश्चिदात्मा विगतामयः ।उदियाय हृदाकाशे तस्य व्योम्नीव भास्करः ॥६॥स ददर्शाखिलान्भावांश्चिच्छक्तौ समवस्थितान् ।आत्मभूताननन्तात्मा सर्वभूतात्मकोविदः ॥७॥प्रहृष्टो न बभूवासौ क्वचिन्न च सुदुःखितः ।प्रकृतेर्व्यवहारत्वात्सदैव सममानसः ॥८॥जीवन्मुक्तो बभूवासौ ततःप्रभृति मानदः ।जनको जरठज्ञानी ज्ञातलोकपरावरः ॥९॥राज्यं कुर्वन्विदेहानां जनको जनजीवितम् ।नैव हर्षविषादाभ्यां सोऽवशः परितप्यते ॥१०॥नास्तमेति न चोदेति गुणदोषविचेष्टितैः ॥११॥अर्थानर्थैः स राज्योत्थैर्न ग्लायति न हृष्यति ।कुर्वन्नपि करोत्येष न किंचिदपि कुत्रचित् ।स तिष्ठत्येव सततं सर्वदैवान्तरे चितः ॥१२॥सुषुप्तावस्थितस्यैव जनकस्य महीपतेः ।भावनाः सर्वभावेभ्यः सर्वथैवास्तमागताः ॥१३॥भविष्यं नानुसंधत्ते नातीतं चिन्तयत्यसौ ।वर्तमाननिमेषं तु हसन्नेवानुवर्तते ॥१४॥स्वविचारवशेनैव तेन तामरसेक्षण ।प्राप्तं प्राप्यमशेषेण राम नेतरयेच्छया ॥१५॥तावत्तावत्स्वकेनैव चेतसा प्रविचार्यते ।यावद्यावद्विचाराणां सीमान्तः समवाप्यते ॥१६॥न तद्गुरोर्न शास्त्रार्थान्न पुण्यात्प्राप्यते पदम् ।यत्साधुसङ्गाभ्युदिताद्विचारविशदाद्धृदः ॥१७॥सुन्दर्या निजया बुद्ध्या प्रज्ञयेव वयस्यया ।पदमासाद्यते राम न नामक्रिययान्यया ॥१८॥यस्योज्ज्वलति तीक्ष्णाग्रा पूर्वापरविचारिणी ।प्रज्ञादीपशिखा जातु जाड्यान्ध्यं तं न बाधते ॥१९॥दुरुत्तरा या विपदो दुःखकल्लोलसंकुलाः ।तीर्यते प्रज्ञया ताभ्यो नावापद्भ्यो महामते ॥२०॥प्रज्ञाविरहितं मूढमापदल्पापि बाधते ।पेलवाचानिलकला सारहीनमिवोलपम् ॥२१॥प्रज्ञावानसहायोऽपि विशास्त्रोऽप्यरिमर्दन ।उत्तरत्येव संसारसागराद्राम पेलवात् ॥२२॥प्रज्ञावानसहायोऽपि कार्यान्तमधिगच्छति ।दुष्प्रज्ञः कार्यमासाद्य प्रधानमपि नश्यति ॥२३॥शास्त्रसज्जनससर्गैः प्रज्ञां पूर्वं विवर्धयेत् ।सेकसंरक्षणारम्भैः फलप्राप्तौ लतामिव ॥२४॥प्रज्ञाबलबृहन्मूलः काले सत्कार्यपादपः ।फलं फलत्यतिस्वादु भासो बिम्बमिवैन्दवम् ॥२५॥य एव यत्नः क्रियते बाह्यार्थोपार्जने जनैः ।स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवर्धने ॥२६॥सीमान्तं सर्वदुःखानामापदां कोशमुत्तमम् ।बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विनाशयेत् ॥२७॥स्वर्गाद्यद्यच्च पातालाद्राज्याद्यत्समवाप्यते ।तत्समासाद्यते सर्वं प्रज्ञाकोशान्महात्मना ॥२८॥प्रज्ञयोत्तीर्यते भीमात्तस्मात्संसारसागरात् ।न दानैर्न च वा तीर्थैस्तपसा नच राघव ॥२९॥यत्प्राप्ताः संपदं दैवीमपि भूमिचरा नराः ।प्रज्ञापुण्यलतायास्तत्फलं स्वादु समुत्थितम् ॥३०॥प्रज्ञया नखरालूनमत्तवारणयूथपाः ।जम्बुकैर्विजिताः सिंहाः सिंहैर्हरिणका इव ॥३१॥सामान्यैरपि भूपत्वं प्राप्तं प्रज्ञावशान्नरैः ।स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते ॥३२॥प्रज्ञया वादिनः सर्वे स्वविकल्पविलासिनः ।जयन्ति सुभटप्रख्यान्नरानप्यतिभीरवः ॥३३॥चिन्तामणिरियं प्रज्ञा हृत्कोशस्था विवेकिनः ।फलं कल्पलतेवैषा चिन्तितं संप्रयच्छति ॥३४॥भव्यस्तरति संसारं प्रज्ञयापोह्यतेऽधमः ।शिक्षितः पारमाप्नोति नावा नाप्नोत्यशिक्षितः ॥३५॥धीः सम्यग्योजिता पारमसम्यग्योजिताऽऽपदम् ।नरं नयति संसारे भ्रमन्ती नौरिवार्णवे ॥३६॥विवेकिनमसंमूढं प्राज्ञमाशागणोत्थिताः ।दोषा न परिबाधन्ते सन्नद्धमिव सायकाः ॥३७॥प्रज्ञयेह जगत्सर्वं सम्यगेवाङ्ग दृश्यते ।सम्यग्दर्शनमायान्ति नापदो नच संपदः ॥३८॥पिधानं परमार्कस्य जडात्मा विततोऽसितः ।अहंकाराम्बुदो मत्तः प्रज्ञावातेन बाध्यते ॥३९॥पदमतुलमुपैतुमिच्छतोच्चैःप्रथममियं मतिरेव लालनीया ।फलमभिलषता कृषीवलेनप्रथमतरं ननु कृष्यते धरैव ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे प्रज्ञामाहात्म्यं नाम द्वादशः सर्गः ॥१२॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP