संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ७७ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ७७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७७ Translation - भाषांतर श्रीराम उवाच ।समासेन मुने भूयो दृष्टतत्त्वचमत्कृतेः ।कथयोदारवृत्तान्तं कस्ते वचसि तृप्यति ॥१॥श्रीवसिष्ठ उवाच ।जीवन्मुक्तस्य बहुधा कथितं लक्षणं मया ।भूयोऽपि त्वं महाबाहो कथ्यमानमिदं श्रृणु ॥२॥सुषुप्तवदिदं नित्यं पश्यत्यपगतैषणः ।असद्रूपमिवासक्तं सर्वत्राखिलमात्मवान् ॥३॥कैवल्यमिव संप्राप्तः परिसुप्तमना इव ।घूर्णमान इवानन्दी तिष्ठत्यधिगतात्मदृक् ॥४॥नादत्तमप्युपादत्ते गृहीतमपि पाणिना ।अन्तर्मुखतयोदात्तरूपया समया धिया ॥५॥यन्त्रपुत्रकसंचार इतीमं जनताक्रमम् ।अन्तःसंलीनया दृष्ट्या पश्यन्हसति शान्तधीः ॥६॥नापेक्षते भविष्यं च वर्तमाने न तिष्ठति ।न संस्मरत्यतीतं च सर्वमेव करोति च ॥७॥सुप्तः प्रबुद्धो भवति प्रबुद्धोऽपि च सुप्तवान् ।सर्वं कर्म करोत्यन्तर्न करोति च किंचन ॥८॥अन्तःसर्वपरित्यागी नित्यमन्तरनेषणः ।कुर्वन्नपि बहिः कार्यं सममेवावतिष्ठते ॥९॥बहिः प्रकृतसर्वेहो यथाप्राप्तक्रियोन्मुखः ।स्वकर्मक्रमसंप्राप्तबन्धुकार्यानुवृत्तिमान् ॥१०॥समग्रसुखभोगात्मा सर्वाशास्विव संस्थितः ।करोत्यखिलकर्माणि त्यक्तकर्तृत्वविभ्रमः ॥११॥उदासीनवदासीनः प्रकृतः क्रमकर्मसु ।नाभिवाञ्छति न द्वेष्टि न शोचति न हृष्यति ॥१२॥अनुबन्धपरे जन्तावसंसक्तेन चेतसा ।भक्ते भक्तसमाचारः शठे शठ इव स्थितः ॥१३॥बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् ।युवा यौवनवृत्तेषु दुःखितेष्वनु दुःखितः ॥१४॥प्रवृत्तवाक्पुण्यकथो दैन्याद्व्यपगताशयः ।धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः ॥१५॥प्राज्ञः प्रसन्नमधुरः पूर्णः स्वप्रतिभोदये ।निरस्तखेददौर्गत्यः सर्वस्मिन्स्निग्धबान्धवः ॥१६॥उदारचरिताकारः समः सौम्यसुखोदधिः ।सुस्निग्धः शीतलस्पर्शः पूर्णचन्द्र इवोदितः ॥१७॥न तस्य सुकृतेनार्थो न भोगैर्न च कर्मभिः ।न दुष्कृतैर्न भोगानां संत्यागेन न बन्धुभिः ॥१८॥न कार्यकारणारम्भैर्न निष्कृततया तथा ।न बन्धेन न मोक्षेण न पातालेन नो दिवा ॥१९॥यथावस्तु यथादृष्टं जगदेकमयात्मकम् ।तदा बन्धविमोक्षाणां न क्वचित्कृपणं मनः ॥२०॥सम्यग्ज्ञानाग्निना यस्य दग्धाः संदेहजालिकाः ।निःशङ्कमलमुड्डीनस्तस्य चित्तविहङ्गमः ॥२१॥यस्य भ्रान्तिविनिर्मुक्तं मनः समरसं स्थितम् ।नास्तमेति न चोदेति व्योमवत्सर्वदृष्टिषु ॥२२॥मंजूषायां निषण्णस्य यथा बालस्य चेष्टते ।अङ्गावल्यनुसंधानवर्जितं यस्य वै तथा ॥२३॥घूर्णन्क्षीव इवानन्दी मन्दीभूतपुनर्भवः ।अनुपादेयबुद्ध्या तु न स्मरत्यकृतं कृतम् ॥२४॥सर्व सर्वप्रकारेण गृह्णाति च जहाति च ।अनुपादेयसर्वार्थो बालवच्च विचेष्टते ॥२५॥स तिष्ठन्नपि कार्येषु देशकालक्रियाक्रमैः ।न कार्यसुखदुःखाभ्यां मनागपि हि गृह्यते ॥२६॥बहिः प्रकृतसर्वार्थोऽप्यन्तः पुनरनीहया ।न सत्तां योजयत्यर्थे न फलान्यनुधावति ॥२७॥नोपेक्षते दुःखदशां न सुखाशामपेक्षते ।कार्योदये नैति मुदं कार्यनाशे न खिद्यते ॥२८॥अपि शीतरुचावर्के सुतप्तेऽपीन्दुमण्डले ।अप्यधः प्रसरत्यग्नौ विस्मयोऽस्य न जायते ॥२९॥चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः ।इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥३०॥न दयादैन्यमादत्ते न क्रौर्यमनुधावति ।न लज्जामनुसंधत्ते नालज्जत्वं च गच्छति ॥३१॥न कदाचन दीनात्मा नोद्धतात्मा कदाचन ।न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान् ॥३२॥नास्य चेतसि सुस्फारे शरदम्बरनिर्मले ।कोपादयः प्रजायन्ते नभसीव नवाङ्कुराः ॥३३॥अनारतपतज्जातभूतायां जगतः स्थितौ ।क्व कथं किल कासौ स्यात्सुखिताऽसुखिताथवा॥३४॥फेनाजवं जवीभावे जले भूतक्रमे तथा ।क्व किलेदं कुतः कोऽतः प्रसङ्गः सुखदुःखयोः ॥३५॥भावाभावैरपर्यन्तैरजस्रं जन्तुसंभवैः ।न विशीर्यन्ति नोद्यन्ति दृष्टिसृष्टिक्षमा नराः ॥३६॥निमेषं प्रति यामिन्यां यथान्याः स्वप्नदृष्टयः ।क्षणोत्पत्तिविनाशिन्यस्तथैता लोकदृष्टयः ॥३७॥अनारतसमुत्पत्तावनारतविनाशिनि ।कः क्रमो दग्धसंसारे कारुण्यानन्दयोरिह ॥३८॥शुभाभावात्सुखाभावे स्थितिं याते विलक्षणाः ।कीदृश्यः कथमायाताः क्व वा ता दुःखसंविदः ॥३९॥सुखसंवेदनान्तोत्था स्वबीजं वितनोति या ।शान्ता दुःखदशा सेयं कथमन्तर्हिते सुखे ॥४०॥क्षीणाभ्यां सुखदुःखाभ्यां हेयोपादेययोः क्षये ।ईप्सितानीप्सिते क्व स्तो गलितेऽथ शुभाशुभे ॥४१॥रम्यारम्यदृशोर्नाशाद्याते भोगाभिवाञ्छने ।नैराश्ये संततं प्रौढे हिमवद्विगलेन्मनः ॥४२॥आमूलान्मनसि क्षीणे संकल्पस्य कथा च का ।तिलेष्विवातिदग्धेषु तैलस्य कलना कुतः ॥४३॥भावेष्वभावघनभावनया महात्मानिर्मुक्तसंकलनमम्बरवत्स्थितेषु ।चित्तं प्रति स्वमुदितो विततैकरूपीज्ञस्तिष्ठति स्वपिति जीवति नित्यतृप्तः ॥४४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तस्वरूपवर्णनं नाम सप्तसप्ततितमः सर्गः ॥७७॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP