संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ३८ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ३८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३८ Translation - भाषांतर श्रीवसिष्ठ उवाचअथाखिलजगज्जालक्रमपालनदेवनः ।क्षीरोदनगरे शेषशय्यासनगतो हरिः ॥१॥प्रावृण्निद्राव्युपरमे देवार्थमरिसूदनः ।धिया विलोकयामास कदाचिज्जागतीं गतिम् ॥२॥त्रिविष्टपं स्वमनसा पार्थिवं चावलोक्य सः ।आचारमाजगामाशु पातालमरिपालितम् ॥३॥तत्र स्थिरसमाधाने स्थिते प्रह्लाददानवे ।दृष्ट्वा संपदमिन्द्रस्य पुरे प्रौढिमुपागताम् ॥४॥व्यालतल्पतलस्थस्य क्षीरोदार्णवशायिनः ।शङ्खचक्रगदापाणेर्देहस्यान्तरचारिणः ॥५॥पद्मासनस्थस्य मनः शरीरेणातिभास्वता ।इदं संचिन्तयामास त्रैलोक्यालमहालिना ॥६॥प्रह्लादे पदविश्रान्ते पाताले गतनायके ।कष्टं सृष्टिरियं प्रायो निर्दैत्यत्वमुपागता ॥७॥दैत्याभावे सुरश्रेणी निर्जिगीषुपदं गता ।शममेष्यत्यदृष्टाब्दपटलेषु सरिद्यथा ॥८॥मोक्षाख्यं निर्गतद्वन्द्वं ततो यास्यति तत्पदम् ।क्षीणाभिमानविरसा लतेव प्रविशुष्कताम् ॥९॥देवौघे शान्तिमायाते भुवि यज्ञतपःक्रियाः ।अदेवत्वफलाः सर्वाः शममेष्यन्त्यसंशयम् ॥१०॥क्रियास्वथोपशान्तासु भूर्लोकोऽस्तमुपैष्यति ।असंसारप्रसङ्गोऽथ तस्य नाशे भविष्यति ॥११॥आकल्पान्तं त्रिभुवनं यदिदं कल्पितं मया ।नाशमेष्यत्यकालेन तापे हिमकणो यथा ॥१२॥किमेवमस्मिन्नाभोगे विलीय क्षयमागते ।कृतं मयेह भवति स्वलीलाक्षयकारिणा ॥१३॥ततोऽहमपि शून्येऽस्मिन्नष्टचन्द्रार्कतारके ।वपुःप्रशान्तिमाधाय स्थितिमेष्यामि तत्पदे ॥१४॥अकाण्ड एवमेवं हि जगत्युपशमं गते ।नेह श्रेयो न पश्यामि मन्ये जीवन्तु दानवाः ॥१५॥दैत्योद्योगेन विबुधास्ततो यज्ञतपःक्रियाः ।तेन संसारसंस्थानं न संसारक्रमोऽन्यथा ॥१६॥तस्माद्रसातलं गत्वा यथावत्स्थापयाम्यहम् ।स्वे क्रमे दानवाधीशमृतुः पुनरिव द्रुमम् ॥१७॥विना प्रह्लादमथ चेदितरं दानवेश्वरम् ।करोमि तदसौ मन्ये देवानासादयिष्यति ॥१८॥प्रह्लादस्य त्वयं देहः पश्चिमः पावनो महान् ।आकल्पमिह वस्तव्यं देहेनानेन तेन च ॥१९॥एवं हि नियतिर्देवी निश्चिता पारमेश्वरी ।प्रह्लादेन यथाकल्पं स्थातव्यमिह देहिना ॥२०॥तस्मात्तमेव गत्वा तु दैत्येन्द्रं बोधयाम्यहम् ।गर्जन्गिरिनदीसुप्तं मयूरमिव वारिदः ॥२१॥जीवनमुक्तसमाधिस्थः करोत्वसुरनाथताम् ।मणिर्मुक्तमनस्कारः प्रतिबिम्बक्रियामिव ॥२२॥नहि नश्यति सर्गोऽयमेवं सह सुरासुरैः ।भविष्यति च तद्द्वन्द्वं तन्मे क्रीडा भविष्यति ॥२३॥सर्गक्षयोदयावेतौ सुसमौ मम यद्यपि ।तथापीदं यथासंस्थं भवत्वन्येन किं मम ॥२४॥ 'भावाभावेषु यत्तुल्यं तन्नाशे तत्स्थितौ च वा ।यः प्रयत्नस्त्वबुद्धित्वात्तद्योगगमनं भवेत् ॥२५॥तस्मात्प्रयामि पातालं बोधयाम्यसुरेश्वरम् ।स्थैर्यं यामि न संसारलीलां संपादयाम्यहम् ॥२६॥असुरपुरमवाप्य प्रोद्धताचारघोरंकमलमिव विवस्वान्दैत्यमुद्बोधयामः ।जगदिदमखिलं स्वस्थैर्यमभ्यानयामोघनविधिरिव शैले चञ्चलं मेघजालम् ॥२७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे परमेश्वरवितर्को नामाष्टात्रिंशः सर्गः ॥३८॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP