संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ९१ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ९१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९१ Translation - भाषांतर श्रीराम उवाच ।परमाकाशकोशाद्रिरूढलोकान्तरद्रुमम् ।तारकापुष्पशबलं देवासुरविहंगमम् ॥१॥विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् ।सर्वर्तुरम्यचन्द्रार्कगणरम्यकदन्तुरम् ॥२॥सप्ताब्धिवापीवलितं सरिच्छतमनोहरम् ।चतुर्दशविधानन्तभूतजातोपजीवितम् ॥३॥जगत्काननमाक्रम्य स्थितायाः कृतजालकम् ।ब्रह्मन्संसृतिमृद्वीकालताया वितताकृतेः ॥४॥जरामरणपर्वायाः सुखदुःखफलावलेः ।आरूढमूलमालाया मोहसेकजलाञ्जलेः ॥५॥किं बीजमथ बीजस्य तस्य किं बीजमुच्यते ।अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत् ॥६॥सर्वमेतत्समासेन पुनर्बोधविवृद्धये ।सिद्धये ज्ञानसारस्य वद मे वदतांवर ॥७॥श्रीवसिष्ठ उवाच ।अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् ।संसृतिव्रततेर्बीजं शरीरं विद्धि राघव ॥८॥शाखाप्रतानगहना फलपल्लवशालिनी ।तेनेयं भवति स्फीता शरदीव वसुन्धरा ॥९॥भावाभावदशाकोशं दुःखरत्नसमुद्गकम् ।बीजमस्य शरीरस्य चित्तमाशावशानुगम् ॥१०॥चित्तादिदमुदेत्युच्चैः सदसच्चाङ्गजालकम् ।तथा चैतत्स्वयं स्वप्नसंभ्रमेष्वनुभूयते ॥११॥यथा गन्धर्वसंकल्पात्पुरमेवं हि चेतसः ।सवातायनमाकारभासुरं जायते वपुः ॥१२॥यदिदं किंचिदाभोगि जागतं दृश्यतां गतम् ।रूपं तच्चेतसः स्फारं घटादित्वं मृदो यथा ॥१३॥द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥१४॥यदा प्रस्पन्दते प्राणो नाडीसंस्पर्शनोद्यतः ।तदा संवेदनमयं चित्तमाशु प्रजायते ॥१५॥यदा न स्पन्दते प्राणः शिरासरणिकोटरे ।असंवित्तिवशात्तेन चित्तमन्तर्न जायते ॥१६॥प्राणस्पन्दनमेवेदं चित्तद्वारेण दृश्यते ।जगन्नामागतं व्योम्नि नीलत्वादिवदीदृशम् ॥१७॥प्राणस्पन्दनसुप्ता च तच्छान्तिं शान्तिरुच्यते ।प्राणसंस्पन्दनात्संविद्याति वीटेव चोदिता ॥१८॥संवित्स्फुरति देहेषु प्राणस्पन्दप्रबोधिता ।चक्रावर्तैरङ्गणेषु वीटेव करताडिता ॥१९॥सती सर्वगता संवित्प्राणस्पन्देन बोध्यते ।सूक्ष्मात्सूक्ष्मतराकारा गन्धलेखेव वायुना ॥२०॥संवित्संरोधने श्रेयः परमं विद्धि राघव ।कारणाक्रमणं यत्र क्षोभस्तत्र न विद्यते ॥२१॥संवित्समुदितैवाशु याति संवेद्यमादरात् ।संवेदनादनन्तानि ततो दुःखानि चेतसः ॥२२॥संसुप्तान्तरबोधाय संवित्संतिष्ठते यदा ।लब्धं भवति लब्धव्यं तदा तदमलं पदम् ॥२३॥तस्मात्प्राणपरिस्पन्दैर्वासनाचोदनैस्तथा ।नो चेत्संविदमुच्छूनां करोषि तदजो भवान् ॥२४॥संविदुच्छूनतां चित्तं विद्धि तेनेदमाततम् ।अनर्थजालमालूनविशीर्णजनजीवकम् ॥२५॥योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् ।प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः ॥२६॥चित्तोपशान्तिफलदं परमं साम्यकारणम् ।सुभगं संविदः स्वास्थ्यं प्राणसरोधनं विदुः ॥२७॥ज्ञानवद्भिः प्रकटितामनुभूतां च राघव ।चित्तस्योत्पत्तिमपरां वासनाजीवितां श्रृणु ॥२८॥दृढभावनया त्यक्तपूर्वापरविचारणम् ।यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥२९॥भावितस्तीव्रसंवेगादात्मना यत्तदेव सः ।भवत्याशु महाबाहो विगतेतरसंस्मृतिः ॥३०॥तादृग्रूपः स पुरुषो वासनाविवशीकृतः ।यत्पश्यति तदेतत्तत्सद्वस्त्विति विमुह्यति ॥३१॥वासनावेगवैवश्यात्स्वरूपं प्रजहाति तत् ।भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥३२॥असम्यग्ज्ञानवानेव भवत्याधिपरिप्लुतः ।अन्तस्थया वासनया विषेणेव वशीकृतः ॥३३॥असम्यग्दर्शनं यस्मादनात्मन्यात्मभावनम् ।यदवस्तुनि वस्तुत्वं तच्चित्तं विद्धि राघव ॥३४॥दृढाभ्यासपदार्थैकवासनादतिचञ्चलम् ।चित्तं संजायते जन्मजरामरणकारणम् ॥३५॥यदा न वास्यते किंचिद्धेयोपादेयरूपि यत् ।स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥३६॥अवासनत्वात्सततं यदा न मनुते मनः ।अमनस्ता तदोदेति परमोपशमप्रदा ॥३७॥यदा किंचिन्न संवित्तौ स्फुरत्यभ्रमिवाम्बरे ।तदा पद्म इवाकाशे चित्तमन्तर्न जायते ॥३८॥यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि ।तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥३९॥एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव ।यद्भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च ॥४०॥न किंचित्कल्पनायोग्यं दृश्यं भावयतस्ततः ।आकाशकोशस्वच्छस्य कुतश्चित्तोदयो भवेत् ॥४१॥यदभावनमास्थाय यदभावस्य भावनम् ।यद्यथावस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥४२॥सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् ।वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥४३॥वासनाया रसाध्यानाद्रागो यस्य न विद्यते ।तस्य चित्तमचित्तत्वं गतं सत्त्वं तदुच्यते ॥४४॥घना न वासना यस्य पुनर्जननकारिणी ।जीवन्मुक्तः स सत्त्वस्थश्चक्रभ्रमवदास्थितः ॥४५॥भृष्टबीजोपमा येषां पुनर्जननवर्जिता ।वासनारसनिर्हीना जीवन्मुक्ता हि ते स्थिताः ॥४६॥सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः ।अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥४७॥द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने ।एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥४८॥मिथः कारणमेते हि बीजे जन्मनि चेतसः ।जलाङ्गीकरणे राम जलाशयघटाविव ॥४९॥घना न वासना यस्य पुनर्जननकारिणी ।बीजाङ्कुरवदेते हि संस्थिते तिलतैलवत् ॥५०॥अविनाभाविनी नित्यं कालाकाङ्क्षिक्रमे तथा ।सर्वमुत्पादयत्येतच्चित्तकः संविदात्मकः ॥५१॥यथाप्राणेन्द्रियानन्दमानन्दपवनावुभौ ।चित्तस्योत्पादिके सार्धं यदैते वासने तदा ॥५२॥आमोदपुष्पवत्तैलतिलवच्च व्यवस्थिते ।वासनावशतः प्राणस्पन्दस्तेन च वासना ॥५३॥जायते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ।वासनोत्प्लवमानत्वात्संवित्प्रक्षोभकर्मणा ॥५४॥प्राणस्पन्दं बोधयति तेन चित्तं प्रजायते ।प्राणः स्पन्दनधर्मित्वात्स्पन्दते स्पृष्टहृद्गुणः ॥५५॥संविदं बोधयंस्तेन चित्तबालः प्रजायते ।एवं हि वासनाप्राणस्पन्दौ द्वौ तस्य कारणम् ॥५६॥तयोरेकक्षये नाशो द्वयोश्चित्तस्य राघव ।सुखदुःखमनःस्पन्द शारीरकवृहत्फलम् ॥५७॥कार्यपल्लविताकारं कृतिव्रततिवेष्टितम् ।तृष्णाकृष्णाहिवलितं रागरोगबकालयम् ॥५८॥अज्ञानमूलं सुदृढं लीनेन्द्रियविहंगमम् ।वासना क्षयमानीता चित्तवृक्षं क्षणेन हि ॥५९॥प्रपातयति वातौघः कालपक्वफलं यथा ।पाण्डुरीकृतसर्वाशं स्थगिताखिलदर्शनम् ॥६०॥विलोलजलदाकारमज्ञानावकरोत्थितम् ।तृष्णातृणलवव्याप्तं स्तम्भाकृति शरीरकम् ॥६१॥स्फुरत्तनु तनुक्षुब्धं सुखमुत्प्लवनं प्रति ।अन्तःस्थितमहालोकमपश्यत्प्रविलीयते ॥६२॥पवनस्पन्दरोधाच्च राम चित्तरजः क्षणात् ।वासनाप्राणपवनस्पन्दयोरनयोर्द्वयोः ॥६३॥संवेद्यं बीजमित्युक्तं स्फुरतस्तौ यतस्ततः ।हृदि संवेद्यमाप्यैव प्राणस्पन्दोऽथ वासना ॥६४॥उदेति तस्मात्संवेद्यं कथितं बीजमेतयोः ।संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने ॥६५॥समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ।संविदं विद्धि संवेद्यं बीजं धीरतया विना ॥६६॥न संभवति संवेद्यं तैलहीनस्तिलो यथा ।न बहिर्नान्तरे किंचित्संवेद्यं विद्यते पृथक् ॥६७॥संवित्स्फुरन्ती संकल्पात्संवेद्यं पश्यति स्वतः ।स्वप्ने यथात्ममरणं तथा देशान्तरस्थितिः ॥६८॥स्वचमत्कारयोगेन संवेद्यं संविदस्तथा ।स्ववेदनं स्वसंकल्पात्संविदो यत्र वर्तते ॥६९॥जगज्जालमतो भाति तदिदं रघुनन्दन ।यथा बालस्य वेतालः स्वसंकल्पोद्भवाद्भवेत् ॥७०॥पुरुषत्वं यथा स्थाणोः संवेद्यं संविदस्तथा ।यथा चन्द्रार्करश्मीनां दण्डता रेणुता तथा ॥७१॥यथा नौस्थाचलस्पन्दः संवेद्यं संविदस्तथा ।एतन्मिथ्या हि दुर्ज्ञानं सम्यग्ज्ञानाद्विलीयते ॥७२॥रज्ज्वामिव भुजङ्गत्वं द्वीन्दुत्वं स्वीक्षितादिव ।शुद्धैव संवित्त्रिजगत्सवेद्यं नान्यदस्त्यलम् ॥७३॥इत्यन्तर्निश्चयो रूढः सम्यग्ज्ञानं विदुर्बुधाः ।पूर्वं दृष्टमदृष्टं वा यदस्याः प्रतिभासते ॥७४॥संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ।तदमार्जनमात्रं हि महासंसारसंगतम् ॥७५॥तत्प्रमार्जनमात्रं तु मोक्ष इत्यनुभूयते ।संवेदनमनन्ताय दुःखाय जननात्मने ॥७६॥असंवित्तिरजाड्यस्था सुखायाजननात्मने ।अजडो गलितानन्दस्त्यक्तसंवेदनो भव ।असंवेद्यप्रबुद्धात्मा यस्तु स त्वं रघूद्वह ॥७७॥श्रीराम उवाच ।अजडश्चाप्यसंवित्तिः कीदृशो भवति प्रभो ।असंवित्तौ च जाड्यं तत्कथं वा विनिवर्तते ॥७८॥श्रीवसिष्ठ उवाच ।यः सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित् ।जीवो न विन्दते किंचिदसंविदजडो हि सः ॥७९॥संविद्वस्तुदृशालम्बः स यस्येह न विद्यते ।सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि ॥८०॥संवेद्येन हृदाकाशो मनागपि न लिप्यते ।यस्यासावजडा संविज्जीवन्मुक्तश्च कथ्यते ॥८१॥यदा न भाव्यते किंचिन्निर्वासनतयात्मनि ।बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥८२॥तदा जाड्यविनिर्मुक्तमच्छवेदनमाततम् ।आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥८३॥समस्तवासनात्यागी निर्विकल्पसमाधितः ।नीलत्वमिव खात्स्फार आनन्दः संप्रवर्तते ॥८४॥योगिनस्तत्र तिष्ठन्ति संवेदनमसंविदः ।तन्मयत्वादनाद्यन्तं तदप्यन्तर्विलीयते ॥८५॥गच्छंस्तिष्ठन्स्पृशञ्जिघ्रन्नपि तेन स उच्यते ।अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी ॥८६॥एतां दृष्टिमवष्टभ्य कष्टया यत्नचेष्टया ।तर दुःखाम्बुधेः पारमपारगुणसागर ॥८७॥यथा बीजाद्बृहद्वृक्षो व्योम व्याप्नोति कालतः ।तथैवेदं स्वसंकल्पात्संवेद्यमसदुत्थितम् ॥८८॥यदा संकल्प्य संकल्प्य संवित्स्वं विन्दते वपुः ।तदास्य जन्मजालस्य सैव गच्छति बीजताम् ॥८९॥जनयित्वात्मनात्मानं मोहयित्वा पुनःपुनः ।स्वयं मोक्षं नयत्यन्तः संवित्स्वं विद्धि राघव ॥९०॥यदेव भावयत्येषा तदेव भवति क्षणात् ।न भवद्भूमिकामुक्ता समायाति चिराद्वपुः ॥९१॥देवो नासौ सुरो रक्षो यक्षः किं किन्नरो जनः ।आत्मैवाद्यविलासिन्या जगन्नाट्यं प्रनृत्यति ॥९२॥बद्ध्वात्मानं रुदित्वा च कोशकारकृमिर्यथा ।चिरात्केवलतामेति स्वयं संवित्स्वभावतः ॥९३॥जगज्जलधिजालानां संविज्जलमलं गता ।एषैवापूर्वदिक्चक्रं स्फुरत्यद्व्यादितां गता ॥९४॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।इत्यस्या वीचयः प्रोक्ताः संवित्सलिलसंततेः ॥९५॥संविन्मात्रं जगत्सर्वं द्वितीया नास्ति कल्पना ।इत्येव सम्यग्ज्ञानेन संविद्गच्छति नान्यताम् ॥९६॥यदा न विन्दते किंचित्स्पन्दते न न वेपते ।स्वात्मन्येव स्थितिं याति संविन्नो लिप्यते तदा ॥९७॥अथास्याः संविदो राम सन्मात्रं बीजमुच्यते ।संविन्मात्रादुदेत्येषा प्राकाश्यमिव तेजसः ॥९८॥द्वे रूपे तत्र सत्ताया एकं नानाकृति स्थितम् ।द्वितीयमेकरूपं तु विभागोऽयं तयोः श्रृणु ॥९९॥घटता पटता चैव त्वत्ता मत्तेति कथ्यते ।सत्तारूपविभागेन यत्तन्नानाकृति स्थितम् ॥१००॥विभागं तु परित्यज्य सत्तैकात्मतया ततम् ।सामान्येनैव सत्ताया रूपमेकमुदाहृतम् ॥१०१॥विशेषं संपरित्यज्य सन्मात्रं यदलेपकम् ।एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥१०२॥रूपं नानाकृतित्वेन सत्ताया न कदाचन ।असंवेद्यं संभवति तस्मादेतदवस्तुकम् ॥१०३॥एकरूपं तु यद्रूपं सत्ताया विमलात्मकम् ।न कदाचन तद्याति नाशं नापि च विस्मृतिम् ॥१०४॥कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि ।विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ॥१०५॥कालसत्ता स्वसत्ता च प्रोन्मुक्तकलना सती ।यद्यप्युत्तमसद्रूपा तथाप्येषा न वास्तवी ॥१०६॥विभागकलना यत्र विभिन्नपददायिनी ।नानाताकारणं दृष्टा तत्कथं पावनं भवेत् ॥१०७॥सत्तासामान्यमेवैकं भावयत्सकलं वपुः ।परिपूर्णपरानन्दी तिष्ठाभरितदिग्भरः ॥१०८॥सत्ता सामान्यमात्रस्य या कोटिः कोविदेश्वर ।सैवास्य बीजतां याता तत एव प्रवर्तते ॥१०९॥सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् ।पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥११०॥सत्ता लयं याति यत्र निर्विकारं च तिष्ठति ।भूयो नावर्तते दुःखे तत्र लब्धपदः पुमान् ॥१११॥तद्धेतुः सर्वहेतूनां तस्य हेतुर्न विद्यते ।संसारः सर्वसाराणां तस्मात्सारं न विद्यते ॥११२॥तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥११३॥सर्वे भावा इमे तत्र स्वदन्ते साधुवारिधेः ।षड्रसा इव जिह्वायाः प्रकटत्वं प्रयान्ति च ॥११४॥तस्मादच्छतरस्यापि चिदाकाशस्य वै पदम् ।सर्वेषां स्वादुजातीनामलमास्वादनं च तत् ॥११५॥जायते वर्तते चैव वर्धते स्पृश्यतेऽथ वा ।तिष्ठन्ति च गलन्तीह तत्राङ्ग जगतां गणाः ॥११६॥तत्तद्गुरु गरिष्ठानां तत्तल्लघु लघीयसाम् ।तत्तत्स्थूलं स्थविष्ठानामणीयस्तदणीयसाम् ॥११७॥दवीयसां दविष्ठं तदन्तिकानां तदन्तिकम् ।कनीयसां कनीयस्तत्तज्ज्येष्ठं ज्यायसामपि ॥११८॥तेजसामपि तत्तेजस्तमसामपि तत्तमः ।वस्तूनामपि तद्वस्तु दिशामप्यङ्ग दिक्परा ॥११९॥तन्न किंचिच्च किंचिच्च तत्तदस्तीव नास्ति च ।तत्तद्दृश्यमदृश्यं च तत्तदस्मि न चास्मि च ॥१२०॥राम सर्वप्रयत्नेन तस्मिन्परमपावने ।पदे स्थितिमुपायासि यथा कुरु तथानघ ॥१२१॥तदमलमजरं तदात्मतत्त्वंतदवगतावुपशान्तिमेति चेतः ।अवगतविततैकतत्स्वरूपोभवभयमुक्तपदोऽसि तच्चिराय ॥१२२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे संसृतिबीजविचारयोगोपदेशो नामैकनवतितमः सर्गः ॥९१॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP