संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ४७ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ४७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।मुहूर्तद्वितयेनाथ गाधिराधिभवभ्रमात् ।प्रशशासाकुलीभावो वेलावर्त इवाम्बुधेः ॥१॥मनोनिर्माणसंमोहात्तस्मात्स विरराम ह ।कल्पान्तसमये ब्रह्मा जगद्विरचनादिव ॥२॥बोधमाप शनैः शान्तः स्वमेवोन्निद्रधीरिव ।क्षीबतायां प्रशान्तायां यथा परिणताशयः ॥३॥अयं सोऽहमिदं कार्यमिदं नेति ददर्श ह ।निशाव्यपगमे लोको यथा क्षीणे तमःपटे ॥४॥स्मृतस्वरूपोऽथ पदमुद्दध्रे स जलान्तरात् ।शिशिरान्ते प्रवृत्तास्यं सरोजमिव माधवः ॥५॥एतद्वारिककुबूव्योमवतीं वसुमतीमिमाम् ।अन्यामिव पुनः पश्यन्विस्मयं परमं ययौ ॥६॥कोऽहं किमिव पश्यामि किमकार्षमहं किल ।एवं विचारयंश्चित्रं सभ्रूभङ्गमभूत्क्षणम् ॥७॥श्रान्तस्तत्क्षणमात्रेण संभ्रमं दृष्टवानहम् ।इति विज्ञाय सलिलादुदस्थादुदयार्कवत् ॥८॥चिन्तयामास च तटे क्व सा माता क्व सा प्रिया ।यदाहं मृतिमायातो मध्ये मातृमहेलयोः ॥९॥बालस्य मातापितरौ नष्टौ किल ममामतेः ।वातनीतस्य पत्रस्य वल्लीवृक्षमिवासिना ॥१०॥अविवाहोऽस्मि जानामि न स्वरूपमपि स्त्रियः ।दुष्टायाः क्षोभकारिण्या मदिराया इव द्विजः ॥११॥अतिदूरतरीभूताः स्वदेशस्य स्वबान्धवाः ।के नाम मम येषां ते मध्ये जीवं त्यजाम्यहम् ॥१२॥तस्मादेतत्समुद्भूतमहं किं नाम दृष्टवान् ।विविधारम्भसंरम्भं गन्धर्वनगरं यथा ॥१३॥तदास्तामेतदेषा हि बन्धुमध्ये मृतस्थितिः ।मायामोहे मनागस्मिन्न सत्यमुपलभ्यते ॥१४॥नित्यमेवमनन्तासु भ्रान्तिदृष्टिषु देहिनाम् ।चेतो भ्रमति शार्दूलो वनराजिष्विवोन्मदः ॥१५॥अवधार्येति तं चित्ते मोहं गाधिर्निनाय सः ।दिनानि कतिचित्तस्मिन्स्वक एवाश्रमे तदा ॥१६॥एकदा गाधिमगमत्कश्चित्तत्र प्रियोऽतिथिः ।ब्रह्माणमिव दुर्वासाः स विशश्राम सश्रमः ॥१७॥परमां तुष्टिमानीतः फलपुष्परसाशनैः ।सोऽतिथिर्गाधिना तेन वसन्तेनेव पादपः ॥१८॥मिथो वन्दितसंध्यौ तौ कृतजाप्यावुभावपि ।क्रमाच्छयनमासाद्य तस्थतुर्मृदुपल्लवम् ॥१९॥ततः प्रावर्तते शान्ता तयोस्तापसयोः कथा ।स्वव्यापारोचिता पुष्पश्रीरिवर्तुत्वमाशयोः ॥२०॥तं पप्रच्छातिथिं गाधिः प्रसङ्गपतितं वचः ।किं ब्रह्मन्सुकृशाङ्गस्त्वं किमिति श्रमवानसि ॥२१॥अतिथिरुवाच ।ममातिकार्श्यश्रमयोर्भगवन् श्रृणु कारणम् ।कथयामि तथाभूतं वयं नासत्यवादिनः ॥२२॥अस्त्यस्मिन्वसुधापीठे उत्तराशानिकुञ्जके ।कीरो नामातिविख्यातः श्रीमाञ्जनपदो महान् ॥२३॥तत्राहमवसं मासं पूज्यमानः पुरे जनैः ।नानात्मस्वादलोलात्मा चित्तवेतालमोहितः ॥२४॥एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित् ।इहाभूच्छ्वपचो राजा वर्षाण्यष्टौ द्विजेति मे ॥२५॥ततो ग्रामेषु तत्पृष्टैः प्रोक्तं सकलजन्तुभिः ।राजा बभूव श्वपचो वर्षाण्यष्टाविहेति तैः ॥२६॥सोऽयमन्ते परिज्ञातः प्रविष्टो ज्वलनं जवात् ।ततो द्विजशतानीह प्रविष्टानि हुताशनम् ॥२७॥इति तेषां मुखाच्छ्रुत्वा तस्मान्निर्गत्य मण्डलात् ।प्रयागेऽकरवं शुद्ध्यै प्रायश्चित्तमहं द्विज ॥२८॥कृत्वा चान्द्रायणस्यान्ते तृतीयस्याद्य पारणम् ।इहाहमागतस्तेन श्रान्तोस्म्यतिकृशोस्मि च ॥२९॥श्रीवसिष्ठ उवाच ।इति श्रुतवता तेन गाधिना स तदा द्विजः ।भूयः पृष्टोऽप्येतदेव कथयामास नान्यथा ॥३०॥अथ विस्मयवान्गाधिस्तां नीत्वा तत्र शर्वरीम् ।जगद्गेहमहादीपे रवावुदयमागते ॥३१॥कृतप्रातःस्नानविधावापृच्छय स्वातिथौ गते ।इदं संचिन्तयामास विस्मयोद्धुरया धिया ॥३२॥यन्मया संभ्रमे दृष्टं सत्यभूतं द्विजेन तत् ।उक्तं ममेति किं नाम स्यान्मायाशम्बरक्रमः ॥३३॥यद्बन्धुमध्ये मरणं मया तद्दृष्टमात्मनः ।सा मायैव न संदेहः शेषं पश्यामि तस्य तम् ॥३४॥तदात्मश्वपचोदन्तं द्रष्टुं तावदखिन्नधीः ।भूतमण्डलपर्यन्तग्रामं गच्छामि सत्वरम् ॥३५॥इति संचिन्तयन्गन्तुं मण्डलान्तरमादरात् ।उत्तस्थौ भास्करः पार्श्वं मेरोर्द्रष्टुमिवोद्यतः ॥३६॥मनोराज्यमपि प्राज्ञा लभन्ते व्यवसायिनः ।गाधिना स्वप्नसंदृष्टं गत्वा लब्धमखण्डितम् ॥३७॥सर्वमध्यवसायेन दुष्प्रापमपि लभ्यते ।पश्यन्गाधिर्जगन्मायां प्रमेयीकर्तुमुद्यतः ॥३८॥विनिर्गत्याभवन्मार्गे प्रावृडोघजवेन सः ।देशानुल्लंघयामास बहून्वाततुरङ्गवत् ॥३९॥तच्चेदृशनिजाचारं भूतमण्डलमागतः ।करभः कण्टकार्थ्येकः कारञ्जमिव काननम् ॥४०॥तत्र संवित्स्थितेनैव संनिवेशेन वै पुनः ।अपश्यद्भ्रामकं कंचिद्गन्धर्व इव पत्तनम् ॥४१॥ददर्श तस्य पर्यन्ते तमेव श्वपचालयम् ।अधस्ताद्भूवनस्येव पाताले नरकव्रजम् ॥४२॥चित्तचिन्तितविस्तारं तन्निवेशमयं परम् ।गन्धर्ववदसावात्मश्वपचत्वं च दृष्टवान् ॥४३॥तेनैव संनिवेशेन प्राग्दृष्टं श्वपचास्पदम् ।तस्य कामपि वैराग्यपदवीमनयन्मनः ॥४४॥प्रावृडासारलुठितं भित्तिजातयवाङ्कुरम् ।पर्यस्तच्छादनार्धाङ्कं किंचिदादृष्टतल्पकम् ॥४५॥दारिद्र्यं तद्दृढमिव दौर्भाग्यमिव कुड्यमत् ।भ्रष्टाङ्गमिव दौरात्म्यं दौःस्थित्यमिव खण्डितम् ॥४६॥गाधिर्दन्तावदलितैर्गवाश्वमहिषास्थिभिः ।धवलैर्व्याप्तपर्यन्तं साक्ष्यं कर्तुमिव स्थितैः ॥४७॥भुक्तं पीतं पुरा तेन येषु खर्परकेषु वै ।तैरस्पन्दाभ्रसलिलैः पानपूर्णैरिवावृतम् ॥४८॥ताभिरेवान्त्रतन्त्रीभिः संशुष्काभिलतावृतैः ।तृष्णाभिरिव दीर्घाभिः परितः परिवेष्टितम् ॥४९॥चिरमालोकयामास स तदात्मगृहं जवात् ।प्राक्तनं शुष्कशवतां यातं देहमिवात्मवान् ॥५०॥अतिविस्मयमातस्थौ ग्रामकं समुपाययौ ।उल्लंघ्य म्लेच्छनगरमार्यदेशमिवाध्वगः ॥५१॥तत्रापृच्छज्जनं साधो कच्चित्स्मरति भो भवान् ।प्राग्वृत्तमस्य ग्रामस्य पर्यन्ते श्वपचक्रमम् ॥५२॥सर्व एव हि धीमन्तश्चिरवृत्तमपि स्फुटम् ।करस्थमिव पश्यन्ति मयेति सुजनाच्छ्रुतम् ॥५३॥अत्र श्वपचमेकान्ते वासिनं वृद्धमुत्तमम् ।स्मरस्येनं किमुत भो दुःखानामिव देहकम् ॥५४॥यदि जानासि भोः साधो तन्मे कथय तत्त्वतः ।पान्थ संशयविच्छेदे महत्पुण्यफलं स्मृतम् ॥५५॥भूयो भूय इति ग्राम्याः पृष्टा गाधिद्विजन्मना ।अनल्पस्मयसंरम्भमार्तेनेव चिकित्सकाः ॥५६॥ग्राम्या ऊचुः ।यथा कथयसि ब्रह्मंस्तत्तथा न तदन्यथा ।कटंजनामा श्वपच इहाभूद्दारुणाकृतिः ॥५७॥पुत्रपौत्रसुहृद्भृत्यबन्धुस्वजनपेटकम् ।यस्यातिविस्तीर्णमभूत्पत्रवृन्दं तरोरिव ॥५८॥यस्य वृद्धस्य तत्सर्वं कलत्रं मृत्युराच्छिनत् ।अद्रेः पुष्पफलोपेतं दावो वनमिवानलः ॥५९॥यस्ततो देशमुत्सृज्य ययौ कीरपुरान्तरम् ।वर्षाण्यष्टावनुद्वेगं तत्र राजा बभूव सः ॥६०॥यस्तत्रार्थं परिज्ञाय जनैर्दूरे निराकृतः ।यथा राशिरनर्थस्य यथा ग्रामे विषद्रुमः ॥६१॥ततो जनेऽग्निं प्रविशत्यात्मना यो हुताशनम् ।आर्यतामार्यसंसर्गादागतः प्रविवेश ह ॥६२॥किं त्वमेव प्रयत्नेन श्वपचं पृच्छसि प्रभो ।किं ते बन्धुरसौ कच्चिदभवस्त्वं स्वतोऽथवा ॥६३॥एवं कथयतो ग्राम्यान्गाधिः पृच्छन्पुनःपुनः ।सर्वेषु तत्र प्रान्तेषु मासमेकमुवास सः ॥६४॥यथा तेनानुभूतं तच्छवापचं तत्तथैव तैः ।ग्रामीणैस्तस्य कथितं सर्वैरेवावखण्डितम् ॥६५॥अव्याहतं सकलभूतमुखादथैत-दाकर्ण्य सम्यगवलोक्य यथानुभूतम् ।गाधिः शशाङ्कमलवद्हृदयेऽधिरूढंगूढाकृतिः परमविस्मयमाजगाम ॥६६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते प्रत्यक्षावलोकनं नाम सप्तचत्वारिंशः सर्गः ॥४७॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP