संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५४ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskritthayogavasisयोगवासिष्ठसंस्कृत सर्गः ५४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति निर्णीय ततया धिया धवलया मुनिः ।बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः ॥१॥ओमित्येतत्परं ब्रह्म निर्णीय स मुनिस्तदा ।ॐकारोच्चारितो येन तेनाप्तं परमं पदम् ॥२॥ॐकारमकरोत्तारस्वरमूर्ध्वगतध्वनिम् ।सम्यगाहतलाङ्गूलं घण्टाकुण्डमिवारवम् ॥३॥ओमुच्चारयतस्तस्य संवित्तत्त्वे तदुन्मुखे ।यावदोंकारमूर्धस्थे वितते विमलात्मनि ॥४॥सार्धत्र्यंशात्ममात्रस्य प्रथमेंऽशे स्फुटारवे ।प्रणवस्य समाक्षुब्धप्राणारणितदेहके ॥५॥रेचकाख्योऽखिलं कायं प्राणनिष्क्रमणक्रमः ।रिक्तीचकार पीताम्बुरगस्त्य इव सागरम् ॥६॥अतिष्ठत्प्राणपवनश्चिद्रसापूरिताम्बरे ।त्यक्तदेहः परित्यक्तनीडः खग इवाम्बरे ॥७॥हृदयाग्निर्ज्वलज्ज्वालो ददाह निखिलं वपुः ।उत्पातपवनोद्भूतो दावः शुष्कमिव द्रुमम् ॥८॥यावदित्थमवस्थैषा प्रणवप्रथमक्रमे ।बभूव न हठादेव हठयोगो हि दुःखदः ॥९॥अथेतरांशावसरे प्रणवस्य समस्थितौ ।निष्कम्पकुम्भको नाम प्राणानामभवत्क्रमः ॥१०॥न बहिर्नान्तरे नाधो नोर्ध्वं नाशासु तत्र ते ।संक्षोभमगमन्प्राणा आपः संस्तम्भिता इव ॥११॥दग्धदेहपुरो वह्निः शशामाशनिवत्क्षणात् ।अदृश्यत सितं भस्म शारीरं हिमपाण्डुरम् ॥१२॥यत्र कर्पूरशय्यायां सुप्तानीव सुखोचितम् ।शरीरास्थीनि लक्ष्यन्ते निष्पन्दानि सितानि च ॥१३॥तद्भस्म पवनानीतं सास्थि वायुरयोजयत् ।स्वदेहे भृशमुत्सन्ने त्रिनेत्रव्रतवानिव ॥१४॥तच्चण्डपवनोद्धूतमावृत्त्य गगनं क्षणात् ।शरदीवाभ्रमिहिका क्वापि भस्मास्थिमद्ययौ ॥१५॥यावदित्थमवस्थैषा प्रणवस्यापरे क्रमे ।बभूव न हठादेव हठयोगो हि दुःखदः ॥१६॥ततस्तृतीयावसरे प्रणवस्योपशान्तिदे ।पूरणप्रपूरको नाम प्राणानामभवत्क्रमः ॥१७॥अस्मिन्नवसरे प्राणाश्चेतनामृतमध्यगाः ।व्योम्नि शीतलतामीयुर्हिमसंस्पर्शसुन्दरीम् ॥१८॥क्रमाद्गगनमध्यस्थाश्चन्द्रमण्डलतां ययुः ।धूमा गगनकोशस्थाः शीतलाम्बुदतामिव ॥१९॥कलाकलापसंपूर्णे ते तस्मिंश्चन्द्रमण्डले ।पुण्यराशाविवापूर्णे रसायनमहार्णवे ॥२०॥रसायनमया धाराः संपन्नाः प्राणवायवः ।मणियष्टिसमाकारा जालेष्विन्दोरिवांशवः ॥२१॥सा पपाताम्बराद्धारा शेषे शारीरभस्मनि ।रसायनी हरशिरःपतितेव सुरापगा ॥२२॥उदभूदिन्दुबिम्बाभं चतुर्बाहुवपुस्तया ।प्रस्फुरन्मन्दरादब्धेः पारिजात इव द्रुमः ॥२३॥उद्दालकशरीरं तन्नारायणतयोदितम् ।प्रफुल्लनेत्रवक्त्राब्जमाबभौ दीप्तिसुन्दरम् ॥२४॥रसायनमयाः प्राणास्तच्छरीरमपूरयन् ।सलिलौघा इव सरो वृक्षं मधुरसा इव ॥२५॥अन्तःकुण्डलिनीं प्राणाः पूरयामासुरादृताः ।चक्रानुवर्तप्रसृतां पयांसीव सरिद्वराम् ॥२६॥प्रकृतस्थं बभूवास्य तच्छरीरं द्विजन्मनः ।प्रावृट्शरीरविगमे धौतं तलमिवावनेः ॥२७॥अथ पद्मासनगतः कृत्वा देहे स्थितिं दृढम् ।आलान इव मातङ्गं निबद्ध्येन्द्रियपञ्चकम् ॥२८॥निर्विकल्पसमाध्यर्थं व्यवसायमुपाददे ।स्वभावं स्वच्छतां नेतुं शरत्काल इवामलम् ॥२९॥प्रशान्तवातहरिणमाशादिगणगामिनम् ।चिन्तया हृदयं निन्ये दूराद्रज्ज्वेव कीलकम् ॥३०॥धावमानमधो मत्तं चित्तं विमलमाकुलम् ।बलात्संरोधयामास सेतुर्जलमिव द्रुतम् ॥३१॥निमिमील दृशावर्धं परिपक्ष्मलपक्ष्मके ।निस्पन्दतारामधुरे संध्याकाल इवाम्बुजे ॥३२॥सौम्यतामनयन्मौनी प्राणापानजवं मुखे ।श्वसनं श्रेयसे देशे प्रशस्तः समयो यथा ॥३३॥तिलेभ्य इव तैलानि पृथक् चक्रे प्रयत्नतः ।इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मोऽङ्गानीव गोपयन् ३४बाह्यस्पर्शानशेषेण जहौ दूरे स धीरधीः ।सहसा कुण्डकच्छन्नो मणिर्दूरत्विषो यथा ॥३५॥विलीनानान्तरांश्चक्रे स्पर्शानुज्झितदर्शनात् ।रसान्विटपकोशस्थान्मार्गशीर्ष इव द्रुमः ॥३६॥रुरोध गुदसंकोच्चान्नवद्वारानिलानथ ।मुखसंस्थगितः कुम्भो रन्ध्रकोशानिवेतरान् ॥३७॥स्वात्मरत्नप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छिताम् ।दधार कन्धरां धीरो मेरुः शृङ्गशिखामिव ॥३८॥बभार हृदयाकाशे मनः संयममागतम् ।विन्ध्यखात इवोन्मत्तं गजं युक्तिवशीकृतम् ॥३९॥शरन्नभोवदासाद्य निर्मलामतिसौम्यताम् ।जहार परिपूर्णाब्धेर्निर्वातस्याचलां श्रियम् ॥४०॥दुधावातिविकल्पौघान्प्रतिभासमुपेयुषः ।पुरः परिस्फुरद्रूपान्मशकानिव मारुतः ॥४१॥आगच्छतो यथाकामं प्रतिभासान्पुनः पुनः ।अच्छिनन्मनसा शूरः खङ्गेनेव रणे रिपून् ॥४२॥विकल्पौघे परालूने सोऽपश्यद्धदयाम्बरे ।तमच्छन्नविवेकार्कं लोलकज्जलमेचकम् ॥४३॥तमप्युन्मार्जयामास सम्यक्स्वान्तविवस्वता ।सम्यग्ज्ञानोदितेनाशु पवनेनेव कज्जलम् ॥४४॥तमस्युपरते कान्तं तेजःपुञ्जं ददर्श सः ।शार्वरे तिमिरे शान्ते प्रातःसंध्यामिवाम्बुजम् ॥४५॥तल्लुलाव स्थलाब्जानां वनं बाल इव द्विपः ।अपिबच्चाप्यसृक्पूरं वेताल इव वेगतः ॥४६॥तेजस्युपरते तस्य घूर्णमानं मनो मुनेः ।निशाब्जवदगान्निद्रा लोलं क्षीबवदेव वा ॥४७॥मेघमालामिव मरुद्व्यालो नीलाब्जिनीमिव ।यामिनीमिव तीक्ष्णांशुस्तामप्याशु लुलाव सः ॥४८॥निद्राव्यपगमे तस्य भावयामास तन्मनः ।व्योमश्यामलदृग्जन्तुर्नभसीव शिखण्डकान् ॥४९॥पयोद इव तापिच्छं नीहारमिव मारुतः ।दीपस्तम इवाच्छात्म तदप्याशु ममार्ज सः ॥५०॥व्योमसंविदि नष्टायां मूढं तस्याभवन्मनः ।निद्रायां तु विलीनायां मैरेयमदवानिव ॥५१॥मोहमप्येष मनसस्तं ममार्ज महाशयः ।यामिनीजनितं जाड्यं भुवनादिव भास्करः ॥५२॥ततस्तेजस्तमोनिद्रामोहादिपरिवर्जितम् ।कामप्यवस्थामासाद्य विशश्राम मनः क्षणम् ॥५३॥विश्रम्याशु पपाताङ्ग संविदं विश्वरूपिणीम् ।सेतुरुद्धं सरोवारि प्रतीपं स्वमिवास्पदम् ॥५४॥चिरानुसंधानवशात्स्वदनाच्च स्वसंविदः ।ततश्चिन्मयतामागाद्धेम नूपुरतामिव ॥५५॥चित्तत्वमथ संत्यज्य चित्तं चित्तत्त्वतां गतम् ।अन्यदेव बभूवाशु पङ्कः कुम्भस्थितो यथा ॥५६॥चेत्यं संत्यज्य चिच्छुद्धा चित्सामान्यमथाययौ ।त्यक्तवीच्यादिभेदोऽब्धिर्वाःसामान्यमिवैकधीः ॥५७॥त्यक्तभूतौघमननं ततो विश्वंभरं महत् ।चिदाकाशं ततः शुद्धं सोऽभवद्बोधमागतः ॥५८॥तत्र प्रापदथानन्दं दृश्यदर्शनवर्जितम् ।अनन्तमुत्तमास्वादं रसायनमिवार्णवम् ॥५९॥शरीरात्समवेतोऽसौ कामप्यवनिमागतः ।सत्तासामान्यरूपात्मा बभूवानन्दसागरः ॥६०॥द्विजचेतनहंसोऽसावानन्दसरसि स्थितः ।अतिष्ठच्छरदच्छे खे कलापूर्ण इवोडुपः ॥६१॥बभूवावातदीपाभो लिपिकर्मार्पितोपमः ।वीतवीच्यम्बुधिप्रख्यो वृष्टमूकाम्बुदस्थितिः ॥६२॥अथैतस्मिन्महालोके तिष्ठन्नुद्दालकश्चिरम् ।अपश्यद्व्योमगान्सिद्धानमरानपि भूरिशः ॥६३॥आगतानि विचित्राणि सिद्धिजालानि चाभितः ।शक्रार्कपददातॄणि नीरन्ध्राण्यप्सरोगणैः ॥६४॥तानि नादरयांचक्रे सिद्धिवृन्दानि स द्विजः ।गम्भीरमतिरक्षुब्धो विलासानिव शैशवान् ॥६५॥सिद्धिसार्थमनादृत्य तस्मिन्नानन्दमन्दिरे ।अतिष्ठदथ षण्मासान्दिक्तटेऽर्क इवोत्तरे ॥६६॥जीवन्मुक्तपदं तत्तद्यावत्संप्राप्तवान्द्विजः ।तत्र सिद्धाः सुराः साध्याः स्थिता ब्रह्महरादयः॥६७॥आनन्दे परिणामित्वादनानन्दपदं गतः ।नानन्दे न निरानन्दे ततस्तत्संविदाबभौ ॥६८॥क्षणं वर्षसहस्रं वा तत्र लब्ध्वा स्थितिं मनः ।रतिमेति न भोगौघे दृष्टस्वर्ग इवावनौ ॥६९॥तत्पदं सा गतिः शान्ता तच्छ्रेयः शाश्वतं शिवम् ।तत्र विश्रान्तिमाप्तस्य भूयो नो बाधते भ्रमः ॥७०॥तत्पदं साधवः प्राप्य दृश्यदृष्टिमिमां पुनः ।नायान्ति खदिरोद्यानं लब्धचैत्ररथा इव ॥७१॥तां महानन्दपदवीं चित्तादासाद्य देहिनः ।दृश्यं न बहु मन्यन्ते राजानो दीनतामिव ॥७२॥चेतस्तत्पदविश्रान्तं बुद्धं दृश्यदशां प्रति ।कदर्थाद्बोधमायाति नायात्येवाथवानघ ॥७३॥उद्दालकोऽत्र षण्मासान्दूरोत्सारितसिद्धिभूः ।उषित्वोन्मिषितोम्भोदकोशादर्को मधाविव ॥७४॥ददर्श संप्रबुद्धात्मा पुनः परमतेजसः ।प्रणामलालसाः स्निग्धाश्चन्द्रविम्बवपुर्धराः ॥७५॥रमणीर्गौरमन्दाररेणुभ्रमरचामराः ।स्फुरत्पताकापटला द्युविमानपरम्पराः ॥७६॥अस्मदादीन्मुनीन्दर्भपवित्राङ्ककराम्बुजान् ।विद्याधरीभिर्वलितान्विद्याधरपतीनपि ॥७७॥ते तमूचुर्महात्मानमुद्दालकमुनिं तथा ।प्रसादेन प्रणामान्नो भगवन्नवलोकय ॥७८॥आरुह्येदं विमानं त्वमेहि त्रैविष्टपं पुरम् ।स्वर्ग एव हि सीमान्तो जगत्संभोगसंपदाम् ॥७९॥आकल्पमुचितान्भुङ्क्ष्व भोगानभिमतान्विभो ।स्वर्गादिफलभोगार्थमेवाशेषतपःक्रियाः ॥८०॥हारचामरधारिण्यो विद्याधरवराङ्गनाः ।पश्येमास्त्वमुपासीनाः करिण्यः करिणं यथा ॥८१॥कामो धर्मार्थयोः सारः कामसाराः सुयोषितः ।वसन्त इव मञ्जर्यः स्वर्ग एव भवन्ति ताः ॥८२॥एवं कथयतः सर्वानतिथीनित्यसौ मुनिः ।परिपूज्य यथान्यायमतिष्ठद्गतसंभ्रमम् ॥८३॥नाभ्यनन्दन्न तत्याज तां विभूतिं स धीरधीः ।भो सिद्धा व्रजतेत्युक्त्वा स्वव्यापारपरोऽभवत् ॥८४॥अथ स्वधर्मनिरतं भोगेष्वरतिमागतम् ।तमुपास्य ययुः सिद्धा दिनैः कतिपयैः स्वयम् ॥८५॥जीवन्मुक्तः स च मुनिर्विजहार यथासुखम् ।यावदिच्छं वनान्तेषु मुनीनामाश्रमेषु च ॥८६॥मेरुमन्दरकैलासहिमवद्विन्ध्यसानुषु ।द्वीपोपवनदिक्कुञ्जजङ्गलारण्यभूमिषु ॥८७॥ततःप्रभृति संप्राप्तपदमुद्दालको द्विजः ।गुहासु गिरिकुक्षीणामवसद्ध्यानलीलया ॥८८॥कदाचिदह्ना मासेन कदाचिद्वत्सरेण च ।कदाचिद्वत्सरौघेण ध्यानासक्तो व्यबुध्यत ॥८९॥उद्दालकस्तदारभ्य व्यवहारपरोऽपि सन् ।सुसमाहित एवासौ चित्तत्त्वैकत्वमागतः ॥९०॥चित्तत्त्वैकघनाभ्यासान्महाचित्त्वमुपेत्य सः ।बभूव सर्वत्र समस्तेजः सौरमिवावनौ ॥९१॥चित्सामान्यचिराभ्यासात्सत्तासामान्यमेत्य सः ।दृश्येऽस्मिंश्चित्ररविवन्नास्तमायान्न चोदयम् ॥९२॥शमपरपदलाभप्राप्तिसंशान्तचेतागलितजननपाशः क्षीणसंदेहदोलः ।शरदि खमिव शान्तं व्याततं चोर्जितं चस्फुटममलमचेतस्तद्वपुः संबभार ॥९३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकविश्रान्तिर्नाम चतुःपञ्चाशः सर्गः ॥५४॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP