संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ६४ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ६४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।सुरघुः परिघश्चैव विचार्येति जगद्भ्रमम् ।मिथः प्रपूजितौ तुष्टौ स्वव्यापारपरौ गतौ ॥१॥तदेव राघव श्रुत्वा परमं बोधकारणम् ।अनेनैव विबोधेन भव लब्धास्पदः स्फुटम् ॥२॥परया प्रज्ञया धीरविचारगततीक्ष्णया ।गलत्यलमहंकारकालमेघे हृदम्बरे ॥३॥समस्तलोकानुमते सफले ह्लादकारिणि ।निर्मले वितते चेतः शरत्काल उपस्थिते ॥४॥ध्येये शरण्ये सुगमे सकलानन्दसंपदि ।सुप्रसन्ने चिदाकाशे स्थीयते परमात्मनि ॥५॥यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी ।नित्यं चिदनुसंधानो मनःशोकैर्न बाध्यते ॥६॥व्यवहारपरोऽत्युच्चै रागद्वेषमयोऽपि सन् ।नान्तःकलङ्कमायाति पद्मो जलगतो यथा ॥७॥सम्यग्विज्ञानवान्शुद्धो योऽन्तःशान्तमना मुनिः ।न बाध्यते स मनसा करिणेव मृगाधिपः ॥८॥भोगैकशरणं दीनं न चित्तं ज्ञस्य विद्यते ।नन्दने दुर्द्रुम इव ज्ञचित्तं हि महावपुः ॥९॥विरक्तो जन्ममरणे यथा दुःखी न मानवः ।परिज्ञाताखिलाविद्यं तथा चित्तं न दुःखितम् ॥१०॥परिज्ञातमनोमोहो जगद्भावोद्भवात्मना ।स्पृश्यते नैनसा साधो रजसेव नभस्तलम् ॥११॥अविद्यासंपरिज्ञातमिदमेव महौषधम् ।अविद्याविततव्याधेस्तिमिरस्येव दीपकम् ॥१२॥अविद्या संपरिज्ञाता यदैव हि तदैव हि ।सा परिक्षीयते भूयः स्वप्नेनेव हि भोगभूः ॥१३॥व्यवहारपरोऽप्यन्तरसक्तमतिरेकधीः ।स्पृश्यते नैनसा साधुर्मत्स्येक्षणमिवाम्भसा ॥१४॥प्राप्ते चिद्भासुरालोके प्रक्षीणाऽज्ञानयामिनी ।शेमुषी परमानन्दमागता ज्ञस्य राजते ॥१५॥अज्ञाननिद्रोपशमे जनो ज्ञानार्कबोधितः ।तत्प्रबोधमवाप्नोति पुनर्येन न मुह्यति ॥१६॥दिनानि जीव्यते तानि सानन्दास्ते क्रियाक्रमाः ।आत्मचन्द्रोदिता येषु चिज्ज्योत्स्ना हृदयाम्बरे ॥१७॥नरो मोहसमुत्तीर्णः सततं स्वात्मचिन्तया ।अन्तःशीतलतामेति स्वामृतेनेव चन्द्रमाः ॥१८॥तानि मित्राणि शास्त्राणि तानि तानि दिनानि च ।विरागोल्लासवान्येभ्य आत्मचित्तोदयः स्फुटम् ॥१९॥चिरं शोचन्ति ते दीना जन्मजङ्गलवीरुधः ।आत्मावलोकने हेला येषामविगतैनसाम् ॥२०॥आशापाशशतैर्बद्धं भोगोलपसुलालसम् ।जराजर्जरिताकारं शोकोच्छ्वासकदर्थितम् ॥२१॥व्यूढदुःखमहाभारं जन्मजङ्गलजीवितम् ।कुकर्मकर्दमालिप्तं मोहपल्वलशायिनम् ॥२२॥रागदंशावलीदष्टं कृष्टं तृष्णावरत्रया ।मनोवणिङनिकेतस्थं बन्धुबन्धननिश्चलम् ॥२३॥पुत्रदारजराजीर्णे मग्नोन्मग्नं कुकर्दमे ।श्रान्तं विगतविश्रामं भग्नमादीर्घवर्त्मनि ॥२४॥गमागमपरिक्षीणं संसारारण्यचारिणम् ।अलब्धशीतलच्छायं तीव्रतापोपतापितम् ॥२५॥आकारभासुरं दीनं बाह्यैराक्रान्तमिन्द्रियैः ।कर्मघण्टारवाक्रान्तं क्रान्तं दुष्कृतताडनैः ॥२६॥आविर्भावतिरोभावचक्रावर्तधुरोद्वहम् ।अज्ञानविकटाटव्यां लुठितं सन्नगात्रकम् ॥२७॥निजानर्थसदामग्नं सीदमानमकिंचनम् ।सन्नाङ्गं कर्मभारेण करुणाक्रन्दकारिणम् ॥२८॥राम जीवबलीवर्दमिमं संसारपल्वलात् ।परमं यत्नमास्थाय चिरमुत्तारयेद्वलात् ॥२९॥तत्त्वावलोकनात्क्षीणे चित्ते नो जायते पुनः ।जीवः कदाचन तदा भवेत्तीर्णभवार्णवः ॥३०॥महानुभावसंपर्कात्संसारार्णवलङ्घने ।युक्तिः संप्राप्यते राम स्फुटा नौरिव नाविकात् ॥३१॥यस्मिन्देशमरौ तज्ज्ञो नास्ति सज्जनपादपः ।सफलः शीतलच्छायो न तत्र निवसेद्बुधः ॥३२॥स्निग्धशीतवचःपत्रे सच्छाये स्मितपुष्पके ।क्षणाद्विश्रम्यते राम भृशं सुजनचम्पके ॥३३॥तदभावे महामोहतापसंपत्तिदायिनि ।किंचिज्जातविवेकेन स्वप्तव्यं नेह धीमता ॥३४॥आत्मैव ह्यात्मनो बन्धुरात्मनात्मैवमुद्धरेत् ।नात्मानमवलेपेन जन्मपङ्कार्णवे क्षिपेत् ॥३५॥किमिदं कथमायातं किंमूलमिति किंक्षयम् ।देहदुःखमिति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः ॥३६॥न धनानि न मित्राणि न शास्त्राणि न बान्धवाः ।नराणामुपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ ॥३७॥मनोमात्रेण सुहृदा सदैव सहवासिना ।सह किंचित्परामृश्य भवत्यात्मा समृद्धृतः ॥३८॥वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना ।तत्त्वालोकनपोतेन तीर्यते भवसागरः ॥३९॥शोच्यमानं जनैर्नित्यं दह्यमानं दुराशया ।नात्मानमवमन्येत प्रोद्धरेदेनमादरात् ॥४०॥अहंकारमहालानं तृष्णारज्जुं मनोमदम् ।जन्मजम्बालनिर्मग्नं जीवदन्तिनमुद्धरेत् ॥४१॥अयमेतावतैवात्मा त्रातो भवति राघव ।यदपास्य विमूढत्वमहंकारः प्रमार्ज्यते ॥४२॥एतावतैव सन्मार्गे याति प्रकटतामलम् ।यदपास्य मनोजालमहंभावो विलूयते ॥४३॥एतावतैव देवेशः परमात्मावगम्यते ।काष्ठलोष्टसमत्वेन देहो यदवलोक्यते ॥४४॥अहंकाराम्बुदे क्षीणे दृश्यते चिद्दिवाकरः ।ततस्तत्परिणामेन तत्पदं समवाप्यते ॥४५॥यथा ध्वान्तसमुच्छेदे स्वयमालोकवेदनम् ।तथाहंकारविच्छेदे स्वयमात्मावलोकनम् ॥४६॥अहंकारे परिक्षीणे यावस्था सुखमोदजा ।सावस्था भरिताकारा सा सेव्या संप्रयत्नतः ॥४७॥परिपूर्णार्णवप्रख्या न वा गोचरमेति नः ।नोपमानमुपादत्ते नानुधावति रञ्जनम् ॥४८॥केवलं चित्प्रकाशांशकलिका स्थिरतां गता ।तुर्या चेत्प्राप्यते दृष्टिस्तत्तया सोपमीयते ॥४९॥अदूरगतसादृश्यात्सुषुप्तस्योपलक्ष्यते ।सावस्था भरिताकारा गगनश्रीरिवातता ॥५०॥मनोहंकारविलये सर्वभावान्तरस्थिता ।समुदेति परानन्दा या तनुः पारमेश्वरी ॥५१॥सा स्वयं योगसंसिद्धा सुषुप्तादूरभाविनी ।न गम्या वचसां राम हृद्येवेहानुभूयते ॥५२॥अनुभूतिं विना तत्त्वं खण्डादेर्नानुभूयते ।अनुभूतिं विना रूपं नात्मनश्चानुभूयते ॥५३॥अखिलमिदमनन्तमात्मतत्त्वंदृढपरिणामिनि चेतसि स्थितेऽन्तः ।बहिरुपशमिते चराचरात्मास्वयमनुभूयत एव देवदेवः ॥५४॥तदनु विषयवासनाविनाश-स्तदनु शुभः परमः स्फुटप्रकाशः ।तदनु च समतावशात्स्वरूपेपरिणमनं महतामचिन्त्यरूपम् ॥५५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषूपशमप्रकरणे उपदेशो नाम चतुःषष्टितमः सर्गः ॥६४॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP