संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ७९ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ७९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७९ Translation - भाषांतर श्रीराम उवाच ।योगयुक्तस्य चित्तस्य शम एव निरूपितः ।सम्यग्ज्ञानमिदानीं मे कथयानुग्रहात्प्रभो ॥१॥श्रीवसिष्ठ उवाच ।अनाद्यन्तावभासात्मा परमात्मेह विद्यते ।इत्येको निश्चयः स्फारः सम्यग्ज्ञानं विदुर्बुधाः ॥२॥इमा घटपटाकाराः पदार्थशतपङ्क्तयः ।आत्मैव नान्यदस्तीति निश्चयः सम्यगीक्षणम् ॥३॥असम्यग्वेदनाज्जन्म मोक्षः सम्यगवेक्षणात् ।असम्यग्वेदनाद्रज्जुः सर्पो नो सम्यगीक्षणात् ॥४॥संकल्पांशविनिर्मुक्ता संवित्संवेद्यवर्जिता ।संवित्त्याभिसमाख्याता मुक्तावस्तीह नेतरत् ॥५॥सा शुद्धरूपा विज्ञाता परमात्मेति कथ्यते ।शुद्धा त्वशुद्धरूपान्तरविद्येत्युच्यते बुधैः ॥६॥संवित्तिरेव संवेद्यं नानयोर्द्वित्वकल्पना ।चिनोत्यात्मानमात्मैव रामैवं नान्यदस्ति हि ॥७॥यथाभूतात्मदर्शित्वमेतावद्भुवनत्रये ।यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता ॥८॥सर्वमात्मैव कौ दिष्टौ भावाभावौ क्व च स्थितौ ।क्व बन्धमोक्षकलने किमन्यद्राम शोच्यते ॥९॥न चेत्यमन्यन्नो चित्तं ब्रह्मैवेदं विजृम्भते ।सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता ॥१०॥ब्रह्मेदं बृंहिताकारं वृहद्बृहदवस्थितम् ।ज्ञानादस्तमितद्वित्वं भवात्मैव त्वमात्मना ॥११॥सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् ।मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः ॥१२॥आदावन्ते च संशान्तं स्वरूपमविनाशि यत् ।वस्तु नामात्मनश्चैव तन्मयो भव राघव ॥१३॥परं व्योमेदमखिलं जगत्स्थावरजङ्गमम् ।सुखदुःखक्रमः कुत्र विज्वरो भव राघव ॥१४॥द्वैताद्वेतसमुद्भूतैर्जरामरणविभ्रमैः ।स्फुरत्यात्मभिरात्मैव चित्रैरम्ब्विव वीचिभिः ॥१५॥शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया ।यः स्थितस्तं क आत्मेहं भोगा बन्धयितुं क्षमाः ॥१६॥कृतस्फारविचारस्य मनोभोगादयोऽरयः ।मनागपि न भिन्दन्ति शैलं मन्दानिला इव ॥१७॥अविचारिणमज्ञानं मूढमाशापरायणम् ।निगिरन्तीह दुःखानि बका मत्स्यमिवाजलम् ॥१८॥जगदात्मैव सकलमविद्या नास्ति कुत्रचित् ।इति दृष्टिमवष्टभ्य सम्यग्रूपः स्थिरो भव ॥१९॥नानात्वमस्ति कलनासु न वस्तुतोऽन्त-र्नानाविधासु सरसीषु जलादि नान्यत् ।इत्येकनिश्चयमयः पुरुषो विमुक्तइत्युच्यते समवलोकितसम्यगर्थः ॥२०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सम्यग्ज्ञानलक्षणनिरूपणं नामैकोनाशीतितमः सर्गः ॥७९॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP