संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ९३ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ९३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।मनागपि विचारेण चेतसः स्वस्य निग्रहः ।मनागपि कृतो येन तेनाप्तं जन्मनः फलम् ॥१॥विचारकणिका यैषा हृदि स्फुरति पेलवा ।एषैवाभ्यासयोगेन प्रयाति शतशाखताम् ॥२॥किंचित्प्रौढविचारं तु नरं वैराग्यपूर्वकम् ।संश्रयन्ति गुणाः शुद्धाः सरः पूर्णमिवाण्डजः ॥३॥सम्यग्विचारिणं प्राज्ञं यथाभूतावलोकिनम् ।आसादयन्त्यपि स्फारा नाविद्याविभवा भृशम् ॥४॥किं कुर्वन्तीह विषया मानस्यो वृत्तयस्तथा ।आधयो व्याधयो वापि सम्यग्दर्शनसन्मतेः ॥५॥क्व भ्रमत्पवनापूरास्तडित्पटलपाटलाः ।पुष्करावर्तजलदा गृहीता बालमुष्टिभिः ॥६॥क्व नभोमध्यसंस्थेन्दुर्मुग्धैर्मणिसमुद्गकैः ।मुग्धयाऽङ्गनया बद्धो मुग्धेन्दीवरशङ्कया ॥७॥क्व कटप्रोच्चलद्भृङ्गमण्डलोत्पलशेखराः ।मुग्धस्त्रीश्वासमधुरैर्मशकैर्मथिता गजाः ॥८॥क्वेभमुक्ताफलोल्लासलसत्सन्नखपञ्जराः ।सिंहाः समरसंरब्धा हरिणैः प्रविमर्दिताः ॥९॥क्व विषोल्लासनिर्यासदग्धोन्नतवनद्रुमाः ।क्षुधिताजगराः क्षुब्धैर्निगीर्णा बालदर्दुरैः ॥१०॥क्व प्राप्तभूतिको धीरो ज्ञातज्ञेयो विवेकवान् ।आक्रान्तः किल विक्रान्तोविषयेन्द्रियदस्युभिः ॥११॥विचारधियमप्रौढां हरन्ति विषयारयः ।प्रचण्डपवनामृद्वीं कृत्तवृन्तां लतामिव ॥१२॥न विवेकलवं प्रौढं भंक्तुं शक्ता दुराशयाः ।कल्पक्षोभमहाधीरं शैलं मन्दानिला इव ॥१३॥अगृहीतमहापीठं विचारकुसुमद्रुमम् ।चिन्तावात्याविधुन्वन्ति नास्थिरस्थितिसुस्थितम् ॥१४॥गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।न विचारमयं चेतो यस्यासौ मृत उच्यते ॥१५॥किमिदं स्याज्जगत्किं स्याद्देहमित्यनिशं शनैः ।विचारयाध्यात्मदृशा स्वयं वा सज्जनैः सह ॥१६॥अन्धकारहरेणाशु विचारेण परं पदम् ।दृश्यते विमलं वस्तु प्रदीपेनेव भास्वता ॥१७॥ज्ञानेन सर्वदुःखानां विनाश उपजायते ।कृतालोकविलासेन तमसामिव भानुना ॥१८॥ज्ञाने प्रकटतां याते ज्ञेयं व्ययमुदेत्यलम् ।रवावभ्युदिते भूमावालोक इव निर्मलः ॥१९॥येन शास्त्रविचारेण ब्रह्मतत्त्वं प्रबुद्ध्यते ।तद्भानमुच्यते ज्ञेयादभिन्नमिव संस्थितम् ॥२०॥विचारोत्थात्मविज्ञानं ज्ञानमंग विदुर्बुधाः ।ज्ञेयं तस्यान्तरेवास्ति माधुर्यं पयसो यथा ॥२१॥सम्यग्ज्ञानसमालोकः पुमान्ज्ञेयमयः स्वयम्भवत्यापीतमैरेयः सदा मदमयो यथा ॥२२॥समं स्वरूपममलं ज्ञेयं ब्रह्म परं विदुः ।ज्ञानाभिगममात्रेण तत्स्वयं संप्रसीदति ॥२३॥ज्ञानवानुदितानन्दो न क्वचित्परिमज्जति ।जीवन्मुक्तो गतासङ्गः सम्राडात्मेव तिष्ठति ॥२४॥ज्ञानवान्हृद्यशब्देषु वीणावंशरवादिषु ।कामिन्याः कान्तगीतेषु संभोगमलिनेषु च ॥२५॥वसन्तमदमत्तानां षट्पदानां स्वनेषु च ।प्रावृट्प्रसरपुष्पेषु जलदस्तनितेषु च ॥२६॥उत्ताण्डवशिखण्डेषु केकाकलरवेषु च॥रणिताम्भोदखण्डेषु सारसक्वणितेषु च ॥२७॥कर्तर्यादिकरान्तेषु गम्भीरमुरजेषु च ।ततावनद्धसुषिरचित्रवाद्यस्वनेषु च ॥२८॥केषुचिन्न निबध्नाति रूक्षेषु मधुरेषु च ।रणितेषु रतिं राम पद्मेष्विव निशाकरः ॥२९॥ज्ञानवान्बालकदलीस्तम्भपल्लवपालिषु ।सुरगन्धर्वकन्याङ्गलतानन्दनकेलिषु ॥३०॥केषु क्वचिन्न बध्नाति स्वायत्तेष्वप्यसक्तधीः ।राम स्पर्शरतिं धीरो हंसो मरुमहीष्विव ॥३१॥ज्ञानवान्पिण्डखर्जूरकदम्बपनसादिषु ।मृद्वीकौर्वारुकाक्षोटबिम्बजम्बीरजातिषु ॥३२॥मदिरामधुमैरेयमाध्वीकासवभूमिषु ।दधिक्षीरघृतामिक्षानवनीतौदनादिषु ॥३३॥षड्रसेषु विचित्रेषु लेह्यपेयविलासिषु ।फलेष्वन्येषु मूलेषु शाकेष्वप्यामिषेषु च ॥३४॥केषुचिन्नानुबध्नाति तृप्तमूर्तिरसक्तधीः ।आस्वादनरतिर्विप्रः स्वशरीरलवेष्विव ॥३५॥ज्ञानवान्यमचन्द्रेन्द्ररुद्रार्कानिलसद्मसु ।मेरुमन्दरकैलाससह्यदर्दुरसानुषु ॥३६॥कौशेयदलजालेषु चन्द्रबिम्बकलादिषु ।कल्पपादपकुञ्जेषु देहशोभाविलासिषु ॥३७॥रत्नकाञ्चनकुड्येषु मुक्तामणिमयेषु च ।तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च ॥३८॥केषुचिद्दर्शनं श्रीमान्नाभिवाञ्छत्यसक्तधीः ।परिपूर्णमना मानी मौनी शत्रुषु चाचलः ॥३९॥ज्ञानवान्कुन्दमन्दारकह्लारकमलादिषु ।कुमुदोत्पलपुन्नागकेतक्यगुरुजातिषु ॥४०॥कदम्बचूतजम्ब्वाम्रकिंशुकाशोकशाखिषु ।जपातिमुक्तसौवीरबिम्बपाटलजातिषु ॥४१॥चन्दनागुरुकर्पूरलाक्षामृगमदेषु च ।काश्मीरजलवङ्गैलाकङ्कोलतगरादिषु ॥४२॥केषुचिन्न निबध्नाति सौगन्ध्यरतिमेकधीः ।समबुद्धिरविक्षोभो मद्यामोदेष्विव द्विजः ॥४३॥अब्धौ गुडगुडारावे प्रतिश्रुत्खस्वने गिरौ ।निनादे च मृगेन्द्राणां न क्षुभ्यति मनागपि ॥४४॥द्विषद्भेरीनिनादेन पटहारणितेन च ।कटुकोदण्डघोषेण न विभेति मनागपि ॥४५॥मत्तवारणबृंहासु वेतालकलनासु च ।पिशाचरक्षःक्ष्वेडासु मनागपि न कम्पते ॥४६॥अशनिस्वनघोषेण नगस्फोटरवेण च ।ऐरावणनिनादेन सम्यग्ध्यानी न कम्पते ॥४७॥वहत्क्रकचकाषेण सितासिदलनेन च ।शराशनिनिपातेन कम्पते न स्वरूपतः ॥४८॥नानन्दमेत्युपवने न खेदमुपगच्छति ।न खेदमेति मरुषु नानन्दमुपगच्छति ॥४९॥पूताङ्गारसमाकल्पसैकतेष्वपि धन्वसु ।पुष्पप्रकरसंछन्नमृदुशाद्वलभूमिषु ॥५०॥क्षुरधारासु तीक्ष्णासु शय्यासु च नवोत्पलैः ।उन्नताचलदेशेषु कूपकोशतलेषु च ॥५१॥शिलास्वर्कांशुरूक्षासु मृद्वीषु ललनासु च ।संपत्स्वापत्सु चोग्रासु रमणेषूत्सवेषु च ॥५२॥विहरन्नपि नोद्वेगी नानन्दमुपगच्छति ।अन्तर्मुक्तमना नित्यं कर्मकर्तेव तिष्ठति ॥५३॥अयःसंकुचिताङ्गासु नरकारण्यभूमिषु ।परस्परेरितानन्तकुन्ततोमरवृष्टिषु ॥५४॥न बिभेति न वादत्ते वैवश्यं न च दीनताम् ।समः स्वस्थमना मौनी धीरस्तिष्ठति शैलवत् ॥५५॥अपवित्रमपथ्यं च विषसिक्तं मलाद्यपि ।भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत् ॥५६॥बिम्बप्रतिविषाकल्कक्षीरेक्षुसलिलान्धसाम् ।असक्तबुद्धिस्तत्त्वज्ञो भवत्यास्वादने समः ॥५७॥मैरेयमदिराक्षीररक्तमेदोरसासवैः ।रूक्षास्थितृणकेशान्तैर्न हृष्यति न कुप्यति ॥५८॥जीवितस्यापि हर्तारं दातारं चैकरूपया ।दृशा प्रसादमाधुर्यशालिन्या परिपश्यति ॥५९॥स्थिरास्थिरशरीरेषु रम्यारम्येषु वस्तुषु ।न हृष्यति ग्लायति वा सदा समतयेद्धया ॥६०॥मुक्तास्थत्वादनास्थेयरूपत्वाज्जगतः स्थितौ ।नूनं विदितवेद्यत्वान्नीरागत्वात्स्वचेतसः ॥६१॥न कस्यचिन्नो कदाचिदक्षस्य विषयस्थितौ ।ददाति प्रसरं साधुराधिप्रोज्झितया धिया ॥६२॥अतत्त्वज्ञमविश्रान्तमलब्धात्मानमस्थितम् ।निगिरन्तीन्द्रियाण्याशु हरिणा इव पल्लवम् ॥६३॥उह्यमानं भवाम्भोधौ वासनावीचिवेल्लितम् ।निगिरन्तीन्द्रियग्राहा महाक्रन्दपरायणम् ॥६४॥विचारिणं भव्यपदं विश्रान्तधियमात्मनि ।न हरन्ति विकल्पौघा जलौघा इव पर्वतम् ॥६५॥सर्वसंकल्पसीमान्ते विश्रान्ता ये परे पदे ।तेषां लब्धस्वरूपाणां मेरुरेव तृणायते ॥६६॥जगज्जरत्तृणलवो विषं चामृतमेव च ।क्षणः कल्पसहस्रं च सममाततचेतसाम् ॥६७॥संविन्मात्रं जगदिति मत्वा मुदितबुद्धयः ।संविन्मयत्वादन्तस्थजगत्का विहरन्त्यमी ॥६८॥संविन्मात्रपरिस्पन्दे जागते वस्तुपञ्जरे ।किं हेयं किमुपादेयमिह तत्त्वविदां मतम् ॥६९॥संविदेवेदमखिलं भ्रान्तिमन्यां त्यजानघ ।संविन्मयवपुः स्फारं किं जहाति किमीहते ॥७०॥यदेतज्जायते भूमेर्भविष्यत्पल्लवाङ्कुरम् ।तत्संविदेव प्रथते तथा तत्त्वाङ्कुरस्थितम् ॥७१॥आदावन्ते च यन्नास्ति वर्तमानेऽपि तस्य च ।कंचित्काललवं दृष्टा सत्तासौ संविदो भ्रमः ॥७२॥इति मत्वा धियं त्यक्त्वा भावाभावानुपातिनीम् ।निःसङ्गसंविद्भारूपो भव भावान्तमागतः ॥७३॥कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।कर्म कुर्वन्नकुर्वन्वा निःसङ्गः सन्न लिप्यते ॥७४॥गतसङ्गेन मनसा कुर्वन्नपि न लिप्यते ।सुखदुःखैर्महाबाहो मनोरथदशास्विव ॥७५॥गतसङ्गां मतिं कुर्वन्कुर्वन्नप्यङ्गयष्टिभिः ।न लिप्यते सुखैर्दुःखैर्मनोरथदशास्विव ॥७६॥गतसङ्गमना दृष्ट्या पश्यन्नपि न पश्यति ।एतदन्यस्थचित्तत्वाद्वालेनाप्यनुभूयते ॥७७॥गतसङ्गमना जन्तुः पश्यन्नेव न पश्यति ।न श्रृणोत्यपि श्रृण्वंश्च न स्पृशत्यपि च स्पृशन् ॥७८॥न जिघ्रत्यपि संजिघ्रन्नुन्मिषन्निमिषन्नपि ।पदार्थे च पतत्येव बलात्पतति नाप्ययम् ॥७९॥देशान्तरस्थचेतोभिरेतदात्मगृहस्थितैः ।अप्रौढमतिभिः साधु मूर्खैरप्यनुभूयते ॥८०॥सङ्गः कारणमर्थानां सङ्गः संसारकारणम् ।सङ्गः कारणमाशानां सङ्गः कारणमापदाम् ॥८१॥सङ्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता ।सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥८२॥श्रीराम उवाच ।सर्वसंशयनीहारशरन्मारुत हे मुने ।सङ्गः किमुच्यते ब्रूहि समासेन मम प्रभो ॥८३॥श्रीवसिष्ठ उवाच ।भावाभावे पदार्थानां हर्षामर्षविकारदा ।मलिना वासना यैषा सा सङ्ग इति कथ्यते ॥८४॥जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी ।मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ॥८५॥तामसङ्गाभिधां विद्धि यावद्देहं च भाविनी ।तया यत्क्रियते कर्म न तद्बन्धाय वै पुनः ॥८६॥अजीवन्मुक्तरूपाणां दीनानां मूढचेतसाम् ।युक्ता हर्षविषादाभ्यां बन्धनी वासना भवेत् ॥८७॥सैवोक्ता सङ्गशब्देन पुनर्जननकारिणी ।तया यत्क्रियते कर्म तद्बन्धायैव केवलम् ॥८८॥एवं रूपं परित्यज्य सङ्गं स्वात्मविकारदम् ।यदि तिष्ठसि निर्व्यग्रः कुर्वन्नपि न लिप्यसे ॥८९॥हर्षामर्षविषादाभ्यां यदि गच्छसि नान्यताम् ।वीतरागभयक्रोधस्तदसङ्गोऽसि राघव ॥९०॥दुःखैर्न ग्लानिमायासि यदि हृष्यसि नो सुखैः ।आशावैवश्यमुत्सृज्य तदसङ्गोऽसि राघव ॥९१॥विहरन्व्यवहारेषु सुखदुःखदशासु च ।न विमुञ्चसि सत्साम्यं तदसङ्गोऽसि राघव ॥९२॥संवेद्यो यदि चैवात्मा वेदिते लक्ष्यते समः ।यथाप्राप्तानुवर्ती च तदसङ्गोऽसि राघव ॥९३॥असङ्गतामनायासाज्जीवन्मुक्तस्थितिं स्थिराम् ।अवलम्ब्य समः स्वस्थो वीतरागो भवानघ ॥९४॥जीवन्मुक्तमतिर्मौनी निगृहीतेन्द्रियग्रहः ।अमानमदमात्सर्यमार्यस्तिष्ठति विज्वरम् ॥९५॥सदा समग्रेऽपि हि वस्तुजालेसमाशयोऽप्यन्तरदीनसत्त्वः ।व्यापारमात्रात्सहजात्क्रमस्थान्नकिंचिदप्यन्यदसौ करोति ॥९६॥यदेव किंचित्प्रकृतं क्रमस्थंकर्तव्यमात्मीयमसौ तदेव ।संसर्गसंबन्धविहीनयैवकुर्वन्न खेदं रमते धियान्तः ॥९७॥अथापदं प्राप्य सुसंपदं वामहामतिः स्वप्रकृतं स्वभावम् ।जहाति नो मन्दरवेल्लितोऽपिशौक्ल्यं यथा क्षीरमयाम्बुराशिः ॥९८॥संप्राप्य साम्राज्यमथापदं वासरीसृपत्वं सुरनाथतां वा ।तिष्ठत्यखेदोदयमस्तहर्षंक्षयोदयेष्विन्दुरिवैकरूपः ॥९९॥निरस्तसंरम्भमपास्तभेदंप्रशान्तनानाफलवल्गुवेषम् ।विचारयात्मानमदीनसत्त्वोयथा भवस्युत्तमकार्यनिष्ठः ॥१००॥तयोदितप्रसरविलासशुद्धयागतज्वरं पदमवलम्बयामलम् ।धियेद्धया पुनरिह जन्मबन्धनै-र्न बध्यसे समधिगतात्मदृश्यया ॥१०१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साहस्त्रयां संहितायां मोक्षोपायेषुउपशमप्रकरणे समदर्शनं नाम त्रिनवतितमः सर्गः ॥९३॥ ॥समाप्तमिदं उपशमप्रकरणम्॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP