संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ३९ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ३९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति संचिन्त्य सर्वात्मा क्षीरोदादात्मकात्पुरात् ।चचाल परिवारेण सह सानुरिवाचलः ॥१॥क्षीरोदतलरन्ध्रेण तेनैव स्तम्भिताम्भसा ।प्रह्लादनगरं प्राप शक्रलोकमिवापरम् ॥२॥हेममन्दिरकोशस्थं ददर्शात्रासुरं हरिः ।अथ शैलगुहालीनं समाधिस्थमिवाब्जजम् ॥३॥तत्र ते तेजसा दैत्या वैष्णवेनावधूलिता ।दूरं ययुर्दिनेशांशुवित्रस्ता इव कौशिकाः ॥४॥द्वित्रैः सहासुरैर्मुख्यैः परिवारयुतो हरिः ।प्रविवेशासुरगृहं तारावानिव खं शशी ॥५॥वैनतेयासनस्थोऽसौ लक्ष्मीविधुतचामरः ।स्वायुधादिपरीवारो देवर्षिमुनिवन्दितः ॥६॥महात्मन्संप्रबुध्यस्वेत्येवं विष्णुरुदाहरन् ।पाञ्चजन्यं प्रदध्मौ च ध्वनयन्ककुभां गणम् ॥७॥महता तेन शब्देन वैष्णवप्राणजन्मना ।तुल्यकालपरिक्षुब्धकल्पाभ्रार्णवरंहसा ॥८॥आसुरी जनता भूमौ पपातागतसंभ्रमा ।मत्तलीलाभ्रनादेन राजहंसावली यथा ॥९॥जहर्ष जनितानन्दा वैष्णवी गतसंभ्रमा ।जनता जलदध्वानफुल्लेव कुटजावली ॥१०॥बभूव संप्रबुद्धात्मा दानवेशः शनैःशनैः ।मेघावसर उत्फुल्लकदम्ब इव कानने ॥११॥ब्रह्मरन्ध्रकृतोत्थाना प्राणशक्तिरथासुरम् ।शनैराक्रमयामास गङ्गा सर्वमिवार्णवम् ॥१२॥क्षणादाक्रमयामास प्राणश्रीः सर्वतोऽसुरम् ।उदयानन्तरं सौरी प्रभेव भुवनान्तरम् ॥१३॥प्राणेषु रन्ध्रनवके प्रवृत्तेष्वथ तस्य चित् ।चेत्योन्मुखी बभूवान्तः प्राणदर्पणबिम्बिता ॥१४॥चेतनीयोन्मुखी चेत्यं चिन्मनस्तामुपाययौ ।द्वित्वं मुकुरसंक्रान्ता मुखश्रीरिव राघव ॥१५॥किंचिदङ्कुरिते चित्ते नेत्रे विकसनोन्मुखे ।शनैर्बभूवतुस्तस्य प्रातर्नीले यथोत्पले ॥१६॥प्राणापानपरामृष्टानाडीविवरसंविदः ।वातार्तस्येव पद्मस्य स्पन्दोऽस्य समजायत ॥१७॥निमेषान्तरमात्रेण मनः पीवरतां ययौ ।तस्मिन्प्राणवशात्पूर्णे तरङ्ग इव वारिणि ॥१८॥अथासौ विकसन्नेत्रमनःप्राणवपुर्बभौ ।अर्धोदित इवादित्ये सरः स्फुरितपङ्कजम् ॥१९॥अस्मिन्नवसरे यावद्बुध्यस्वेत्यवदद्विभुः ।प्रबुद्धस्तावदेषोऽभूद्बर्ही घनरवादिव ॥२०॥प्रफुल्लनयनं जातमननं पीवरस्मृतिम् ।उवाचैनं त्रिलोकेशः पुरा नाभ्यब्जजं यथा ॥२१॥साधो स्मर महालक्ष्मीमात्मीयां स्मर चाकृतिम् ।अकाण्ड एव किं देहविरामः क्रियते त्वया ॥२२॥हेयोपादेयसंकल्पविहीनस्य शरीरगैः ।भावाभावैस्तवार्थः किमुत्तिष्ठोत्तिष्ठ संप्रति ॥२३॥स्थातव्यमिह देहेन कल्पं यावदनेन ते ।वयं हि नियतिं विद्मो यथाभूतामनिन्दिताम् ॥२४॥जीवन्मुक्तेन भवता राज्य एवेह तिष्ठता ।क्षेपणीया गतोद्वेगमाकल्पान्तमियं तनुः ॥२५॥तन्वां कल्पान्तशीर्णायां स्वे महिम्नि त्वयानघ ।वस्तव्यं स्फुटिते कुम्भे कुम्भाकाशेन खे यथा ॥२६॥कल्पान्तस्थायिनी शुद्धा दृष्टलोकपरावरा ।इयं तव तनुर्जाता जीवन्मुक्तविलासिनी ॥२७॥नोदिता द्वादशादित्या न प्रलीनाः शिलोच्चयाः ।न जगज्ज्वलितं साधो तनुं त्यजसि किं मुधा ॥२८॥वायुर्वहति नोन्मत्तस्त्रिलोकीभस्मधूसरः ।लोलामरकपालाङ्कस्तनुं त्यजसि किं मुधा ॥२९॥अशोक इव मञ्जर्यः पुष्करावर्तविद्युतः ।न स्फुरन्ति जगत्कोशे तनुं त्यजसि किं मुधा ॥३०॥धरासाररणच्छैलाः प्रज्वलज्ज्वलनोज्ज्वलाः।ककुभो न विशीर्यन्ते तनुं त्यजसि किं मुधा ॥३१॥न ब्रह्मविष्णुरुद्राख्यत्रयीशेषमिदं स्थितम् ।जगज्जरठजीमूतं तनुं त्यजसि किं मुधा ॥३२॥न चेहाद्रिदलश्रेणिमात्रैकानुमितान्तराः ।दिशो जर्जरतां यातास्तनुं त्यजसि किं मुधा ॥३३॥स्फुटदद्रीन्द्रटंकाराः कराः सौरा भ्रमन्ति खे ।कल्पाभ्राणि न गर्जन्ति तनुं त्यजसि किं मुधा ॥३४॥अहं भूतावकीर्णासु सालोकासु खगध्वजः ।विहरामि दशाशासु मा देहमवधीरय ॥३५॥इमे वयमिमे शैला भूतानीमान्ययं भवान् ।इदं जगदिदं व्योम मा देहमवधीरय ॥३६॥पीवराज्ञानयोगेन यस्य पर्याकुलं मनः ।दुःखानि विनिकृन्तन्ति मरण तस्य राजते ॥३७॥कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः ।मतिं यस्यावलुम्पन्ति मरणं तस्य राजते ॥३८॥आशापाशनिबद्धोऽन्तरितश्चेतश्च नीयते ।यो विलोलमनोवृत्त्या मरणं तस्य राजते ॥३९॥यस्य तृष्णाः प्रभञ्जन्ति हृदयं हृतभावनाः ।प्ररोहमिव गर्धेभ्यो मरणं तस्य राजते ॥४०॥चित्तवृत्तिलता यस्य तालोत्तालमनोवने ।फलिता सुखदुःखाभ्यां मरणं तस्य राजते ॥४१॥रोमराजीलताजालं यस्येमं देहदुर्द्रुमम् ।अनर्थौघो हरत्युच्चैर्मरणं तस्य राजते ॥४२॥यस्य स्वदेहविपिनमाधिव्याधिदवाग्नयः ।दहन्ति लोलाङ्गलतं मरणं तस्य राजते ॥४३॥कामकोपात्मका यस्य स्फूर्जन्त्यजगरास्तनौ ।अन्तःशुष्कद्रुमस्येव मरण तस्य राजते ॥४४॥योऽयं देहपरित्यागस्तल्लोके मरणं स्मृतम् ।न सता नासता तेन कारणं वेद्यवेदनम् ॥४५॥यस्य नोत्क्रामति मतिः स्वात्मतत्त्वावलोकनात् ।यथार्थदर्शिनो ज्ञस्य जीवितं तस्य शोभते ॥४६॥यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।यः समः सर्वभावेषु जीवितं तस्य राजते ॥४७॥योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया ।साक्षिवत्पश्यतीदं हि जीवितं तस्य राजते ॥४८॥येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता ।चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते ॥४९॥अवस्तुसदृशे वस्तुन्यसक्तं कलनामले ।येन लीनं कृतं चेतो जीवितं तस्य शोभते ॥५०॥सत्यां दृष्टिमवष्टभ्य लीलयेयं जगत्क्रिया ।क्रियतेऽवासनं येन जीवितं तस्य राजते ॥५१॥नान्तस्तुष्यति नोद्वेगमेति यो विहरन्नपि ।हेयोपादेयसंप्राप्तौ जीवितं तस्य शोभते ॥५२॥शुद्धपक्षस्य शुद्धस्य हंसौघः सरसो यथा ।यस्माद्गुणौघो निर्याति जीवितं तस्य शोभते ॥५३॥यस्मिन्श्रुतिपथं प्राप्ते दृष्टे स्मृतिमुपागते ।आनन्दं यान्ति भूतानि जीवितं तस्य शोभते ॥५४॥यस्योदयेषु हृदयेन जनाम्बुजानिजीवालिमन्ति सकलानि विलासवन्ति ।तस्यैव भाति परिजीवितमक्षयेन्दो-रापूर्णतेव दनुजेश्वर नेतरस्य ॥५५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षो० उपशमप्रकरणे प्रह्लादनिर्वाणे नारायणवचनोपन्यासो नामेकोनचत्वारिंशः सर्गः ॥३९॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP