संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ४१ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ४१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।जगद्रत्नसमुद्गेन त्रैलोक्याद्भुतदर्शिना ।इत्युक्ते पद्मनाभेन ज्योत्स्नाशीतलया गिरा ॥१॥प्रह्लादनामा देहोऽसौ विकाशिनयनाम्बुजः ।मुदोवाच वचो धीरो गृहीतमननक्रमः ॥२॥प्रह्लाद उवाच ।हिताहितविचारेण राजकार्यशतेन च ।अत्यहं श्रमितो देव क्षणं विश्रामतां गतः ॥३॥भगवंस्त्वत्प्रसादेन स्थितिः सम्यगथागता ।समाधावसमाधौ च रूपेणाहं समः सदा ॥४॥चिरमन्तर्महादेव दृष्टोऽस्यमलया धिया ।पुनर्बहिरयं दृष्ट्या दिष्ट्या देव प्रदृश्यसे ॥५॥अहमासमनन्तायामस्यां दृष्टौ महेश्वर ।सर्वसंकल्पमुक्तायां व्योम व्योम्नीव निर्मले ॥६॥न शोकेन न मोहेन न च वैराग्यचिन्तया ।न देहत्यागकार्येण न संसारभयेन च ॥७॥एकस्मिन्विद्यमाने हि कुतः शोकः कुतः क्षतिः ।कुतो देहः क्व संसारः क्व स्थितिः क्व भयाभये ॥८॥यथेच्छयैवामलया केवलं स्वयमुत्थया ।एवमेवाहमवसं वितते पावने पदे ॥९॥हा विरक्तोऽस्मि संसारं त्यजामीतीयमीश्वर ।अप्रबुद्धदृशां चिन्ता हर्षशोकविकारदा ॥१०॥देहाभावे न दुःखानि देहे दुःखानि मे मतिः ।इति चिन्ताविषव्याली मूर्खमेवावलुम्पति ॥११॥इदं सुखमिदं दुःखमिदं नास्तीदमस्ति मे ।इति दोलायितं चेतो मूढमेव न पण्डितम् ॥१२॥अहमन्योऽन्य एवायमित्यज्ञानां तु वासना ।दूरोदस्तात्मबुद्धीनां जयत्यसुमतामिह ॥१३॥इदं त्याज्यमिदं ग्राह्यमिति मिथ्या मनोभ्रमः ।नोन्मत्ततां नयत्यन्तर्ज्ञमज्ञमिव दुर्धियः ॥१४॥सर्वस्मिन्नात्मनि तते त्वयि तामरसेक्षण ।हेयोपादेयपक्षस्था द्वितीया कलना कुतः ॥१५॥विज्ञानाभासमखिलं जगत्सदसदुत्थितम् ।किं हेयं किमुपादेयमिह यत्त्यज्यते न वा ॥१६॥केवलं स्वस्वभावेन द्रष्ट्रदृश्ये विचारयन् ।क्षणं विश्रान्तवानन्तः परमात्मात्मनात्मनि ॥१७॥भावाभावविनिर्मुक्तो हेयोपादेयवर्जितः ।एवमासमहं पूर्वमधुनेत्थं व्यवस्थितः ॥१८॥स मयात्मीयमापन्नं सर्वमात्मात्मतां गतः ।करोम्यहं महादेव तुभ्यं यत्परिरोचते ॥१९॥त्वमयं पुण्डरीकाक्षः पूज्यस्तावज्जगत्त्रये ।तन्मत्तः प्रकृतिप्राप्तां पूजामादातुमर्हसि ॥२०॥इत्युक्त्वा दानवाधीशः पुरः क्षीरोदशायिनः ।शैलेन्द्र इव पूर्णेन्दुमर्घपात्रमुपाददे ॥२१॥सायुधं साप्सरोवृन्दं ससुरं सखगाधिपम् ।पूजयामास गोविन्दं सत्रैलोक्यमथाग्रगम् ॥२२॥ सबाह्याभ्यन्तरभ्रान्तभुवनं भुवनेश्वरम् । पूजयित्वाथ तिष्ठन्तमुवाच कमलापतिः ॥२३॥श्रीभगवानुवाच ।उत्तिष्ठ दानवाधीश सिंहासनमुपाश्रय ।यावदाश्वभिषेकं ते स्वयमेव ददाम्यहम् ॥२४॥पाञ्चजन्यरवं श्रुत्वा य इमे समुपागताः ।सिद्धाः साध्याः सुरौघास्ते कुर्वन्तु तव मङ्गलम् ॥२५॥इत्युक्त्वा पुण्डरीकाक्षो दानवं सिंहविष्टरे ।योजयामास योग्यं तं मेरुश्रृङ्ग इवाम्बुदम् ॥२६॥अथैनं हरिराहूतैः क्षीरोदाद्यैर्महाब्धिभिः ।गङ्गादिभिः सरित्पूरैः सर्वतीर्थजलैस्तथा ॥२७॥सर्वविप्रर्षिसङ्घैश्च सर्वसिद्धगणैः सह ।पुनर्विद्याधरयुतो लोकपालसमन्वितः ॥२८॥अभ्यषिञ्चदमेयात्मा दैत्यराज्ये महासुरम् ।मरुद्गणैः स्तूयमानं पूर्वं स्वर्गे हरिं यथा ॥२९॥सुरासुरैः स्तूयमानं स्तूयमानः सुरासुरैः ।अभिषिक्तमुवाचेदं प्रह्लादं मधुसूदनः ॥३०॥श्रीभगवानुवाच ।यावन्मेरुर्धरा यावद्यावच्चन्द्रार्कमण्डले ।अखण्डितगुणश्लाघी तावद्राजा भवानघ ॥३१॥इष्टानिष्टफलं त्यक्त्वा समदर्शनया धिया ।वीतरागभयक्रोधो राज्यं समनुपालय ॥३२॥राज्येऽस्मिन्भोगसंपूर्णे दृष्टानुत्तमभूमिना ।न गन्तव्यस्त्वयोद्वेगः स्वर्गे मानवकेऽथवा ॥३३॥देशकालक्रियाकारैर्यथाप्राप्तासु दृष्टिषु ।प्रकृतं कार्यमातिष्ठ त्यक्त्वा मानसमास्स्व भो ॥३४॥अतिदेहतयेदंताममतापरिवर्जितम् ।भावाभावे समं कार्यं कुर्वन्निह न बाध्यसे ॥३५॥दृष्टसंसारपर्यायस्तुलिनातुलतत्पदः ।सर्वं सर्वत्र जानासि किमन्यदुपदिश्यते ॥३६॥वीतरागभयक्रोधे त्वयि राजनि राजति ।नेदानीं दुःखदुर्ग्रन्थिर्नासुरान्दलयिष्यति ॥३७॥वाष्पश्रीर्नासुरीकर्णमञ्जरीः प्लावयिष्यति ।वनराजिमिवोन्मत्ता सरित्तारतरङ्गिणी ॥३८॥अद्यप्रभृत्यसंप्राप्तदानवामरसंगरम् ।निर्मन्दराम्भोनिधिवज्जगत्स्वस्थमिव स्थितम् ॥३९॥देवासुरकुटुम्बिन्यो भर्तृष्वन्तःपुरेषु च ।स्वेष्वेव यान्तु विश्वासमपरस्परमाहृताः ॥४०॥भवबहुलनिशानितान्तनिद्रा-तिमिरमपास्य सदोदिताशयश्रीः ।दनुसुत वनिताविलासरम्यांचिरमजितामुपभुङ्क्ष्व राज्यलक्ष्मीम् ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे प्रहादाभिषेको नामैकचत्वारिंशः सर्गः ॥४१॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP