संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ५२ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ५२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।स तां विवेश धर्मात्मा गन्धमादनकन्दराम् ।चित्रभ्रमणसंप्राप्तामलिः पद्मकुटीमिव ॥१॥समाधानोन्मुखतया प्रविशन्स व्यराजत ।सर्गव्यापारविरतावात्मपुर्यामिवाब्जजः ॥२॥चकारासनमम्लानैः पत्रैरन्तस्वगुच्छकम् ।मृदुमेघविधिर्वृन्दमम्भोदमिव तत्र सः ॥३॥स तत्प्रस्तारयामास पृष्ठे चारु मृगाजिनम् ।नीलरत्नतटे मेरुस्तारासारमिवाम्बरम् ॥४॥स तत्रोपाविशद्वृत्तीश्चेतसस्तनुतां नयन् ।अन्तःशुद्धवपुः श्रृङ्गे वृष्य मूक इवाम्बुदः ॥५॥बुद्धवत्सुदृढं बद्धपद्मासन उदङ्मुखः ।पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्ममञ्जलिम् ॥६॥वासनाभ्यः समाहृत्य मनोमृगमुपप्लुतम् ।निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम् ॥७॥अयि मूर्ख मनः कोऽर्थस्तव संसारवृत्तिभिः ।धीमन्तो न निषेवन्ते पर्यन्ते दुःखदां क्रियाम् ॥८॥अनुधावति यो भोगांस्त्यक्त्वा शमरसायनम् ।संत्यज्य मन्दारवनं स याति विषजङ्गलम् ॥९॥यदि यासि महीरन्ध्रं ब्रह्मलोकमथापि वा ।तन्न निर्वाणमायासि विनोपशमनामृतम् ॥१०॥आशाशतावपूर्णत्वे त्वमेवं सर्वदुःखदम् ।त्यज्य याहि परं श्रेयः परमेकान्तसुन्दरम् ॥११॥इमा विचित्राः कलना भावाभावमयात्मिकाः ।दुःखायैव तवोग्राय न सुखाय कदाचन ॥१२॥शब्दादिकाभिरेताभिः किं मूर्ख हतवृत्तिभिः ।भ्रमस्यविरतं व्यर्थं मेघे मण्डूकिका यथा ॥१३॥मनोमण्डूकिके व्यर्थमियन्तं कालमन्धया ।भ्रमन्त्या भुवनं क्षिप्रं किं समासादितं त्वया ॥१४॥यस्मात्किंचिदवाप्नोषि यस्मिन्वहसि निर्वृतिम् ।तस्मिंश्चेतः शमे मूर्ख नानुबध्नासि किं पदम् ॥१५॥आगत्य श्रोत्रतां मूर्ख व्यर्थोत्थानोपबृंहिताम् ।धिया शब्दानुसारिण्या मृगवन्मा क्षयं व्रज ॥१६॥त्वक्तामागत्य दुःखाय स्पर्शोन्मुखतया धिया ।मूर्ख मा बद्धतामेहि गजीलुब्धगजेन्द्रवत् ॥१७॥रसनाभावमागत्य गर्द्धेनान्ध दुरन्धसाम् ।मा नाशमेहि बडिशपिण्डीलम्पटमत्स्यवत् ॥१८॥चाक्षुषीं वृत्तिमाश्रित्य प्रभारूपचयोन्मुखीम् ।मा गच्छ दग्धतां मुग्ध कान्तिलुब्धपतङ्गवत् ॥१९॥घ्राणमार्गमुपाश्रित्य शरीराम्भोजकोटरे ।गन्धोन्मुखतया बन्धं मा त्वं संश्रय भृङ्गवत् ॥२०॥कुरङ्गालिपतङ्गेभमीनास्त्वेकैकशो हताः ।सर्वैर्युक्तैरनर्थैस्तु व्याप्तस्याज्ञ कुतः सुखम् ॥२१॥हे चित्त वासनाजालं बन्धाय भवतोहितम् ।स्वात्मनः सहजः फेनस्ततः कुकृमिणा यथा ॥२२॥शरदभ्रवदागत्य शुद्धिं त्यक्तभवामयाम् ।यदि शाम्यसि निर्मूलं तदनन्तो जयस्तव ॥२३॥क्षयोदयदशाधात्रीं पर्यन्तपरितापिनीम् ।जानन्नपि जगत्सृष्टिं न त्यक्ष्यसि विनंक्ष्यसि ॥२४॥करोम्यथ किमर्थं वा तवैतदनुशासनम् ।विचारणवतः पुंसश्चित्तमस्ति हि नानघ ॥२५॥यावदज्ञानघनता तावत्प्रघनचित्तता ।यावत्प्रावृड्जलदता तावन्नीहारभूरिता ॥२६॥यावदज्ञानतनुता तावच्चित्तस्य तानवम् ।प्रावृट्परिक्षयो यावत्तावन्नीहारसंक्षयः ॥२७॥यावत्तानवमायातं शुद्धं चित्तं विचारतः ।तावत्तत्क्षीणमेवाहं मन्ये शारदमेघवत् ॥२८॥अनुशासनमेतद्यदसतो नश्यतोऽथ वा ।क्रियते तन्नभोवारिपवनाहननैः समम् ॥२९॥तस्मात्संक्षीयमाणत्वात्त्यजामि त्वामसन्मयम् ।मौर्ख्यं परममेवाहुः परित्याज्यानुशासनम् ॥३०॥निर्विकल्पोऽस्मि चिद्दीपो निरहंकारवासनः ।त्वयाहंकारबीजेन न संबद्धोऽस्म्यसन्मय ॥३१॥अयं सोऽहमिति व्यर्थं दुर्दृष्टिरवलम्बिता ।त्वया मूढविनाशाय शङ्काविषविषूचिका ॥३२॥अनन्तस्यात्मतत्त्वस्य तन्वीति मनसि स्थितिः ।न संभवति बिल्वान्तर्वासितादन्तिनोर्यथा ॥३३॥महाश्वभ्रीव गम्भीरा दुःखदा वासनाश्रिता ।त्वयैषा बत चित्तेति नैनामनुसराम्यहम् ॥३४॥कः किलायं मुधा मोहो बालस्येवाविचारिणः ।अयं सोऽहमिति भ्रान्तिस्त्वहंतापरिकल्पिता ॥३५॥पादाङ्गुष्ठाच्छिरो यावत्कणशः प्रविचारितम् ।न लब्धोऽसावहं नाम कः स्यादहमिति स्थितः॥३६॥भरिताशेषदिक्कुञ्जं यत्स्यामेकं जगत्त्रये ।संवेदनमसंवेद्यं सर्वत्रविगतात्मकम् ॥३७॥दृश्यते यस्य नेयत्ता न नाम परिकल्पना ।नैकता नान्यतैवेह न महत्ता न चाणुता ॥३८॥वेद तत्त्वां स्वसंवेद्यमाततं दुःखकारणम् ।विवेकजेन बोधेन तदिदं हन्यसे मया ॥३९॥इदं मांसमिदं रक्तमिमान्यस्थीनि देहके ।इमे ते श्वासमरुतः कोऽसावहमिति स्थितः ॥४०॥स्पन्दो हि वातशक्तीनामवबोधो महाचितः ।जरा मृतिश्च कायेऽस्मिन्कोऽसावहमिति स्थितः ॥४१॥मांसमन्यदसृक्चान्यदस्थीन्यन्यानि चित्त हे ।बोधोऽन्यः स्पन्दनं चान्यत्कोसावहमिति स्थितः ॥४२॥इदं घ्राणमियं जिह्वा त्वगियं श्रवणे इमे ।इदं चक्षुरसौ स्पर्शः कोऽसावहमिति स्थितः ॥४३॥यथाभूततया नाहं मनो न त्वं न वासना ।आत्मा शुद्धचिदाभासः केवलोऽयं विजृम्भते ॥४४॥अहमेवेह सर्वत्र नाहं किंचिदपीह वा ।इत्येव सन्मयी दृष्टिर्नेतरो विद्यते क्रमः ॥४५॥चिरमज्ञानधूर्तेन पोथितोऽस्मि त्वहंतया ।वृकेण दृप्तेनाटव्यां लब्धेन पशुपोतकः ॥४६॥दिष्ट्येदानीं परिज्ञातो मयैवाज्ञानतस्करः ।पुनर्न संश्रयाम्येनं स्वरूपार्थापहारिणम् ॥४७॥निर्दुःखो दुःखयोग्यस्य नाहं तस्य न चैष मे ।कश्चिद्भवति शैलस्य तत्स्थ एव यथाम्बुदः ॥४८॥भूत्वा त्वहमिदं वच्मि वेद्मि तिष्ठामि यामि च ।आत्मावलोकनेनाहमनहंकारतां गतः ॥४९॥नूनमेवाहमेवैते मन्ये ज्ञाश्चक्षुरादयः ।यान्तु तिष्ठन्तु वा देहे ममैते तु न किंचन ॥५०॥कष्टं कोऽयमहं नाम कथं केनोपकल्पितः ।जगद्बालकवेतालस्तालोत्तालातुलाकृतिः ॥५१॥एतावन्तं चिरं कालं व्यर्थमालुठितोऽवटे ।अहमत्र तृणोन्मुक्ते दुरद्रौ हरिणो यथा ॥५२॥स्वार्थमालोकने चक्षुर्यदितून्मुखतां गतम् ।तदहं नाम कोसौ स्याद्योऽस्मिन्दुःखे न मोहितः ॥५३॥स्पर्शनाय निजे तत्त्वे यदि जाता त्वगुन्मुखी ।तत्कोयं स्यादहं नाम कुपिशाच इवोदितः ॥५४॥रसेष्वभिनिषण्णेऽस्मिन्स्वक्रमे रसनेन्द्रिये ।अहं मृष्टभुगित्येष कुतस्त्यः कुत्सितो भ्रमः ॥५५॥शब्दशक्तिं गते श्रोत्रे वराके स्वार्थपीडिते ।तदहंकारदुःखस्य निर्बीजस्य क आगमः ॥५६॥आत्मभरित्वेन निजे घ्राणे स्वं गन्धमागते ।अहं घ्रातेति यो माता तं चौरं नैव वेद्म्यहम् ॥५७॥मृगतृष्णाक्रमेणैषा भावना व्यर्थभाविनी ।भावस्तस्यामसत्यायां यः सोऽयमिति संभ्रमः॥५८॥वासनाहीनमप्येतच्चक्षुरादीन्द्रियैः स्वतः ।प्रवर्तते बहिः स्वार्थे वासना नात्र कारणम् ॥५९॥वासनारहितं कर्म क्रियते ननु चित्त हे ।केवलं नानुभूयन्ते सुखदुःखदृशोऽग्रगाः ॥६०॥तस्मान्मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम् ।कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ ॥६१॥भवद्भिरेव दुःखाय वासनावासिता मुधा ।बालैः पङ्कक्रीडनकं विनाशेनेव खिन्नता ॥६२॥वासनाद्या दृशः सर्वा व्यतिरिक्तास्तु नात्मनः ।जलादिव तरङ्गाद्या ज्ञस्यैवान्यस्य नानघ ॥६३॥तृष्णयैव विनष्टाः स्थ व्यर्थमिन्द्रियबालकाः ।कोशकारकुकृमयस्तन्तुनेव स्वयंभुवा ॥६४॥तृष्णयैवेह लुठथ जरामरणसंकटे ।भ्रमदृष्ट्येव शिखरिपथिकाः श्वभ्रभूमिषु ॥६५॥वासनैवेह भवतां हेतुरेकत्र बन्धने ।रज्जुः शून्याशयप्रोता मुक्तानामातता यथा ॥६६॥कल्पनामात्रकलिता सत्यैषा हि न वस्तुतः ।असंकल्पनमात्रेण दात्रेणेव विलूयते ॥६७॥एषा हि भवतामेव विमोहाय क्षयाय च ।वातलेखेव दीपानां स्फुरतामपि तेजसाम् ॥६८॥हे चित्त सर्वेन्द्रियकोश तस्मा-त्सर्वेन्द्रियैरैक्यमुपेत्य नूनम् ।आलोक्य चात्मानमसत्स्वरूपंनिर्वाणमेवामलबोधमास्स्व ॥६९॥विषयविषविषूचिकामनन्तांनिपुणमहंस्थितिवासनामपास्य ।अभिमतपरिहारमन्त्रयुक्त्याभव विभवो भगवान्भियामभूमिः ॥७०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे उद्दालकविचारो नाम द्विपञ्चाशः सर्गः ॥५२॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP