संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ८६

उपशमप्रकरणम् - सर्गः ८६

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
दिनान्ते स समाधातुं पुनरेव मनो मुनिः ।
विवेश कांचिद्विततां विज्ञातां विन्ध्यकन्दराम् ॥१॥
तदेवात्मानुसंधानमत्यजन्सममिन्द्रियैः ।
चेतसा कलयामास दृष्टलोकपरावरः ॥२॥
पूर्वमेवेन्द्रियगणो मया परिहृतः स्फुटम् ।
इदानीं चिन्तया नार्थः पुनर्विततया मम ॥३॥
अस्तिनास्तीतिकलनां भङ्क्त्वा मृद्वीं लतामिव ।
शेषं तु बद्धसंस्थानस्तिष्ठाम्यचलश्रृङ्गवत् ॥४॥
उदितोऽस्तं गत इव स्वस्तं गत इवोदितः ।
समः समरसाभासस्तिष्ठामि स्वच्छतां गतः ॥५॥
प्रबुद्धोऽपि सुषुप्तस्थः सुषुप्तस्थः प्रबुद्धवत् ।
तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः ॥६॥
स्थितः स्थाणुरिवैकान्ते स्वान्तान्ते सर्वतः स्थिते ।
सत्त्वसामान्यसाम्ये हि तिष्ठाम्यपगतामयः ॥७॥
इति संचिन्त्य स ध्याने पुनस्तस्थौ दिनानि षट् ।
ततः प्रबोधमापन्नः क्षणसुप्त इवाध्वगः ॥८॥
ततः सिद्धः स भगवान्वीतहव्यो महातपाः ।
विजहार चिरं कालं जीवन्मुक्ततया तदा ॥९॥
वस्तु नाभिननन्दासौ निनिन्द न कदाचन ।
न जगाम तथोद्वेगं न च हर्षमवाप सः ॥१०॥
गच्छतस्तिष्ठतश्चैव तस्यैवमभवद्धृदि ।
विनोदाय विचित्तस्य कथा स्वमनसा सह ॥१२॥
अव्ययेन्द्रियवर्गेश मनः शमवता त्वया ।
पश्यानन्दसुखं कीदृग्विधमासादितं ततम् ॥१२॥
एषैवाविरतं तस्मान्नीरागैव दशा त्वया ।
अवलम्ब्या परित्याज्यं चापलं चलतां वर ॥१३॥
भो भो इन्द्रियचौरा हे हताशा हतनामकाः ।
युष्माकं नायमात्मास्ति न भवन्तस्तथात्मनः ॥१४॥
व्रजतां वो विनाशांशमाशा वो विफलीकृताः ।
न समर्थाः समाक्रान्तौ भवन्तो भङ्गुराश्रयाः ॥१५॥
वयमात्मेति यैषा वो बभूव किल वासना ।
तत्त्वविस्मृतिजाता हि दृष्टरज्जुभुजङ्गवत् ॥१६॥
अनात्मन्यात्मता सैषा सैषा वस्तुन्यवस्तुता ।
अविचारेण वै जाता विचारेण क्षयं गता ॥१७॥
भवन्तोऽन्ये वयं चान्ये ब्रह्मान्यत्कर्तृतापरा ।
अन्यो भोक्तान्य आदत्ते को दोषः कस्य कीदृशः ॥१८॥
वनेभ्यो दारु संजातं रज्जवो वेणुचर्मणः ।
वासी चायःफलान्येव तक्षा ग्रासार्थमुद्यतः ॥१९॥
इत्थं यथेह सामग्र्या स्वशक्तिस्थपदार्थया ।
संपन्ना काकतालीया दृढा वरगृहाकृतिः ॥२०॥
संपन्नाः काकतालीयात्स्वशक्तिनियतेन्द्रियाः ।
तथैव कलिका लोलं केव कस्यात्र खण्डना ॥२१॥
विस्मृतिर्विस्मृता दूरं स्मृतिः स्फुटमनुस्मृता ।
सत्सज्जातमसच्चासत्क्षतं क्षीणं स्थितं स्थितम् ॥२२॥
एवंविधेन भगवान्विचारेण महातपाः ।
सोऽतिष्ठन्मुनिशार्दूलो बहून्वर्षगणानिह ॥२३॥
अपुनर्भवनायैव यत्र चिन्तान्तमागता ।
मूढता च सुदूरस्था तत्रासाववसत्सदा ॥२४॥
यथाभूतपदार्थौघदर्शनोत्थमनर्थकम् ।
ध्यानाश्वासनमालम्ब्य सोऽवसत्सुखगः सदा ॥२५॥
हेयादेयसमासङ्गत्यागादानदृशोः क्षये ।
वीतहव्यमुनेरासीदिच्छानिच्छातिगं मनः ॥२६॥
विदेहकेवलीभावे सीमन्ते जन्मकर्मणाम् ।
संसारसङ्गसंत्यागरसासवनवेच्छया ॥२७॥
विवेश स तथैवान्ते सह्याद्रौ हेमकन्दरम् ।
अपुनःसङ्गमायाशु जगज्जालमवेक्ष्य सः ॥२८॥
बद्धपद्मासनः स्थित्वा तत्रोवाचात्मनात्मनि ।
राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज ॥२९॥
भवद्भ्यां सुचिरं कालमिह प्रक्रीडितं मया ।
भोगा नमोस्तु युष्मभ्यं जन्म कोटिशतान्यहम् ॥३०॥
भवद्भिर्लालितो लोके लालकैरिव बालकः ।
इमामपि परां पुण्यां निर्वाणपदवीमहम् ॥३१॥
येन विस्मारितस्तस्मै सुखायास्तु नमो नमः ।
त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात् ॥३२॥
तस्मात्त्वदुपदिष्टोऽयं मार्गो मम नमोऽस्तु ते ।
त्वत्प्रसादेन लब्धेयं शीतला पदवी मया ॥३३॥
दुःखनाम्ने दुःखतत्त्व सुखदात्मन्नमोस्तु ते ।
कल्याणमस्तु ते मित्र संसारासारजीवित ॥३४॥
देह स्थितिरियं यामो वयमात्मीयमास्पदम् ।
प्रयोजनानां जन्तूनामहो नु विषमा गतिः ॥३५॥
देहेनापि वियुज्येऽहं भूत्वा जन्मशतान्यपि ।
मित्रकाय मया यत्त्वं त्यज्यसे चिरबान्धवः ॥३६॥
त्वयैवात्मन्युपानीता सात्मज्ञानवशात्क्षतिः ।
अधिगम्यात्मविज्ञानमात्मनाशः कृतस्त्वया ॥३७॥
देह नान्येन भग्नोऽसि त्वयैवैतदुपासितम् ।
एकाकिन्यापि शुष्यन्त्या प्रशान्ते मयि दीनया ॥३८॥
त्वया दुःखं न कर्तव्यं मातस्तृष्णे व्रजाम्यहम् ।
क्षन्तव्याः काम भगवन्विपरीतापराधजाः ॥३९॥
दोषा उपशमैकान्तं व्रजाम्यादिश मङ्गलम् ।
चिराच्चिराय चेदानीमम्ब तृष्णे किलावयोः ॥४०॥
वियोगो योगदोषेण प्रणामोऽयं स पश्चिमः ।
नमः सुकृतदेवाय भवतेऽस्तु त्वया पुरा ॥४१॥
नरकेभ्यः समुत्तार्य स्वर्गेऽहमभियोजितः ।
कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने ॥४२॥
शासनापुष्पभाराय नमो दुष्कृतशाखिने ।
येन सार्धं चिरं बह्व्यो भुक्ताः प्राकृतयोनयः ॥४३॥
अद्यप्रभृत्यदृश्याय तस्मै मोहात्मने नमः॥
प्रध्वनद्वंशमधुरवचसे पत्रवाससे ॥४४॥
नमो गुहातपस्विन्यै वयस्यायै समाधिषु ।
संसाराध्वनि खिन्नस्य त्वं ममाश्वासकारणम् ॥४५॥
आसीर्वयस्या सुस्निग्धा सर्वलोभापहारिणी ।
सर्वसंकटखिन्नेन दोषेभ्यो द्रवता मया ॥४६॥
त्वमेका शोकनाशार्थमाश्रिता परमा सखी ।
संकटावटकुञ्जेषु हस्तालम्बनदायिने ॥४७॥
वार्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः ।
अस्थिपञ्जरमात्मीयं तथा रक्तान्त्रतन्तुकम् ॥४८॥
एतावन्मात्रसारैकं गृहीत्वा गच्छ देहक ।
पयःक्षोभप्रकारेभ्यः स्नानेभ्योऽपि नमोस्तु ते ॥४९॥
नमोस्तु व्यवहारेभ्यः संसृतिभ्यो नमोस्तु ते ।
एते भवन्तः सहजाः प्राक्तनाः सुहृदो मया ॥५०॥
क्रमेणाद्योत्कृताः प्राणाः स्वस्ति वोऽस्तु व्रजाम्यहम् ।
भवद्भिः सह चित्रासु मया बह्वीषु योनिषु ॥५१॥
विश्रान्तं गिरिकुञ्जेषु श्रान्तं लोकान्तरेषु च ।
क्रीडितं पुरपीठान्तरुषितं पर्वतेषु च ॥५२॥
स्थितं कार्यविलासेषु प्रस्थितं विविधाध्वसु ।
न तदस्ति जगत्कोशे भवद्भिः सह यन्मया ॥५३॥
न कृतं न हृतं यातं न दत्तं नावलम्बितम् ।
इदानीं स्वां दिशं यान्तु भवन्तो याम्यहं प्रियाः ॥५४॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ताः सर्वे संसारवर्त्मनि ॥५५॥
अयं चाक्षुष आलोको विशत्वादित्यमण्डलम्॥
विशन्तु वनपुष्पाणि सौगन्ध्यानन्दसंविदः ॥५६॥
प्राणानिलस्तथा स्पन्दं विशत्वद्य प्रभञ्जनम् ।
विशन्त्वाकाशकुहरं शब्दश्रवणशक्तयः ॥५७॥
इन्दुमण्डलमायान्तु रसनारसशक्तयः ।
निर्मन्दर इवाम्भोधिर्गतार्क इव वासरः ॥५८॥
शरदीव घनः स्वैरं प्राप्तः कल्पान्तसर्गवत् ।
ओंकारान्ते स्वमननं प्रशाम्याम्यात्मनात्मनि ।
दग्धेन्धन इवार्चिष्मान्निःस्नेह इव दीपकः ॥५९॥
व्यपगताखिलकार्यपरम्परः
सकलदृश्यदशातिगतस्थितिः ।
प्रणवशान्त्यनुसंसृतिशान्तधी-
र्विगतमोहमलोऽयमहं स्थितः ॥६०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे इन्द्रियवर्गनिराकरणोपदेशो नाम षडशीतितमः सर्गः ॥८६॥

N/A

References : N/A
Last Updated : September 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP