संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ७३ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ७३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवंविचारया दृष्ट्या द्वैतत्यागेन राघव ।स्वभावः प्राप्यते तज्ज्ञैस्तज्ज्ञैश्चिन्तामणिर्यथा ॥१॥अथेमामपरां दृष्टिं श्रृणु रामानया यथा ।दृश्यस्यात्मानमचलं भविष्यसि च दिव्यदृक् ॥२॥अहं खमहमादित्यो दिशोऽहमहमप्यधः ।अहं दैत्या अहं देवा लोकाश्चाहमहं महः ॥३॥अहं तमोऽहमभ्राणि भूः समुद्रादिकं त्वहम् ।रजो वायुरथाग्निश्च जगत्सर्वमिदं त्वहम् ॥४॥जगत्त्रयेऽहं सर्वत्र य आत्मैव किलास्थितः ।कोऽहं किमन्यद्देहादि द्वित्वमेकस्य कीदृशम् ॥५॥इति निश्चयवानन्तर्भूतमात्मतया जगत् ।पश्य हर्षविषादाभ्यां नावशः परिभूयसे ॥६॥तन्मयेऽस्मिन्किल जगत्यखिले संस्थितेऽनघ ।किमात्मीयं परं किं स्यात्कमलेक्षण कथ्यताम् ॥७॥किं तज्ज्ञव्यतिरेकेण विद्यते यदुपागतम् ।हर्षमेतु विषादं वा विषादे ज्ञो जगन्मयः ॥८॥अहंकारदृशावेते सात्त्विके द्वेऽतिनिर्मले ।तत्त्वज्ञानात्प्रवर्तेते मोक्षदे पारमार्थिके ॥९॥परोऽणुः सकलातीतरूपोऽहं चेत्यहंकृतिः ।प्रथमा सर्वमेवाहमित्यन्योक्ता रघूद्वह ॥१०॥अहंकारदृगन्या तु तृतीया विद्यतेऽनघ ।देहोऽहमिति तां विद्धि दुःखायैव न शान्तये ॥११॥अथ चैतत्त्रयमपि त्यक्त्वा सकलसिद्धये ।यच्छेषं तदुपालम्ब्य तिष्ठावष्टब्धतत्परः ॥१२॥सर्वातीतस्वरूपोऽपि सर्वसत्तातिगोऽपि च ।असत्तापूरितजगदस्त्येवात्मा प्रकाशकः ॥१३॥स्वानुभूत्यैव पश्याशु स एवासि सदोदितः ।आशयं हृदयग्रन्थिं त्यज तत्त्वविदांवर ॥१४॥नात्मास्त्यनुमया राम न चाप्तवचनादिना ।सर्वदा सर्वथा सर्वं स प्रत्यक्षोऽनुभूतितः ॥१५॥यदिदं स्पर्शनं स्पन्दं किंचिद्यत्संविदाद्यपि ।तत्सर्वमात्मा भगवान्दृश्यदर्शनवर्जितः ॥१६॥न सन्नासन्नसौ देवो नाणुर्नापि महानसौ ।नाप्येतयोर्दृशोर्मध्यं स एवेदं च सर्वतः ॥१७॥स एव चैवं वदति स च वक्तुं न युज्यते ।न तदन्यदिदं तात पश्यात्मानमनामयम् ॥१८॥नात्मायमयमप्यात्मा संज्ञाभेद इति स्वयम् ।तेनैव सर्वगतया शक्त्या स्वात्मनि कल्पितः ॥१९॥संस्थितः स हि सर्वत्र त्रिषु कालेषु भास्करः ।सूक्ष्मत्वात्सुमहत्त्वाच्च केवलं न विभाव्यते ॥२०॥सत्स्वनन्तपदार्थेषु जीवत्वेनाभिबिम्बति ।आत्मा पुर्यष्टकादर्शे स्वभाववशतः स्वतः ॥२१॥पुर्यष्टकोदयादेव स्वयमात्मानुभूयते ।सर्वदा सर्वसंस्थः खे घनास्पन्दादिवानिलः ॥२२॥चिदात्मा सर्वगो व्यापी न क्वचिन्नाम संस्थितः ।यद्वत्सर्वपदार्थानां सत्ता तद्वन्महेश्वरः ॥२३॥सति पुर्यष्टके तस्मिञ्जीवः स्फुरति नोपले ।सति वायाविव रजः सति दीप इवेक्षणम् ॥२४॥इयं पुर्यष्टके स्वेच्छा स्वात्मन्येवात्मनि स्थिते ।सति स्फुरत्यभ्युदिते भानाविव जनैषणा ॥२५॥यदि सूर्ये स्थिते व्योम्नि तादृशोचितसंस्थितिः ।नश्यति व्यवहारोऽयं भास्करे तत्किमागतम् ॥२६॥यद्यात्मनि स्थिते देवे तत्सत्ता लब्धसंस्थितिः ।देहो नाशमुपायाति तत्किं नष्टमिहात्मनि ॥२७॥न जायते न म्रियते नादत्ते नाभिवाञ्छति ।न मुक्तो न च बद्धोऽयमात्मा सर्वस्य सर्वदा ॥२८॥आत्माप्रबोधाभ्युदिता निरात्मन्यात्मतां गता ।सर्परज्जुभ्रमाकारा भ्रान्तिर्दुःखाय केवलम् ॥२९॥अनादित्वान्न जातोऽयमजातत्वान्न नश्यति ।आत्मात्मव्यतिरिक्तं तु नाभिवाञ्छत्यसंभवात् ॥३०॥दिक्कालाद्यनवच्छेदान्न बद्धोऽयं कदाचन ।बन्धाभावे क्व मुक्तिः स्यादमोक्षस्तेन संस्थितः ॥३१॥एवंगुणविशिष्टोऽयमात्मा सर्वस्य राघव ।अविचारवशान्मूढो लोकोऽयं परिरोदिति ॥३२॥सम्यगालोकिताशेषपूर्वापरजगत्क्रमः ।मा शोकं गच्छ सुमते मौर्ख्योपगतलोकवत् ॥३३॥द्वे एव कलने त्यक्त्वा मोक्षबन्धात्मिके यथा ।विदुषा व्यवहर्तव्यं यन्त्रणेवात्ममौनिना ॥३४॥न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।मोक्षो हि चेतो विमलं सम्यग्ज्ञानविबोधितम् ॥३५॥सकलाशास्वसंसक्त्या यत्स्वयं चेतसः क्षयः ।स मोक्षनाम्ना कथितस्तत्त्वज्ञैरात्मदर्शिभिः ॥३६॥यावत्प्रबोधो विमलो नोदितस्तावदेव सः ।मौर्ख्याद्दीनतया राम भक्त्या मोक्षोभिवाञ्छ्यते॥३७॥परं प्रबोधमासाद्य चित्ते चित्तत्त्वतां गते ।दश मोक्षा न वाञ्छ्यन्ते किमुतैको हि मोक्षकः ॥३८॥अयं मोक्षस्त्वयं बन्धः पेलवां कलनामिति ।परित्यज्य महात्यागी स त्वमेव भवाभव ॥३९॥परिगलितविकल्पनां प्रयातःसगरसुतौघनिखातमेखलाङ्कम् ।अवनिवलयमन्तरस्तसङ्ग-श्चिरमनुपालय सर्वदोदितश्रीः ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे स्वात्मविचारो नाम त्रिसप्ततितमः सर्गः ॥७३॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP