संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ३२ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ३२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३२ Translation - भाषांतर श्रीवसिष्ठ उवाच । प्रह्राद इति संचिन्त्य कृत्वा नारायणीं तनुम् ।पुनः संचिन्तयामास पूजार्थमसुरद्विषः ॥१॥वपुषो वैष्णवादस्मान्मा भून्मूर्तिः परावरा ।अयं प्राणप्रवाहेण बहिर्विष्णुः स्थितोऽपरः ॥२॥वैनतेयसमारूढः स्फुरच्छक्तिचतुष्टयः ।शङ्खचक्रगदापाणिः श्यामलाङ्गश्चतुर्भुजः ॥३॥चन्द्रार्कनयनः श्रीमान्कान्तनन्दकनन्दनः ।पद्मपाणिर्विशालाक्षः शार्ङ्गधन्वा महाद्युतिः ॥४॥तदेनं पूजयाम्याशु परिवारसमन्वितम् ।सपर्यया मनोमय्या सर्वसंभाररम्यया ॥५॥तत एनं महादेवं पूजयिष्याम्यहं पुनः ।पूजया बाह्यसंभोगमहत्या बहुरत्नया ॥६॥प्रह्राद इति संचिन्त्य संभारभरभारिणा ।मनसा पूजयामास माधवं कमलाधवम् ॥७॥रत्नौघपात्रपटलैश्चन्दनादिविलेपनैः ।धूपैर्दीपैर्विचित्रैश्च नानाविभवभूषणैः ॥८॥मन्दारमालावलनैर्हेमाब्जपटलोत्करैः ।कल्पवृक्षलतागुच्छै रत्नस्तबकमण्डलैः ॥९॥पल्लवैर्दिव्यवृक्षाणां नानाकुसुमदामभिः ।किंकिरातैर्बकैः कुन्दैश्चम्पकैरसितोत्पलैः ॥१०॥कह्लारैः कुमुदैः काशैः खर्जूरैश्चूतकिंशुकैः ।अशोकैर्मदनैर्बिल्वैः कर्णिकारैः किरातकैः ॥११॥कदम्बैर्बकुलैर्निम्बैः सिन्दुवारैः सयूथकैः ।पारिभद्रैगुग्गुलीभिर्बिन्दुकैः पुष्पकोत्करैः ॥१२॥प्रियङ्गुपटलैः पाटैः पाटलैर्धातुपाटलैः ।आम्रैराम्रातकैर्गव्यैर्हरीतकबिभीतकैः ॥१३॥शालतालतमालानां लताकुसुमपल्लवैः ।कोमलैः कलिकाजालैः सहकारैः सकुङ्कुमैः ॥१४॥केतकैः शतपत्रैश्च तथैलामञ्जरीगणैः ।सर्वसौन्दर्यसंमानैः स्वयमात्मार्पणैरपि ॥१५॥हरिं परमया भक्त्या जगद्विभवभव्यया ।मनसा पूजयामास प्रह्रादोऽन्तःपुरे पतिम् ॥१६॥अथ देवगृहे तस्मिन्बाह्यार्थैः परिपूर्णया ।पूजया पूजयामास दानवेशो जनार्दनम् ॥१७॥बहिर्द्रव्यैरनेनैव क्रमेण परमेश्वरम् ।पुनःपुनः पूजयित्वा तुष्टिमान्दानवोऽभवत् ॥१८॥ततस्ततः प्रभृत्येव प्रह्रादः परमेश्वरम् ।तथैव प्रत्यहं भक्त्या पूजयामास पूर्णया ॥१९॥अथ तस्मिन्पुरे दैत्यास्ततः प्रभृति वैष्णवाः ।सर्व एवाभवन्भव्या राजा ह्याचारकारणम् ॥२०॥जगाम वार्ता गगनं देवलोकमथारिहन् ।विष्णोर्द्वेषं परित्यज्य भक्ता दैत्याः स्थिता इति ॥२१॥देवा विस्मयमाजग्मुः शक्राद्याः समरुद्गणाः ।गृहीता वैष्णवी भक्तिर्दैत्यैः किमिति राघव ॥२२॥क्षीरोदे भोगिभोगस्थं विबुधा विस्मयाकुलाः ।जग्मुरम्वरमुत्सृज्य हरिमाहवशालिनम् ॥२३॥तत्रैनं दैत्यवृत्तान्तं कथयामासुरस्य ते ।पप्रच्छुश्चैनमासीनमपूर्वाश्चर्यविस्मयम् ॥२४॥विबुधा ऊचुः ।किमेतद्भगवन्दैत्या विरुद्धा ये सदैव ते ।ते हि तन्मयतां याता मायेयमिति भाव्यते ॥२५॥क्व किलात्यन्तदुर्वृत्ता दानवा दलिताद्रयः ।क्व पाश्चात्यमहाजन्मलभ्या भक्तिर्जनार्दने ॥२६॥प्राकृतो गुणवाञ्जात इत्येषा भगवन्कथा ।अकालपुष्पमालेव सुखायोद्वेजनाय च ॥२७॥नोपपन्नं हि यद्यत्र तत्र तन्न विराजते ।मध्ये काचकलापस्य महामूल्यो मणिर्यथा ॥२८॥यो यो यादृग्गुणो जन्तुः स तामेवैति संस्थितिम् ।सदृशेष्वप्यजेषु श्वा न मध्ये रमते क्वचित् ॥२९॥न तथा दुःखयन्त्यङ्गे मज्जन्त्यो वज्रसूचयः ।वैसादृश्येन संबद्धा यथैता वस्तुदृष्टयः ॥३०॥यद्यत्र क्रमसंप्राप्तमुपपन्नमनिन्दितम् ।तदेव राजते तत्र जलेऽम्भोजं नतु स्थले ॥३१॥क्वाधमः प्राकृतारम्भो हीनकर्मरतिः सदा ।वराको दानवो हीनजातिर्भक्तिः क्व वैष्णवी ॥३२॥कमलिनी परुषोषरभूगता सुखयतीह यथा न दुराश्रया ।दितिसुतोऽपि हि माधवभक्तिमानिति कथा न तथेश सुखाय नः ॥३३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विबुधवाक्यं नाम द्वात्रिंशः सर्गः ॥३२॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP