संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ४५ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ४५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथापश्यदसौ गाधिः स्वाधिपीवरया धिया ।अन्तर्जलस्थ एवान्तरात्मनात्मनि निर्मले ॥१॥भूतमण्डलपर्यन्तग्रामोपान्तनिवासिनाम् ।श्वपचानां स्त्रिया गर्भे स्थितिमात्मानमाकुलम् ॥२॥गर्भवासभराक्रान्तं पीडितं पेलवाङ्गकम् ।श्वपचीहृदये सुप्तं स्वविष्ठायामिवाकुलम् ॥३॥शनैः पक्वतया काले प्रसूतं मेचकच्छविम् ।श्वपच्या प्रावृषेवाब्दं श्याममावलितं मलैः ॥४॥संपन्नं श्वपचागारे शिशुं श्वपचवल्लभम् ।इतश्चेतश्च गच्छन्तमुत्पीडमिव यामुनम् ॥५॥द्वादशाब्ददशां यातं संस्थितं षोडशाब्दिकम् ।पीवरांसमुदाराङ्गं पयोदमिव मेदुरम् ॥६॥सारमेयपरीवारं विहरन्तं वनाद्वनम् ।निघ्नन्तं मृगलक्षाणि पौलिन्दीं स्थितिमागतम् ॥७॥तमाललतयेवाथ श्रितं श्वपचकान्तया ।स्तनस्तबकशालिन्या नवपल्लवहस्तया ॥८॥श्यामया मलिनाकारदशनामलमालया ।वनपल्लवया भूरिविलासवलिताङ्गया ॥९॥विलसन्तं वनान्तेषु तया सह नवेष्टया ।श्यामलं श्यामया भृङ्गं भृंग्येव कुसुमर्द्धिषु ॥१०॥वनपर्णलतापत्रे वसन्तं व्यसनातुरम् ।विन्ध्यकान्तारमाकारमभ्यागतमिवोद्भटम् ॥११॥विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु च ।निलीनं पत्रपुञ्जेषु गुल्मकेषु कृतालयम् ॥१२॥किंकिरातावतंसाढ्यं यूथिकास्त्रग्विभूषितम् ।केतकोत्तंससुभगं सहकारस्रगाकुलम् ॥१३॥लुलितं पुष्पशय्यासु भ्रान्तमद्रितटीषु च ।तज्ज्ञं काननकोशेषु बहुज्ञं मृगमारणे ॥१४॥प्रसूतमथ शैलेषु पुत्रान्निजकुलाङ्कुरान् ।अत्यन्तविषमोदन्तान्खदिरः कण्टकानिव ॥१५॥कलत्रवन्तं संपन्नं स्थितं प्रक्षीणयौवनम् ।शनैर्जर्जरतां यातं वृष्टिहीनमिव स्थलम् ॥१६॥ततो भूतग्रहग्रामजन्मदेशमुपेत्य तम् ।संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत् ॥१७॥जराजरठतां यातं स्वदेहसमपुत्रकम् ।जीर्णंप्रायरसश्वभ्रतमालतरुसंनिभम् ॥१८॥प्रौढं श्वपचगार्हस्थ्यं कुर्वाणं बहुबान्धवम् ।क्रूरनामार्थवचनं परां वृद्धिमुपागतम् ॥१९॥अथापश्यदसौ गाधिर्यावत्तस्य कलत्रिणः ।जरठः श्वपचेभ्यश्च स्वात्मनो भ्रमहारिणः ॥२०॥तत्कलत्रमशेषेण नीतमावृत्य मृत्युना ।आसारसलिलेनाशु वनपर्णगणो यथा ॥२१॥प्रलपत्येक एवासावटव्यां दुःखकर्शितः ।वियूथ इव सारङ्गो विगतास्थोऽश्रुलोचनः ॥२२॥दिनानि कतिचित्तत्र नीत्वा शोकपरीतधीः ।जहौ स्वदेशं संशुष्कपद्मं सर इवाण्डजः ॥२३॥विजहार बहून्देशाननास्थश्चिन्तयान्वितः ।प्रेर्यमाण इवान्येन वातनुन्न इवाम्बुदः ॥२४॥एकदा प्राप कीराणां मण्डले श्रीमतीं पुरीम् ।खेचरो विहरन्शून्ये सद्विमानमिवाम्बरे ॥२५॥नृत्यद्रत्नांशुकच्छन्नमार्गवृक्षलताङ्गनम् ।आगुल्फाकीर्णकुसुमं चन्दनागुरुसुन्दरम् ॥२६॥सामन्तैर्ललनाभिश्च नागरैश्च निरन्तरम् ।स्वर्गमार्गोपमं राजमार्गमध्यमवाप सः ॥२७॥मणिरत्नकृतागारं तत्र मङ्गलहस्तिनम् ।ददर्शामरशैलेन्द्रमिव संचारचञ्चलम् ॥२८॥मृते राजनि राजार्थं विहरन्तमितस्ततः ।रत्नज्ञमिव रत्नार्थं चिन्तामणिदिदृक्षया ॥२९॥तमसौ श्वपचो नागं कौतुकोद्धुरया दृशा ।चिरमालोकयामास स्पन्दयुक्ताचलोपमम् ॥३०॥आलोकयन्तमादाय तं करेण स वारणः ।स्वकटेऽयोजयन्मेरुस्तटेऽर्कमिव सादरम् ॥३१॥तस्मिन्कटगते नेदुर्जयदुन्दुभयोऽभितः ।कल्पाम्बुद इवाकाशमधिरूढे महार्णवाः ॥३२॥पूरिताशो बभौ राजा जयतीति जनस्वनः ।उदभूत्संप्रबुद्धानां विहगानामिवारवः ॥३३॥उदभूद्बन्दिवृन्दानां घनकोलाहलस्ततः ।वेलाविलुलिताम्बूनामम्बुधीनामिव ध्वनिः ॥३४॥तं तत्रावरयामासुर्मण्डनार्थं वराङ्गनाः ।क्षीरोदगतविभ्रान्ता लहर्य इव मन्दरम् ॥३५॥मानिन्यस्तं गुणप्रोतैर्नानारत्नैरपूरयन् ।नानाप्रभाप्रभातार्का वेला इव तटाचलम् ॥३६॥तुषारशिशिरस्पर्शैस्तास्तं हारैरभूषयन् ।श्यामा वननदीपूरैर्वर्षाः श्रृङ्गमिवोत्तमम् ॥३७॥विचित्रवर्णसौगन्ध्यैः पुष्पैरावलयन्स्त्रियः ।वनं मधुश्रिय इव तं लोलकरपल्लवाः ॥३८॥नानावर्णरसामोदैस्तास्तमाशु विलेपनैः ।अलेपयन्प्रभाजालैर्नगोऽभ्रमिव धातुभिः ॥३९॥रत्नकाञ्चनकान्तोऽसावाददे चित्तमाततम् ।संध्याभ्रतारेन्दुनदीव्याप्तं मेरुरिवाम्बरम् ॥४०॥भूषितः सविलासाभिर्बालवल्लीभिरावृतः ।रत्नपुष्पांशुकाकीर्णः कल्पवृक्ष इवाबभौ ॥४१॥तादृशं तमुपाजग्मुः परिवारसमन्विताः ।सर्वाः प्रकृतयः फुल्लं मार्गद्रुममिवाध्वगाः ॥४२॥ता एनमासने सैंहे तत्राभिषिषिचुः क्रमात् ।तस्मिन्नेव गजे शक्रमैरावत इवामराः ॥४३॥एवं स श्वपचो राज्यं प्राप कीरपुरान्तरे ।आरण्यं हरिणं पुष्टमप्राणमिव वायसः ॥४४॥कीरीकरतलाम्भोजप्रमृष्टचरणाम्बुजः ।सर्वाङ्गे कुङ्कुमालेपैः संध्याम्बुधरशोभनः ॥४५॥जज्वाल कीरनगरे नागरीगणवानसौ ।सिंहीगणयुतः सिंहो यथा कुसुमिते वने ॥४६॥हरिहतकरिकुम्भोन्मुक्तमुक्ताकलाप-प्रविरचितशरीरः शान्तचिन्ताविषादः ।अरमत सह सद्भिस्तत्र भोगैः सरस्यांरविकरमदतप्तो वारिपूरैरिवेभः ॥४७॥परिविसृतनृपौजाः सर्वदिक्संस्थिताज्ञःकतिपयदिवसेहासिद्धदेशव्यवस्थः ।प्रकृतिभिरलमूढाशेषराजन्यभारःस गवल इति नाम्ना तत्र राजा बभूव ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते श्वपचराज्यलाभो नाम पञ्चचत्वारिंशः सर्गः ॥४५॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP