संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ४३ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ४३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४३ Translation - भाषांतर श्रीराम उवाच ।भगवन्सर्वधर्मज्ञ शुद्धैस्त्वद्वचनांशुभिः ।निर्वृताः स्म शशाङ्कस्य करैरोषधयो यथा ॥१॥कर्णाभिवाञ्छ्यमानानि पवित्राणि मृदूनि च ।सुखयन्ति गृहीतानि पुष्पाणीव वचांसि ते ॥२॥पौरुषेण प्रयत्नेन सर्वमासाद्यते यदि ।प्रह्लादस्तत्कथं बुद्धो न माधववरं विना ॥३॥श्रीवसिष्ठ उवाच ।यद्यद्राघव संप्राप्तं प्रह्लादेन महात्मना ।तत्तदासादितं तेन पौरुषादेव नान्यतः ॥४॥आत्मा नारायणश्चैव न भिन्नस्तिलतैलवत् ।तथैव शौक्ल्यपटवत्कुसुमामोदवत्तथा ॥५॥यो हि विष्णुः स एवात्मा यो ह्यात्मासौ जनार्दनः ।विष्ण्वात्मशब्दौ पर्यायौ यथा विटपिपादपौ ॥६॥प्रह्लादनामा प्रथममात्मैव स्वयमात्मना ।स्वयैव परया शक्त्या विष्णुभक्तौ नियोजितः ॥७॥प्रह्लादो ह्यात्मनैवैनं वरमर्जितवान्स्वयम् ।स्वत्रं विचारगं कृत्वा स्वयं विदितवान्मनः ॥८॥कदाचिदात्मनैवात्मा स्वयं शक्त्या प्रबुध्यते ।कदाचिद्विष्णुदेहेन भक्तिलभ्येन बोध्यते ॥९॥चिरमाराधितोऽप्येष परमप्रीतिमानपि ।नाविचारवतो ज्ञानं दातुं शक्नोति माधवः ॥१०॥मुख्यः पुरुषयत्नोत्थो विचारः स्वात्मदर्शने ।गौणो वरादिको हेतुर्मुख्यहेतुपरो भव ॥११॥पूर्वमेव बलात्तस्मादाक्रम्येन्द्रियपञ्चकम् ।अभ्यसन्सर्वयत्नेन चित्तं कुरु विचारवत् ॥१२॥यद्यदासाद्यते किंचित्केनचित्क्वचिदेव हि ।स्वशक्तिसंप्रवृत्त्या तल्लभ्यते नान्यतः क्वचित् ॥१३॥पौरुषं यत्नमाश्रित्य प्रोल्लङ्घ्येन्द्रियपर्वतम् ।संसारजलधिं तीर्त्वा पारं गच्छ परं पदम् ॥१४॥विना पुरुषयत्नेन दृश्यते चेज्जनार्दनः ।मृगपक्षिगणं कस्मात्तदासौ नोद्धरत्यजः ॥१५॥गुरुश्चेदुद्धरत्यज्ञमात्मीयात्पौरुषादृते ।उष्ट्रं दान्तं बलीवर्दं तत्कस्मान्नोद्धरत्यसौ ॥१५॥न हरेर्न गुरोर्नार्थात्किंचिदासाद्यते महत् ।आक्रान्तमनसः स्वस्माद्यदासादितमात्मनः ॥१७॥अभ्यासवैराग्ययुतादाक्रान्तेन्द्रियपन्नगात् ।नात्मनः प्राप्यते यत्तत्प्राप्यते न जगत्त्रयात् ॥१८॥आराधयात्मनात्मानमात्मनात्मानमर्चय ।आत्मनात्मानमालोक्य संतिष्ठस्वात्मनात्मनि ॥१९॥शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायिनाम् ।कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ ॥२०॥अभ्यासयत्नौ प्रथमं मुख्यो विधिरुदाहृतः ।तदभावे तु गौणः स्यात्पूज्यपूजामयक्रमः ॥२१॥अस्ति चेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम् ।नास्तिचेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम् ॥२२॥विचारोपशमाभ्यां हि न विनासाद्यते हरिः ।विचारोपशमाभ्यां च मुक्तस्याब्जकरेण किम् ॥२३॥विचारोपशमोपेतं चित्तमाराधयात्मनः ।तस्मिन्सिद्धे भवान्सिद्धो नो चेत्त्वं वनगर्दभः ॥२४॥क्रियते माधवादीनां प्रणयप्रार्थना स्वयम् ।तथैव क्रियते कस्मान्न स्वकस्यैव चेतसः ॥२५॥सर्वस्यैव जनस्यास्य विष्णुरभ्यन्तरे स्थितः ।तं परित्यज्य ये यान्ति बहिर्विष्णुं नराधमाः ॥२६॥हृद्गुहावासिचित्तत्त्वं मुख्यं सानातनं वपुः ।शङ्खचक्रगदाहस्तो गौण आकार आत्मनः ॥२७॥यो हि मुख्यं परित्यज्य गौणं समनुधावति ।त्यक्त्वा रसायनं सिद्धं साध्यं संसाधयत्यसौ ॥२८॥यस्तु भोः स्थितिमेवास्यामात्मज्ञानचमत्कृतौ ।नासादयति संमत्तमनाः स' रघुनन्दन ॥२९॥अप्राप्तात्मविवेकोऽन्तरज्ञचित्तवशीकृतः ।शंखचक्रगदापाणिमर्चयेत्परमेश्वरम् ॥३०॥तत्पूजनेन कष्टेन तपसा तस्य राघव ।काले निर्मलतामेति चित्तं वैराग्यकारिणा ॥३१॥नित्याभ्यासविवेकाभ्यां चित्तमाशु प्रसीदति ।आम्र एव दशामेति साहकारीं शनैः शनैः ॥३२॥एतदप्यात्मनैवात्मा फलमाप्नोति भाषितम् ।हरिपूजाक्रमाख्येन निमित्तेनारिसूदन ॥३३॥वरमाप्नोति यो वापि विष्णोरमिततेजसः ।तेन स्वस्यैव तत्प्राप्तं फलमभ्यासशाखिनः ॥३४॥सर्वेषामुत्तमस्थानां सर्वासां चिरसंपदाम् ।स्वमनोनिग्रहो भूमिर्भूमिः सस्यश्रियामिव ॥३५॥अप्युर्वीखननोत्कस्य कर्षतोऽपि शिलोच्चयम् ।स्वमनोनिग्रहादन्यो नोपायोऽस्तीह कश्चन ॥३६॥तावज्जन्मसहस्राणि भ्रमन्ति भुवि मानवाः ।यावन्नोपशमं याति मनोमत्तमहार्णवः ॥३७॥ब्रह्मविष्ण्विन्द्ररुद्राद्याश्चिरसंपूजिता अपि ।उपप्लवान्मनोव्याधेर्न त्रायन्तेऽपि वत्सलाः ॥३८॥आकारभासुरं त्यक्त्वा बाह्यमान्तरमप्यजम् ।कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम् ॥३९॥संवेद्यनिर्मुक्तनिरामयैक-संविन्मयास्वादमनन्तरूपम् ।सन्मात्रमास्वादय सर्वसारंपारं परं प्राप्स्यसि जन्मनद्याः ॥४०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे प्रह्लादविश्रान्तिर्नाम त्रिचत्वारिंशः सर्गः ॥४३॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP