संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ३६ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ३६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३६ Translation - भाषांतर प्रह्लाद उवाच ।आत्मा सर्वपदातीतश्चिरात्संस्मृतिमागतः ।दिष्ट्या लब्धोऽसि भगवन्नमस्तेस्तु महात्मने ॥१॥अभिवन्द्याथ चालोक्य चिरमालिङ्ग्यसे मया ।कोऽन्यः स्यात्त्वदृते बन्धुर्भगवन्भुवनत्रये ॥२॥हंसि पासि ददासि त्वं स्तौषि यासि विवल्गसि ।अयं प्राप्तोसि दृष्टोसि किं करोषि क्व गच्छसि ॥३॥स्वसत्तापूरिताशेषविश्व विश्वजनीन भोः ।सर्वत्र लक्ष्यसे नित्यमधुना क्व पलायसे ॥४॥आवयोरन्तरं भूरि जन्मव्यवहितान्तरम् ।अदूरमद्य संपन्नं दिष्ट्या दृष्टोऽसि बान्धव ॥५॥नमस्ते कृतकृत्याय कर्त्रे भर्त्रे नमोस्तु ते ।नमः संसारवृन्ताय नित्याय विमलात्मने ॥६॥नमश्चक्राजहस्ताय नमश्चन्द्रार्धधारिणे ।नमो विबुधनाथाय नमस्ते पद्मजन्मने ॥७॥वाच्यवाचकदृष्ट्यैव भेदो योऽयमिहावयोः ।असत्या कल्पनैवैषा वीचिवीच्यम्भसोरिव ॥८॥त्वमेवानन्तयानन्तवस्तुवैचित्र्यरूपया ।भावाभावविलासिन्या नित्ययैव विजृम्भसे ॥९॥नमो द्रष्ट्रे नमः स्रष्ट्रे नमोऽनन्तविकासिने ।नमः सर्वस्वभावाय नमस्ते सर्वगात्मने ॥१०॥प्रतिजन्म चिरं बह्व्यो दीर्घदुःखवता मया ।त्वया मयोपदिष्टेन दग्धेनापहतौजसा ॥११॥आलोकिता लोकदृशो दृष्टा दृष्टान्तदृष्टयः ।न प्राप्तस्तत्त्वयाऽनेन किंचिदासादितं भवेत् ॥१२॥सर्वं मृत्काष्ठपाषाणवारिमात्रमिदं जगत् ।नेहास्ति त्वदृते देव यत्प्राप्तौ नाभिवाञ्छति ॥१३॥देवायमद्य लब्धोऽसि दृष्टोऽस्यधिगतोऽसि च ।संप्राप्तोऽसि गृहीतोऽसि नमस्तेस्तु न मुह्यसि ॥१४॥योऽक्ष्णोः कनीनिकारश्मिजालप्रोतवपुः स्थितः ।देव दर्शनरूपेण कथं सोऽत्र न दृश्यते ॥१५॥यस्त्वक्स्पर्शौ स्पृशन्सर्वं गन्धं तैलं तिले यथा ।स्पर्शमन्तःकरोत्येष स कथं नानुभूयते ॥१६॥यः शब्दश्रवणादन्तः शब्दशक्तिं परामृशन् ।रोमाञ्चं जनयत्यङ्गे स दूरस्थः कथं भवेत् ॥१७॥जिह्वापल्लवलग्नानि स्वदितस्याग्रतोऽपि च ।स्वदन्ते यस्य वस्तूनि स्वदते स न कस्य च ॥१८॥पुष्पगन्धानुपादाय घ्राणहस्तेन देहकम् ।य आलोकयति प्रीत्या कस्यासौ न करे स्थितः ॥१९॥वेदवेदान्तसिद्धान्ततर्कपौराणगीतिभिः ।यो गीतः स कथं ह्यात्मा विज्ञातो याति विस्मृतिं ॥२०॥सैवेह देहभोगाली सुभगापीयमद्य मे ।अन्तर्न स्वदते स्वच्छे त्वयि दृष्टे परावरे ॥२१॥त्वया विमलदीपेन भानुः प्रकटतां गतः ।त्वया शीततुषारेण चन्द्रः शिशिरतां गतः ॥२२॥त्वयैते गुरवः शैलास्त्वयैते द्युचरा धृताः ।त्वयैवेयं धरा धीरा त्वयैवाम्बरमम्बरम् ॥२३॥दिष्ट्या मत्तामसि प्राप्तो दिष्ट्या त्वत्तामहं गतः ।अहं त्वं त्वमहं देव दिष्ट्या भेदोऽस्ति नावयोः ॥२४॥अहं त्वमितिशब्दाभ्यां पर्यायाभ्यां महात्मनः ।तव वा मम वा शाखा संयुक्ताभ्यां नमोनमः ॥२५॥नमो मह्यमनन्ताय निरहंकाररूपिणे ।नमो मह्यमरूपाय नमः समसमात्मने ॥२६॥मय्यात्मनि समे स्वच्छे साक्षिभूते निराकृतौ ।दिक्कालाद्यनवच्छिन्ने स्वात्मन्येवेह तिष्ठसि ॥२७॥मनः प्रक्षोभमायाति स्फुरन्तीन्द्रियवृत्तयः ।शक्तिरुल्लसति स्फारा प्राणापानप्रवाहिनी ॥२८॥वहन्ति देहयन्त्राणि कृष्टान्याशावरत्रयाचर्ममांसास्थिदिग्धानि मनःसारथिमन्ति च ॥२९॥अयं संविद्वपुरहं न काचिन्न कृतास्पदः ।देहः पततु वोदेतु यथाभिमतयेच्छया ॥३०॥चिरादहमहं जातः स्वात्मलाभश्चिरादयम् ।चिरादुपशम याति कल्पस्यान्ते जगद्यथा ॥३१॥चिरात्संसारगामित्वाद्दीर्घे संसारवर्त्मनि ।विश्रान्तोऽस्मिचिरं श्रान्तः कल्पस्यान्त इवानलः ॥३२॥सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः ।तेभ्योऽपि च नमस्तेस्तु ये मां त्वां प्रवदन्ति च ॥३३॥अखिलानन्तसंभोगा न स्पृष्टा दोषवृत्तिभिः ।जयत्यकृतसंरम्भा साक्षिता परमात्मनः ॥३४॥आत्मन्पुष्प इवामोदो भस्त्रापिण्ड इवानिलः ।तिले तैलमिवास्मिंस्त्वं सर्वत्र वपुषि स्थितः ॥३५॥हंसि पासि ददासि त्वमवस्फूर्जसि वल्गसि ।अनहंकृतिरूपोऽपि चित्रेयं तव मायिता ॥३६॥जयामीशज्वलद्दीप्तिः सर्वमुन्मीलयञ्जगत् ।जयाम्युपरतारम्भो जगद्भूयो निमीलयन् ॥३७॥परमाणोस्तवैवान्तरिदं संसारमण्डलम् ।वटत्वं वटधानायां बभूवास्ति भविष्यति ॥३८॥हयद्विपरथाकारैर्यद्वत्खे दृश्यतेऽम्बुदः ।तद्वदालोक्यसे देव पदार्थशतविभ्रमैः ॥३९॥भावानां भूरिभङ्गानामभवाय भवाय च ।भव भावविमुक्तात्मा भावाभावबहिष्कृतः ॥४०॥जहि मानं महाकोपं कालुष्यं क्रूरतां तथा ।न महान्तो निमज्जन्ति प्राकृते गुणसंकटे ॥४१॥प्राक्तनीं दीर्घदौरात्म्यदशां स्मृत्वा पुनःपुनः ।कोहं किं तद्बभूवेति हसन्मुक्ताच्छटासितम् ॥४२॥ते प्रयाताः समारम्भा गतास्ते दग्धवासराः ।येषु चिन्तानलज्वालाजालाकीर्णो भवानभूत् ॥४३॥अद्य त्वं देहनगरे राजा स्फारमनोरथः ।न दुःखैर्गृह्यसे नापि सुखैर्व्योम करैरिव ॥४४॥अद्येन्द्रियदुरश्वांश्च जित्वा जितमनोगजः ।भोगारिमभितो भङ्क्त्वासाम्राज्यमधितिष्ठसि ॥४५॥अपाराम्बरपान्थस्त्वमजस्रास्तमयोदयः ।अवभासकरो नित्यं बहिरन्तश्च भास्करः ॥४६॥सर्वदैवासि संसुप्तः शक्त्या संबोध्यसे विभो ।भोगालोकनलीलार्थं कामिन्या कामुको यथा ॥४७॥दृक्क्षुद्राभिरुपानीतं दूराद्रूपमधु त्वया ।पीयते स्वीकृतं शक्त्या नेत्रवातायनस्थया ॥४८॥ब्रह्माण्डकोटराध्वान्ताः प्राणापानपरैस्त्वया ।गतागतैर्ब्रह्मपुरे संप्रेक्ष्यन्ते प्रतिक्षणम् ॥४९॥देहपुष्पे त्वमामोदो देहेन्दौ त्वमृतामृतम् ।रसस्त्वं देहविटपे शैत्यं देहहिमे भवान् ॥५०॥त्वय्यस्ति विस्मयस्नेहः शरीरक्षीरसर्पिषि ।त्वमन्तरस्य देहस्य दारुण्यग्निरिव स्थितः ॥५१॥त्वमेवानुत्तमास्वादः प्राकाश्यं तेजसामपि ।अवगन्ता त्वमर्थानां त्वं भासामवभासकः ॥५२॥स्पन्दस्त्वं सर्ववायूनां त्वं मनोहस्तिनो मदः ।प्रज्ञानलशिखायास्त्वं प्राकाश्यं तैक्ष्ण्यमेव च ॥५३॥त्वद्वशादियमात्मीया वाचा संप्रविलीयते ।दीपवत्पुनरन्यत्र समुदेति कुतोऽपि सा ॥५४॥त्वयि संसारवर्तिन्यः पदार्थावलयस्तथा ।कटकाङ्गदकेयूरयुक्तयः कनके यथा ॥५५॥भवानयमयं चाहंत्वंशब्दैरेवमादिभिः ।स्वयमेवात्मनात्मानं लीलार्थं स्तौषि वक्षि च ॥५६॥मन्दानिलविनुन्नोऽब्दो गजाश्वनरदृष्टिभिः ।यथा संलक्ष्यते व्योम्नि तथा त्वं भूतदृष्टिभिः ॥५७॥यथा हयगजाकारैर्ज्वाला लसति वह्निषु ।तथैवाव्यतिरिक्तैस्त्वं दृश्यसे भुवि सृष्टिषु ॥५८॥त्वं ब्रह्माण्डकमुक्तानामच्छिन्नस्तन्तुराततः ।क्षेत्रं त्वं भूतसस्यानां चिद्रसायनसेवितम् ॥५९॥असत्तदनभिव्यक्तं पदार्थानां प्रकाश्यते ।त्वया तत्त्वं यथा पक्त्या मांसानां स्वादवेदनम् ॥६०॥विद्यमानापि वस्तुश्रीर्न स्थिता त्वयि न स्थिते ।वनितारूपलावण्यसत्तेव गतचक्षुषः ॥६१॥सदपीह न सत्तायै वस्तु नावर्जितं त्वया ।तृप्तये न स्वलावण्यं मुकुरात्प्रतिबिम्बितम् ॥६२॥लुठति त्वां विना देहः काष्ठलोष्टसमः क्षितौ ।सन्नप्यसन्नगोच्छ्रायः श्यामास्विव रविं विना ॥६३॥सुखदुःखक्रमः प्राप्य भवन्तं परिनश्यति ।प्राकाश्यमासाद्य यथा तमस्तेजोऽथवा हिमम् ॥६४॥त्वदालोकनयैवैते स्थितिं यान्ति सुखादय ।सूर्यालोकनया प्रातर्वर्णाः शुक्लादयो यथा ॥६५॥लब्धात्मानो विनश्यन्ति संबन्धक्षण एव ते ।ते तमांसीव दीपस्य दृष्टा एव व्रजन्त्यलम् ॥६६॥तमस्ता तमसो दीपासत्तायां स्फुटतां गता ।दीपसंबन्धसमये सा चोत्पद्य विनश्यति ॥६७॥तदेवं सुखदुःखश्रीर्दृष्ट्वैव त्वामनामयम् ।जायते जातमात्रैवं सर्वनाशेन नश्यति ॥६८॥भङ्गुरत्वादिह स्थातुं कालं नाणुमपि क्षमा ।निमेषलक्षभागाख्या तन्वी कालकला यथा ॥६९॥गान्धर्वी नगरी तन्वी सुखदुःखादिभावना ।स्फुरति त्वत्प्रसादेन त्वयि दृष्टे विलीयते ॥७०॥त्वदालोकेक्षणोद्भूता त्वदालोकेक्षणक्षया ।मृतेव जाता जातेव मृता केनोपलक्ष्यते ॥७१॥क्षणमप्यस्थिरं वस्तु कथं कार्यकरं भवेत् ।तरङ्गैरुत्पलाकारैर्माला कथमवेक्ष्यते ॥७२॥यदा वा जातनिर्नष्टं क्रियां वस्तु करिष्यते ।तदा रमेत लोकोऽयं मालां कृत्वा तडिद्गणैः ॥७३॥इमां सुखादिकां लक्ष्मीं विवेकिजनचेतसि ।स्थितः सन्नेव गृह्णासि न जहासि समस्थितिम् ॥७४॥अविवेकिषु योऽसि त्वं सहजात्मन्यदृच्छया ।तद्रूपकथनेनालं ममानल्पपदास्पद ॥७५॥निरीहेण निरंशेन निरहंकृतिना त्वया ।सता वाप्यसता वापि कर्तृत्वमुररीकृतम् ॥७६॥जय प्रोड्डामराकार जय शान्तिपरायण ।जय सर्वागमातीत जय सर्वागमास्पद ॥७७॥जय जात जयाजात जय क्षत जयाक्षत ।जय भाव जयाभाव जय जेय जयाजय ॥७८॥उल्लसाम्युपशाम्यामि तिष्ठाम्यधिगतोऽस्मि च ।जयी जयाय जीवामि नमो मह्यं नमोऽस्तु ते ॥७९॥त्वयि स्थिते मयि विगतामयात्मनिस्वसंस्थितौ व्यपगतरागरञ्जने ।क्व बन्धनं क्व च विपदः क्व संपदोभवाभवौ क्व शममुपैमि शाश्वतम् ॥८०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे आत्मस्तवनं नाम षट्त्रिंशः सर्गः ॥३६॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP