संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः १८ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः १८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।युक्ताशयानां महतामहतानां कुदृष्टिभिः ।स्वभावोऽयं महाबाहो लीलया चरतामिह ॥१॥विहरन्नपि संसारे जीवन्मुक्तमना मुनिः ।आदिमध्यान्तविरसा विहसेज्जागतीर्गतीः ॥२॥सर्वप्रकृतकार्यस्थो मध्यस्थः सर्वदृष्टिषु ।ध्येयं तं वासनात्यागमवलम्ब्य व्यवस्थितः ॥३॥सर्वत्र विगतोद्वेगः सर्वार्थपरिपोषकः ।विवेकोद्द्योतदृष्टात्मा प्रबोधोपवनस्थितिः ॥४॥सर्वातीतपदालम्बी पूर्णेन्दुशिशिराशयः ।नोद्वेगी नच तुष्टात्मा संसारे नावसीदति ॥५॥सर्वशत्रुषु मध्यस्थो दयादाक्षिण्यसंयुतः ।प्राप्तकर्मकरोऽग्र्याणां संसारे नावसीदति ॥६॥नाभिनन्दति न द्वेष्टि न शोचति न काङ्क्षति ।मौनस्थः प्रकृतारम्भी संसारे नावसीदति ॥७॥पृष्टः सन्प्रकृतं वक्ति न पृष्टः स्थाणुवत्स्थितः ।ईहितानीहितैर्मुक्तः संसारे नावसीदति ॥८॥सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् ।आशयज्ञश्च भूतानां संसारे नावसीदति ॥९॥युक्तायुक्तदृशा ग्रस्तमाशोपहतचेष्टितम् ।जानाति लोकदृष्टान्तं करकोटरबिल्ववत् ॥१०॥परं पदमुपारूढो भङ्गुरां जागतीं स्थितिम् ।अन्तःशीतलया बुद्ध्या हसन्निव निरीक्षते ॥११॥जितचित्ता महात्मानो ये हि दृष्टपरावराः ।स्वभाव ईदृशस्तेषां कथितस्तव राघव ॥१२॥वयं तु वक्तुं मूर्खाणामजितात्मीयचेतसाम् ।भोगकर्दममग्नानां न विद्मोऽभिमतं मतम् ॥१३॥तेषामभिमता नार्यो भावाभावविभूषिताः ।ज्वालानरकवह्नीनां यास्ताः कनकरोचिषः ॥१४॥अनर्थगहनाश्चार्था व्यर्थानर्थकदर्थनाः ।दिशन्तो दुःखसंरम्भमभितः प्रहितापदः ॥१५॥फलसंधीनि कर्माणि नानाचारमयानि च ।सुखदुःखावपूर्णानि तानि वक्तुं न शक्नुमः ॥१६॥पूर्णां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् ।जीवन्मुक्ततया स्वस्थो लोके विहर राघव ॥१७॥अन्तः संत्यक्तसर्वाशो वीतरागो विवासनः ।बहिः सर्वसमाचारो लोके विहर राघव ॥१८॥उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् ।अन्तः सर्वपरित्यागी लोके विहर राघव ॥१९॥प्रविचार्य दशाः सर्वा यदतुच्छं परं पदम् ।तदेव भावेनालम्ब्य लोके विहर राघव ॥२०॥अन्तर्नैराश्यमादाय बहिराशोन्मुखेहितः ।बहिस्तप्तोऽन्तराशीतो लोके विहर राघव ॥२१॥बहिः कृत्रिमसंरम्भो हृदि संरम्भवर्जितः ।कर्ता बहिरकर्तान्तर्लोके विहर राघव ॥२२॥ज्ञातवानसि सर्वेषां भावानां सम्यगन्तरम् ।यथेच्छसि तथा दृष्ट्या लोके विहर राघव ॥२३॥कृत्रिमोल्लासहर्षस्थः कृत्रिमोद्वेगगर्हणः ।कृत्रिमारम्भसंरम्भो लोके विहर राघव ॥२४॥त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः ।अगृहीतकलङ्काङ्को लोके विहर राघव ॥२५॥आशापाशशतोन्मुक्तः समः सर्वासु वृत्तिषु ।बहिः प्रकृतिकार्यस्थो लोके विहर राघव ॥२६॥न बन्धोऽस्ति न मोक्षोऽस्ति देहिनः परमार्थतः ।मिथ्येयमिन्द्रजालश्रीः संसारपरिवर्तिनी ॥२७॥भ्रान्तिमात्रमिदं मोहाज्जगद्राघव दृश्यते ।जनितप्रत्ययं स्फारं जलं तीव्रातपे यथा ॥२८॥अबद्धस्यैकरूपस्य सर्वगस्यात्मनः कथम् ।बन्धः स्यात्तदभावे तु मोक्षः कस्य विधीयते ॥२९॥अतत्त्वज्ञानजातेयं संसारभ्रान्तिरातता ।तत्त्वज्ञानात्क्षयं याति रज्ज्वामिव भुजङ्गधीः ॥३०॥ज्ञातवानसि तत्त्वं स्वमेकया सूक्ष्मया धिया ।जातोऽसि निरहंकारो व्योमवत्तिष्ठ निर्मलः ॥३१॥ज्ञोऽसि त्वित्थं तदखिलाः सुहृद्बान्धववासनाः ।संत्यजासत्स्वभावस्य का नाम किल भावना ॥३२॥अपि चेत्थं तदन्यस्त्वं सत्त्ववाननुमीयसे ।इदं प्रथमतः प्राप्तं परमादपि कारणात् ॥३३॥भोगबन्धुजगद्भावैः कर्मभिश्च शुभाशुभैः ।आत्मनो नास्ति संबन्धः किमेताननुशोचसि ॥३४॥आत्मतत्त्वेकसारोऽहमिति जातधियो भयैः ।न ते रामास्ति संबन्धः किं बिभेषि जगद्भ्रमात् ॥३५॥अजातस्य सतो बन्धोर्बन्धुदुःखसुखभ्रमैः ।कस्ते राघव संबन्धो यदेताननुशोचसि ॥३६॥त्वं चेद्बभूविथ पुरा तथेदानीं भविष्यसि ।अद्य चेह स्थितोऽसीति ज्ञातवानसि निश्चयम् ॥३७॥तदानन्तरगानन्यान्प्राणादीन्निकटस्थितान् ।बन्धूनतीतान्सुबहून्कस्मात्त्वं नानुशोचसि ॥३८॥पूर्वमन्यस्तथेदानीं बभूविथ भविष्यसि ।यदि राम तथापि त्वं सद्रूपं किं विमुह्यसि ॥३९॥पुरा भूत्वाद्य भूत्वा च भूयश्चेन्न भविष्यसि॥तथापि क्षीणसंसारः किमर्थमनुशोचसि ॥४०॥तस्मान्न दुःखिता युक्ता प्राकृते जागते क्रमे ।तथैव मुदिता युक्ता युक्तं कार्यानुवर्तनम् ॥४१॥मा गच्छ दुःखितां राम सुखितामपि मा व्रज ।समतामेहि सर्वत्र परमात्मा हि सर्वगः ॥४२॥अनन्तः सत्स्वरूपस्त्वं खमिवातिततान्तरम् ।प्रकाशो नित्यशुद्धस्त्वं ज्वालानामिव कोटरम् ॥४३॥जागतानां पदार्थानामदृष्टात्मतनुस्तनुः ।हृत्स्थोऽसि हारमुक्तानामेकस्तन्तुरिवाततः ॥४४॥संसारस्थितिरेवेयं यद्भूत्वा भूयते पुनः ।अज्ञेनैव न तज्ज्ञेन ज्ञोऽसि राम सुखी भव ॥४५॥स्वरूपमिदमस्यास्तु संसृतेः सतताधिमत् ।अज्ञानात्स्फारतामेति ज्ञातवानसि सन्मते ॥४६॥रूपं किमन्यद्भवतु भ्रममात्रादृते भ्रमे ।स्वप्नमात्रादृते स्वप्ने भवत्यन्यो हि कः क्रमः ॥४७॥सर्वशक्तेरियं शक्तिर्भ्रममात्रमयं तथा ।राम दृश्यत एवेदमाभानमतिभास्वरम् ॥४८॥सुबन्धुः कस्यचित्कः स्यादिह नो कश्चिदप्यरिः ।सदा सर्वे च सर्वस्य सर्वं सर्वेश्वरेच्छया ॥४९॥आलूनशीर्णमखिलमिदमन्योन्यसंश्रितम् ।अनारतं याति जगत्तरङ्गौघ इवाम्भसः ॥५०॥अध ऊर्ध्वत्वमायाति यात्यूर्ध्वत्वमधस्तथा ।संसारस्य चलस्यास्य चक्रनेमिरिवाभितः ॥५१॥स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपम् ।योनेर्योन्यन्तरं यान्ति द्वीपाद्द्वीपान्तरं जनाः ॥५२॥धीराः कार्पण्यमायान्ति कृपणा यान्ति धीरताम् ।परिस्फुरन्ति भूतानि पातोत्पातशतभ्रमैः ॥५३॥एकरूपस्थिरं चक्रं स्वच्छं संतापवर्जितम् ।नेह संप्राप्यते किंचिदग्नौ हिमकणो यथा ॥५४॥ये ये नाम महाभागा बहवो बान्धवास्तथा ।विनष्टा एव दृश्यन्ते ते ते कतिपयैर्दिनैः ॥५५॥परतात्मीयतान्यत्वत्वत्वमत्त्वादिभावना ।नेह सत्या महाबाहो द्विचन्द्रादिदृशो यथा ॥५६॥अयं बन्धुः परश्चायमयं चाहमयं भवान् ।इति मिथ्यादृशो राम विगलन्तु तवाधुना ॥५७॥क्रीडार्थं व्यवहारस्थ एताभिर्हतदृष्टिभिः ।आमूलमन्तश्छिन्नाभिर्बहिर्विहर हेलया ॥५८॥संसारसरणावस्यां तथा विहर सुव्रत ।न यथैव श्रमश्रान्तो वासनाभारवानिव ॥५९॥यथा यथैषा कार्याणि वासनाक्षयकारिणी ।विचारणा तवोदेति संशाम्यन्ति तथा तथा ॥६०॥अयं बन्धुरयं नेति गणना लघुचेतसाम् ।उदारचरितानां तु विगतावरणैव धीः ॥६१॥न तदस्ति न यत्राहं न तदस्ति न यन्मम ।इति निर्णीय धीराणां विगतावरणैव धीः ॥६५॥नास्तमेति न चोदेति यश्चिदाकाशवन्महान् ।सर्वं संपश्यति स्वस्थः स्वस्थो भूमितलं यथा ॥६३॥सर्वा एव हि ते भूतजातयो राम बन्धवः ।अत्यन्तासंयुता एतास्तव राम न काश्चन ॥६४॥विविधजन्मशताहितसंभ्रमेजगति बन्धुरबन्धुरितीक्षणम् ।भ्रमदशैव विवल्गति वस्तुत-स्त्रिभुवनं चिरबन्धुरबन्ध्वपि ॥६५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तवर्णनं नामाष्टादशः सर्गः ॥१८॥ N/A References : N/A Last Updated : September 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP