संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः २२ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः २२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथवा रघुवंशाख्यनभःपूर्णनिशाकर ।बलिवद्बुद्धिभेदेन ज्ञानमासादयामलम् ॥१॥श्रीराम उवाच ।भगवन्सर्वधर्मज्ञ त्वत्प्रसादान्मया हृदि ।प्राप्तं प्राप्तव्यमखिलं विश्रान्तं चामले पदे ॥२॥शरदीवाम्बरादभ्रमदभ्रं मम चेतसः ।विभो व्यपगतं सर्वं तृष्णाख्यं तन्महातमः ॥३॥अमृतापूरितः स्वस्थः शीतलात्मा महाद्युतिः ।तिष्ठाम्यानन्दवानन्तः सायं पूर्णं इवोडुराट् ॥४॥अशेषसंशयाम्भोदशरत्समय किंत्वहम् ।तृप्तिमेषां न गच्छामि वचसां वदतस्तव ॥५॥बलेर्विज्ञानसंप्राप्तिं पुनर्मद्बोधवृद्धये ।विभो कथय खिद्यन्ते सन्तो नावनतं प्रति ॥६॥श्रीवसिष्ठ उवाच ।श्रृणु राघव ते वक्ष्ये बलेर्वृत्तान्तमुत्तमम् ।श्रुतेन येन तं तत्त्वबोधं प्राप्स्यसि शाश्वतम् ॥७॥अस्त्यस्मिञ्जगतः कोशे कस्मिंश्चिद्दिङ्निकुञ्जके ।पातालमिति विख्यातो लोको भूमेरधः स्थितः ॥८॥क्षीरोदार्णवजाताभिर्दिरधाभिरमृतांशुभिः ।क्वचिद्दानवकन्याभिर्भाति निर्विवरान्तरः ॥९॥जिह्वागणोद्दामरवैर्विलोलरसनायुगैः ।क्वचिद्भोगिभिरापूर्णः सहस्रशतमस्तकैः ॥१०॥देहाद्रिवलिताशेषविश्वोद्धरणघस्मरैः ।क्वचिद्दनुसुतैर्व्याप्तश्चलद्भिरिव मेरुभिः ॥११॥कुम्भकूटाग्रविश्रान्तवसुधामण्डलोदरैः ।क्वचिद्दिग्दन्तिभिर्दन्तद्रुमाद्रिभिरुपाश्रितः ॥१२॥महाकटकटाशब्दत्रस्तभूतपरम्परैः ।क्वचिद्दुर्गन्धभूताभैरधोनारकमण्डलैः ॥१३॥आभूतलमभिप्रोतसप्तपातालमण्डलैः ।क्वचिद्रत्नाकरैर्व्याप्तः पातालैर्विवरैरिव ॥१४॥सुरासुरशिरःसुप्तपादाम्भोरुहपांसुना ।क्वचिद्भगवता तेन कपिलेन पवित्रितः ॥१५॥आसुरीसंभृतानन्तपूजनक्रीडनैषिणा ।क्वचिद्भगवता तेन हाटकेशेन पालितः ॥१६॥तस्मिन्नसुरदोस्तम्भधार्यमाणमहाभरे ।बभूव दानवो राजा विरोचनसुतो बलिः ॥१७॥साक्रन्देन समं सर्वैः सुरविद्याधरोरगैः ।पादसंवाहनं यस्य सुरराजेन वाञ्छितम् ॥१८॥कोशस्त्रैलोक्यरत्नानां पाता सर्वशरीरिणाम् ।धर्ता भुवनधर्तृणां यस्य पालयिता हरिः ॥१९॥ऐरावणस्य संशोषं यन्नाम्ना कटभित्तयः ।केकयेवाहिहृन्नाड्यो जग्मुराजग्मुरार्तताम् ॥२०॥प्रतापोग्रोष्मभिर्यस्य कल्पकाल इवाब्धयः ।ययुः शोषोन्मुखाः सप्त सप्ततां कुपिताकृतेः ॥२१॥यदध्वराग्र्यधूमाभ्रराजयो वलिताब्धयः ।ब्रह्माण्डकोटरस्यास्य सदा कवचतां ययुः ॥२२॥यस्य दृष्टिदृढाघातनुन्नाधारकुलाचलाः ।विनमन्ति दिशः सर्वा लताः फलनता इव ॥२३॥लीलाविजितनिःशेषभुवनाभोगभूषणः ।दशकोटीः स वर्षाणि दैत्यो राज्यं चकार ह ॥२४॥अथ गच्छत्स्वनल्पेषु युगेष्वावर्तवृत्तिषु ।सुरासुरमहौघेषु प्रोत्पतत्सु पतत्सु च ॥२५॥अजस्रमतिभुक्तेषु त्रैलोक्योदारवृत्तिषु ।भोगेष्वभजदुद्वेगं बलिर्दानवनायकः ॥२६॥मेरुश्रृङ्गशिखारत्नकृतवातायनस्थितः ।एकदा चिन्तयामास स्वयं संसारसंस्थितिम् ॥२७॥कियन्तमिदमक्षुण्णशक्तिनैव मयाधुना ।साम्राज्यमिह कर्तव्यं विहर्तव्यं जगत्त्रये ॥२८॥महता मम राष्ट्रेण त्रैलोक्याद्भुतकारिणा ।किं वा भवति भुक्तेन भूरिभोगातिहारिणा ॥२९॥आपातमात्रमधुरमावश्यकपरिक्षयम् ।भोगोपभोगमात्रं मे किं नामेदं सुखावहम् ॥३०॥पुनर्दिनैककलनाशर्वरीसंस्थितिः पुनः ।पुनस्तान्येव कर्माणि लज्जायै नच तुष्टये ॥३१॥पुनरालिङ्ग्यते कान्ता पुनरेव च भुज्यते ।सेयं शिशुजनक्रीडा लज्जायै महतामिह ॥३२॥तमेव भुक्तविरसं व्यापारौघं पुनःपुनः ।दिवसे दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते ॥३३॥पुनर्दिनं पुना रात्रिः पुनः कार्यपरम्पराः ।पुनःपुनरहं मन्ये प्राज्ञस्येयं विडम्बना ॥३४॥ऊर्मितां पुनरासाद्य पुनरेति निरूर्मिताम् ।यथा जलं तथैवायं तां तामेति क्रियां जनः ॥३५॥उन्मत्तचेष्टिताकारा पुनःपुनरियं क्रिया ।जनं हासयते प्राज्ञं बाललीलोपमा मुहुः ॥३६॥कृतयाप्यनया नित्यं क्रियया कृतकार्यया ।कोऽर्थः स्यात्तादृशो येन पुनः कर्म न विद्यते ॥३७॥कियन्तमथवा कालमिदमाडम्वरं महत् ।इहास्माभिरनुष्ठेयं किं तावत्समवाप्यते ॥३८॥अनन्तेयं शिशुक्रीडा वस्तुशून्यैव वस्तुतः ।आवृत्त्या क्रियते व्यर्थमनर्थप्रसरार्थिभिः ॥३९॥फलमेकं महोदारं नेह पश्यामि किंचन ।कार्यमस्तीतरत्प्राप्ते यस्मिन्नाम न किंचन ॥४०॥भोगादृते किमन्यत्स्यात्तद्भव्यमविनाशि यत् ।एवं संचिन्तयाम्याशु दध्यौ मत्वेत्यसौ बलिः ॥४१॥अथाभ्युवाचासुरराडाः संस्मृतमिति क्षणात् ।स्वात्मन्येव मनस्यर्थं सभ्रूभङ्गं विमर्शयन् ॥४२॥पुरा किलेह भगवान्पृष्टोऽभूत्स विरोचनः ।पिता मयात्मतत्त्वज्ञो दृष्टलोकपरावरः ॥४३॥यथा सकलदुःखानां सुखानां च महामते ।यत्र सर्वे भ्रमाः शान्ताः कोऽसौ सीमान्त उच्यते ॥४४॥कोपशान्तो मनोमोहः क्वातीताः सकलैषणाः ।विरामरहितं कुत्र तात विश्रमणं चिरम् ॥४५॥किं प्राप्तेह समस्तेभ्यः प्राप्येऽस्मिंस्तृप्तिमान्पुमान् ।किं दृष्ट्वा दर्शनं भूयो न तातोपकरोत्यलम् ॥४६॥अत्यन्तबहवोऽप्येते भोगा हि न सुखावहाः ।क्षोभयन्ति मनो मोहे पातयन्ति सतामपि ॥४७॥तत्ताताविहतानन्दसुन्दरं किंचिदेव मे ।तादृक्कथय यत्रस्थश्चिरं विश्रान्तिमेम्यहम् ॥४८॥इत्याकर्ण्य पुरा निशाकरकरस्पर्धालुगुच्छस्खल-त्पुष्पापूरकृतावगुण्ठनपदस्योक्तं तले तेन मे ।पित्रा स्वर्गहृतस्य सागरतरोः संरोपितस्याजिरेस्फाराकाररसायनासवसमं संमोहशान्त्यै वचः ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे विरोचनस्मरणं नाम द्वाविंशः सर्गः ॥२२॥ N/A References : N/A Last Updated : September 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP