संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ६१ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ६१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवमुत्पलपत्राक्ष राघवाघविपर्यये ।पदमासादयाद्वन्द्वं विशोको भव भूतये ॥१॥एतां दृष्टिमवष्टभ्य न मनः परितप्यते ।घोरे तमसि निर्मग्नं लब्धदीपं शिशुर्यथा ॥२॥विवेकावस्थया चेतस्तथैवायाति निर्वृतिम् ।पतच्छ्वभ्रे दृढतृणप्रचयालम्बनादिव ॥३॥अथैतां पावनीं दृष्टिं भावयित्वाप्युदाहरन् ।नित्यमेकसमाधानो भव भूषितभूतलः ॥४॥श्रीराम उवाच ।कथमेकसमाधानं कीदृशं वा मुनीश्वर ।वाताहतमयूराङ्गरुहलोलं मनो भवेत् ॥५॥श्रीवसिष्ठ उवाच ।श्रृणु तस्यैव सुरघोः प्रबुद्धस्य सतस्तदा ।पर्णादस्य च राजर्षेः संवादमिममद्भुतम् ॥६॥राघवैकसमाधानबोधितायोजितात्मनोः ।परस्परं समालापमिमं प्रकथयामि ते ॥७॥बभूव पारसीकानां पार्थिवः परवीरहा ।परिघो नाम विख्यातः परिघः स्यन्दने यथा ॥८॥स बभूव परं मित्रं सुरघो रघुनन्दन ।नन्दनोद्यानसंस्थस्य मदनस्येव माधवः ॥९॥कदाचित्परिघस्याभूदवर्षं मण्डले महत् ।कल्पान्त इव संसारे प्रजादुष्कृतदोषजम् ॥१०॥विनेशुर्जनतास्तत्र बह्वयः क्षुत्क्षामजीविताः ।ज्वलिते विपिने वह्नौ यथा भूतपरम्पराः ॥११॥तद्दुःखं परिघो दृष्ट्वा विषादमतुलं ययौ ।तत्याजाश्वखिलं राज्यं दग्धं ग्राममिवाध्वगः ॥१२॥प्रजानाशप्रतीकारेष्वसमर्थो विरागवान् ।जगाम विपिने कर्तुं तपोऽजिनमुनीन्द्रवत् ॥१३॥पौराणामपरिज्ञाते कस्मिंश्चिद्दूरकानने ।समुवास विरक्तात्मा लोकान्तर इवापरे ॥१४॥तपश्चरञ्छान्तमतिर्दान्तः कन्दरमन्दिरे ।स्वयं शीर्णानि शुष्काणि तत्र पर्णान्यभक्षयत् ॥१५॥चिरं हुताशवच्छुष्कपर्णान्येवाथ भक्षयन् ।पर्णाद इति नामासौ प्राप मध्ये तपस्विनाम् ॥१६॥ततःप्रभृति पर्णादनामा राजर्षिसत्तमः ।जम्बूद्वीपे बभूवासौ विख्यातो मुनिसद्मसु ॥१७॥ततो वर्षसहस्रेण तपसा दारुणात्मना ।प्रापदभ्यासवशतो ज्ञानमात्मप्रसादजम् ॥१८॥बभूव विगतद्वन्द्वो निराशः शान्तमानसः ।नीरागो निरनुक्रोशो जीवन्मुक्तः प्रबुद्धधीः ॥१९॥विजहार यथाकामं त्रिलोकीमठिकामिमाम् ।सिद्धसाध्यैः समं साधो सहंसालिरिवाज्जिनीम्॥२०॥एकदा तस्य सदनं हेमचूडमहीपतेः ।प्राप रत्नविनिर्माणं मेरोः श्रृङ्गमिवापरम् ॥२१॥ते तत्र प्राक्तने मित्रे पूजामकुरुतां मिथः ।पूर्णौ विज्ञातविज्ञेयौ मौर्ख्यगर्भाद्विनिर्गतौ ॥२२॥अहो नु बत कल्याणैः फलितं मम पावनैः ।संप्राप्तवानहं यत्त्वामित्यन्योन्यमथोचतुः ॥२३॥आलिङ्गितशरीरौ तावन्योन्यानन्दिताकृती ।एकासने विविशतुश्चन्द्रार्काविव भूधरे ॥२४॥परिघ उवाच ।परमानन्दमायातं चेतस्त्वद्दर्शनेन मे ।इन्दुबिम्ब इवोन्मग्नं मनः शीतलतां गतम् ॥२५॥अकृत्रिमसुखं प्रेम वियोगे शतशाखताम् ।प्रयाति पल्वलतटेऽच्छिन्नमूल इव द्रुमः ॥२६॥विश्रब्धास्तान्कथालापांस्ता लीलास्तच्च चेष्टितम् ।संस्मृत्य प्राक्तनं साधो हृष्यामि च पुनःपुनः ॥२७॥ज्ञानमेतन्मया प्राप्तं त्वया ज्ञातं यथाऽनघ ।माण्डव्यस्य प्रसादेन परमात्मप्रसादजम् ॥२८॥अद्य कच्चिददुःखस्त्वं कच्चिद्विश्रान्तवानसि ।परमे कारणे मेराविव भूमण्डलाधिपः ॥२९॥कच्चित्परमकल्याण आत्मारामतया तव ।प्रसादो जायते चित्ते शरदीव सरोम्भसि ॥३०॥कच्चित्करोषि समया सुप्रसन्नगभीरया ।दृष्ट्या सुभग कार्याणि कार्याण्येव नराधिप ॥३१॥निराधिव्याधयो धीराः कच्चित्संपन्नशालयः ।जनतास्तव देशेषु तिष्ठन्ति विगतज्वरम् ॥३२॥कच्चिदुद्दामफलिनी फलिनीव फलानता ।धरा तव फलापूरैर्भृशं धारयति प्रजाः ॥३३॥कच्चित्तव दिगन्तेषु चन्द्रस्येवाशुपञ्जरम् ।तुषारनिकराकारं प्रसृतं पावनं यशः ॥३४॥कच्चिद्रुणगणैरेता दिशो निर्विवरीकृताः ।त्वया सरोम्भसाऽबाह्या विसानामिव भूमयः ॥३५॥कच्चित्कलमकेदारकोणस्थानेषु दृष्यतीः ।प्रतिग्रामं कुमार्यस्ते गायन्त्यानन्दनं यशः ॥३६॥कुशलं तव धान्येषु धनेषु विभवेषु च ।भृत्येषु च कलत्रेषु पुत्रेषु नगरेषु च ॥३७॥आधिव्याधिविहीनेयं कच्चित्कायलता तव ।फलं फलति पुण्यार्थं यदिहामुत्र चोदितम् ॥३८॥आपातरमणीयेषु वर्तेतात्यन्तवैरिषु ।कच्चिद्विषयसर्पेषु सविरागं मनस्तव ॥३९॥अहो बत चिरं कालमावां विश्लेषमागतौ ।कालेन श्लेषितौ भूयो वसन्ताद्रितटाविव ॥४०॥न ता जगति विद्यन्ते सुखदुःखदशाः सखे ।जीवद्भिर्या न दृश्यन्ते संयोगजवियोगजाः ॥४१॥तथैतास्वतिदीर्घासु दशास्वन्यत्वमागताः ।भूयो वयमपि श्लिष्टाश्चित्रो हि नियतेर्विधिः ॥४२॥सुरघुरुवाच ।भगवन्नियतेरस्या गतिं सर्पगतेरिव ।दैविक्याः को हि जानाति गम्भीरां विस्मयप्रदाम् ॥४३॥त्वमहं च व्यपोह्येति दूरे दूरदशासु च ।अद्य संघटितौ भूयः किमसाध्यमहो विधेः ॥४४॥वयं त्वद्य महासत्त्व भृशं कुशलिनः स्थिताः ।त्वदागमनपुण्येन परां पावनतां गताः ॥४५॥पश्य त्वदागमक्षीणपापानां पुण्यपादपैः ।तथा फलितमस्माकं न यथा वयमाकुलाः ॥४५॥सर्वाः संपत्तयोऽस्माकं राजर्षे संस्थिताः पुरे ।भवदागमनेनाद्य प्रयाताः शतशाखताम् ॥४७॥विकिरति परितो रसायनाना-मिव निकरं मधुरं महानुभाव ।तव वचनमवेक्षणं च पुण्यंपरमपदप्रतिमो हि साधुसङ्गः ॥४८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे सुरघुनृ० सुरघुपरिघसमागमो नामैकषष्टितमः सर्गः ॥६१॥ N/A References : N/A Last Updated : September 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP