संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्|
सर्गः ४८

उपशमप्रकरणम् - सर्गः ४८

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
लुठितं श्वपचागारे पुनर्विस्मयमाययौ ।
गाधेर्मनो हि नायाति तृप्तिमाश्चर्यदर्शने ॥१॥
तत्रावलोकयामास स्थानानि सदनानि च ।
कल्पक्षोभविवृत्तानि जगन्तीवाम्बुजोद्भवः ॥२॥
उवाच स्वात्मनैवेदमरण्ये लुठितालये ।
शुष्कास्थिमालावलिते पिशाचक इव द्रुमे ॥३॥
इमास्ता मृतमातङ्गदन्तमाला वृतौ कृताः ।
अद्यापि संस्थिताः कल्पं प्रतिमेरुशिखा इव ॥४॥
इह तद्वानरीमांसं पक्ववंशांकुरैः¬ सह ।
भुक्तं पुरासवोन्मत्तैः सह श्वपचबन्धुभिः ॥५॥
आलिङ्ग्य श्वपचश्यामामिह केसरिचर्मणि ।
सुप्तमापीय मैरेयं तिक्तं गजमदेन च ॥६॥
कौलेयककुटुम्बिन्यः पिण्याकपलवर्धिताः ।
इह बद्धा वरत्राभिर्मृतेभरदकाष्ठके ॥७॥
इह वारणमुक्तानां ददासीत्पिठरत्रयम् ।
पिनद्धं माहिषेणोग्रचर्मणाम्बुदशोभिना ॥८॥
स्थलीष्वेतासु तास्वत्र सह श्वपचबालकैः ।
चिरं विलुठितं चूतपत्रपुञ्जे पिकैरिव ॥९॥
अत्र तद्बालनिःश्वासरणद्वंशप्रवृत्तवत् ।
गीतं पीतं शुनीरक्तं साधिता शवभूषितः ॥१०॥
अत्र सार्धं कुटुम्बेन जन्यत्रेषु कुटुम्बिना ।
नृत्तं तत्कृतमुन्नादं कल्लोलैर्जलधाविव ॥११॥
अत्रोड्डयनलोलानां काकभासपत्त्रिणाम् ।
धृतानामन्यदाशार्थं ग्रथितं वंशपञ्जरम् ॥१२॥
श्रीवसिष्ठ उवाच ।
एवंप्रायाः स्मरन्गाधिः प्राक्तनीः श्वपचक्रियाः ।
विस्मयोत्कम्पितशिरा धातुश्चेष्टां परामृशत् ॥१३॥
चचाल तस्माद्दीर्घेण देशात्कालेन कार्यवित् ।
भूत्मण्डलमुत्सृज्य प्राप देशान्तरं क्रमात् ॥१४॥
समुल्लङ्घ्य नदीशैलमण्डलारण्यसंततिम् ।
आससाद तुषाराद्रिरत्नं किल जनास्पदम् ॥१५॥
तत्र प्राप महीपालनगरं नगसंनिभम् ।
जगद्भ्रमणखिन्नात्मा स्वर्लोकमिव नारदः ॥१६॥
अथात्मनानुभूतानि दृष्टान्यासेवितानि च ।
स्थानानि नगरे पश्यन्पप्रच्छ जनमादृतः ॥१७॥
साधो स्मरसि किंचित्त्वमिह श्वपचमीश्वरम् ।
यदि जानासि तत्त्वं मे वर्णयाशु यथाविधि ॥१८॥
नागरा ऊचुः ।
अभूदिहाष्टौ वर्षाणि श्वपचो भूमिपो द्विज ।
राजत्वमर्पितं यस्य नाम मङ्गलहस्तिना ॥१९॥
अन्ते च संपरिज्ञातः स प्रविष्टो हुताशनम् ।
अद्य द्वादशवर्षाणि समतीतानि तापस ॥२०॥
यं यं पृच्छत्यसौ गाधिर्जनं जातकुतूहलः ।
तस्य तस्य मुखादेव श्रृणोत्यास्वादयत्यपि ॥२१॥
अथापश्यत्पुरे तस्मिन्नृपं सबलवाहनम् ।
देवं चक्रधरं विष्णुं मन्दिरान्निर्गतं बहिः ॥२२॥
स दृष्ट्वा स्थगिताकाशं चलरेणुपयोधरैः ।
प्राक्तनीं राजतां स्मृत्वा समुवाचातिविस्मयः ॥२३॥
इमास्ताः कीरकामिन्यः पद्मगर्भोपमत्वचः ।
कनकद्रववर्णिन्यो लोलनीलोत्पलेक्षणाः ॥२४॥
चामरौघा इमे चन्द्रकरसंपिण्डपाण्डुराः ।
स्थिरनिर्झरसंकाशाः काशपुष्पचया इव ॥२५॥
कान्ताभिरवधूयन्ते बालव्यजनराजयः ।
इमास्ता वनवल्लीभिर्दीप्यमाना इवर्द्धयः ॥२६॥
इमास्ता मत्तमातङ्गघटा घटितदिक्तटाः ।
संकल्पपादपा मेरोरिव श्रृङ्गपरम्पराः ॥२७॥
एते ते यमवारीशकुबेरप्रतिमौजसः ।
सामन्ता वासवस्येव लोकपाला महीभृतः ॥२८॥
इमास्ताः सर्ववस्त्वोघाः सर्वाभिमतदास्तताः ।
कल्पवृक्षलताकुञ्जसुन्दर्यो गृहपङ्क्तयः ॥२९॥
इदं तत्कीरजनताराज्यं प्राग्भुक्तमद्य मे ।
आत्मजन्मान्तराचार इव प्रत्यक्षतां गतम् ॥३०॥
सत्यं स्वप्न इवायं मे जाग्रद्भूतः पुनः स्थितः ।
न जाने किंकृतोत्थाना मायेयं प्रविजृम्भते ॥३१॥
अहो नु खलु दीर्घेण मनोमोहेन वल्गता ।
वैवश्यमुपनीतोऽहं जालेनेव शकुन्तकः ॥३२॥
हा धिक्कष्टमबुद्धं मे मनो वासनया हतम् ।
पश्यति भ्रमजालानि विततानि शिशोरिव ॥३३॥
एषा हि माया महती तेन मे चक्रधारिणा ।
दर्शितेत्यधुना साधु मया स्मृतमखण्डितम् ॥३४॥
तदिदानीं तथा यत्नं करिष्ये गिरिकन्दरे ।
यथाकुसंभ्रमस्यास्य जाने जन्म तथा स्थितिम् ॥३५॥
इति संचिन्त्य नगराद्गाधिस्तस्माज्जगाम ह ।
कन्दरं प्राप्य शैलस्य तस्थौ विश्रान्तसिंहवत् ॥३६॥
तत्र संवत्सरं सार्धं पयश्चुलुकभोजनम् ।
तपश्चक्रे महातेजास्तुष्टये शार्ङ्गधन्वनः ॥३७॥
अथास्य पुण्डरीकाक्षः पयोमूर्तिरुपाययौ ।
प्रसादमुत्पलश्यामः शरदीव महाहदः ॥३८॥
तमाजगाम शैलेन्द्रकन्दरं द्विजमन्दिरम् ।
पयोधरवदच्छाच्छच्छविर्व्योमन्यथावसत् ॥३९॥
श्रीभगवानुवाच ।
गाधे कच्चित्त्वया दृष्टा माया मम गरीयसी ।
दृष्टं त्वया जगज्जालचेष्टितं दैष्टिकात्मकम् ॥४०॥
चित्ताभिगत एतस्मिन्प्राप्ते सम्यगनिन्दितः ।
तपो गिरितटे कुर्वन्किमन्यदभिवाञ्छसि ॥४१॥
श्रीवसिष्ठ उवाच ।
एवं वदन्तमालोक्य हरिं गाधिर्द्विजोत्तमः ।
अर्चां कुसुमपूरेण पादयोः पर्यपूरयत् ॥४२॥
दत्त्वार्ध्यं कीर्णकुसुमः प्रणम्याशु प्रदक्षिणैः ।
विष्णुमाह द्विजो वाक्यमम्भोदमिव चातकः ॥४३॥
गाधिरुवाच ।
देव यैषा त्वया माया दर्शिताऽतितमोमयी ।
महीं प्रातरिवादित्यस्तां मे प्रकटतां नय ॥४४॥
भ्रमं यं पश्यति मनो वासनामलमालितम् ।
स्वप्नवत्स कथं देव जाग्रत्यपि हि दृश्यते ॥४५॥
मुहूर्तमुपलब्धश्च जलान्तः स्वप्नविभ्रमः ।
कथं प्रत्यक्षतां प्राप्तो ममामलपदास्पद ॥४६॥
दैर्घ्यादैर्घ्येऽस्य कालस्य शरीरस्य भवाभवाः ।
कथमन्तस्थिता न स्युर्मदीयैः श्वपचभ्रमैः ॥४७॥
श्रीभगवानुवाच ।
गाधे स्वाधिविधूतस्य स्वरूपस्यैतदात्मकम् ।
चेतसोऽदृष्टतत्त्वस्य यत्पश्यत्युरुविभ्रमम् ॥४८॥
बहिर्न किंचिदप्यस्ति खाद्यब्ध्युर्वीदिगादिकम् ।
एतत्स्वचित्त एवास्ति पत्रपुञ्जमिवाङ्कुरे ॥४९॥
फलादि स्फारतामेति यथैव बहिरङ्कुरात् ।
बहिः प्रकटतां याति तथा पृथ्व्यादिचेतसः ॥५०॥
सत्यं पृथ्व्यादि चित्तस्थं न बहिष्ठं कदाचन ।
अङ्कुरस्थः पल्लवस्तु तस्माद्यस्मात्फलश्रियः ॥५१॥
रूपालोकमनस्कारतत्ताकालक्रियात्मकम् ।
कुम्भकारो घटमिव चेतो हन्ति करोति च ॥५२॥
आबालमेतत्पुरुषैः सर्वैरेवानुभूयते ।
स्वप्नभ्रममदावेगरागरोगादिदृष्टिषु ॥५३॥
चित्ते वृत्तान्तलक्षाणि संस्थितान्यात्तवासने ।
पादपे फलपुष्पाणि मूलाक्रान्तावनाविव ॥५४॥
त्यक्तावनेर्विटपिनो भूयः पत्राणि नो यथा ।
निर्वासनस्य जीवस्य पुनर्जन्मादि नो तथा ॥५५॥
यत्रानन्तजगज्जालं संस्थितं तेन तेजसा ।
श्वपचत्वं प्रकटितं यदि तद्विस्मयोऽत्र किम् ॥५६॥
अवबुद्धा श्वपचता प्रतिभासवशात्त्वया ।
यथैवानल्पसंरम्भा विचित्राधिविकारदा ॥५७॥
तथैवातिथिरायातो भुक्तवान्सुप्तवान्द्विजः ।
कथां कथितवांश्चेति दृष्टवानसि संभ्रमम् ॥५८॥
तथैवोत्थाय गच्छामि प्राप्तोऽहं भूतमण्डलम् ।
इमे भूता इमे ग्रामा दृष्टवानसि संभ्रमम् ॥५९॥
तथैवेदं कटंजस्य प्राक्तनं लुठितं गृहम् ।
जनैरुक्तं कटंजस्य दृष्टवानसि संभ्रमम् ॥६०॥
तथैव कीरनगरं प्राप्तोऽस्मि कथितं च मे ।
कीरैः श्वपचराजत्वं दृष्टवानसि सभ्रमम् ॥६१॥
एवं सर्वं त्वया दृष्टं मोहजालं द्विजोत्तम ।
यत्सत्यमिति जानासि यच्चासत्यमवैषि च ॥६२॥
वासनावलितं चेतः किं नामान्तर्न पश्यति ।
साधितं दृश्यते स्वप्ने वर्षसाध्यं प्रयोजनम् ॥६३॥
नातिथिर्न च भूतास्ते न कीरास्ते न तत्पुरम् ।
सर्वमेतन्महाबुद्धे व्यामोहाद्दृष्टवानसि ॥६४॥
गच्छता भवता भूतदेशं पान्थेन कन्दरे ।
कस्मिंश्चिद्विप्र विश्रान्तं कुरङ्गेणेव कानने ॥६५॥
तत्रैव श्रममूढत्वादिदं तद्भूतमण्डलम् ।
इदं तच्छ्वपचागारमिति दृष्टं न सत्यतः ॥६६॥
तथैव कीरनगरं दृष्टवानसि तत्तथा ।
तदैव चान्यदा वापि मायार्थं हि भवान्द्विज ॥६७॥
सर्वदैव समग्रासु विहरन्नसि दृष्टवान् ।
दिक्षु प्रोन्मत्तक इव विभ्रमं मनसा मुने ॥६८॥
तदुत्तिष्ठ निजं कर्म कुर्वंस्तिष्ठोपशान्तधीः ।
न स्वकर्म विना श्रेयः प्राप्नुवन्तीह मानवाः ॥६९॥
श्रीवसिष्ठ उवाच ।
इति निगदितवान्स पद्मनाभो
भुवनगतापसवृन्दपूज्यमानः ।
विबुधमुनिगणैः पवित्रहस्तै-
र्वृत उदधिं निजमास्पदं जगाम ॥७०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते मायामहत्त्वकथनं नामाष्टचत्वारिंशः सर्गः ॥४८॥

N/A

References : N/A
Last Updated : September 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP