संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकत्रिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकत्रिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकत्रिंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।दशक्रमाः शक्तयश्च त्वयोक्ताः परमेश्वर ।तत्क्रमाणां फलं देव कियत्कालेन जायते ॥१॥तत्सर्वं देवदेवेश पुरा रूपा क्रिया कथम् (?) ।श्रीशिव उवाच ।श्रृणु देवि प्रवक्ष्यामि रहस्यं तव सन्निधौ ॥२॥अष्टम्यां च चतुर्दश्यां पक्षयोरुभयो रपि ।नीलसाधनकं कर्म सर्वथा कारयेच्छिवे ॥३॥प्रत्यहं क्रियतां देवि तदभावे महाष्टमी ।सत्ये च दशवर्षेण त्रेतायां हायनेन च ॥४॥द्वापरे तद्द्विमासेन ह्यहोरात्रं कलौ युगे ।सिद्धिर्भवति देवेशि नीलमार्गे विशेषतः ॥५॥सम्पूर्णदिवसं त्यक्त्वा रात्रौ याममपश्चिमम् ।अंत्ययामं च सन्त्यज्य मध्ययामद्वयं शिवे ॥६॥तन्मध्ये तुर्यनाडीषु कालिका वरदा भवेत् ।सोपानषोडशयुते नानाभूतगणैर्युते ॥७॥नवसोपानतन्मध्ये सप्तमेन समाकुले ।तत्र स्थिता महाकाली परिवारगणैः सह ॥८॥साधकाकांक्ष्यहृदया वन्हिवेतालसंयुता ।श्रीमतोत्तरतंत्रोक्तकवचावरणैर्युता ॥९॥कलावस्थैः समायुक्ता स्वयं याति ततः परम् ।महानीलक्रमे देवि सङ्ख्यां श्रृणु महेश्वरि ॥१०॥सत्ये विंशतिवर्षेण त्रेतायां हायनद्वये ।द्वापरे मासषट्कैस्तु कलौ मासद्वयोत्तरम् ॥११॥अनैनैव क्रमेणैव छिन्नमस्ताविधिः स्मृता ।एतावद्धि विशेषोsस्ति शक्तिसङ्गः सदा स्मृतः ॥१२॥गन्धर्वाख्यक्रमे संख्यां श्रृणु यत्नेन पार्वति ।शतं विंशतिदिग्वेदसप्तमारभ्य पार्वति ॥१३॥वीरसाधनकं कर्म चतुर्मन्त्रैः समाचरेत् ।स्वपुष्पाख्यक्रमे सङ्ख्यां श्रृणु यत्नेन पार्वति ॥१४॥ऋषिवेदवन्हियामयोगमार्गेण सिद्ध्यति ।महाचीनक्रमे सङ्ख्यां श्रृणु यत्नेन पार्वति ॥१५॥षट्त्रिंशद्दशवेदाख्यषट्त्रिंशद्दिवसैः शिवे ।सत्यादिकलिपर्यन्तं महाराजक्रमं श्रृणु ॥१६॥अशीतिषष्टिषङ्विंशसप्तवर्षक्रमेण च ।सत्यादिकलिपर्यन्तं ब्रह्मभावक्रमं श्रृणु ॥१७॥सहस्रं शतकन्यूनं षष्टिवर्षेण पार्वति ।कलार्चनक्रमे देवि सङ्ख्यां श्रृणु प्रयत्नतः ॥१८॥सहस्रं षट्शतं वेदशतं शोडशहायनम् ।सत्यक्रमाच्च कल्यन्तं धूम्रभावं श्रृणु प्रिये ॥१९॥दिक्सहस्रं षट्सहस्त्रं सहस्त्रं पञ्चविंशतिः ।ब्रह्मभावे महेशानि कलौ च वत्सरत्रयम् ॥२०॥दशवर्षं मासषट्कं देवता वरदा भवेत् ।प्रत्यक्षदर्शने देवि संख्या प्रोक्ता मया तव ॥२१॥सिद्धमन्त्रे महेशानि पूर्वयोगेन सिध्यति ।पूर्वक्रमो महेशानि मन्त्रमात्रे प्रकीर्तितः ॥२२॥पूर्वक्रमेण देवेशि दुष्टमन्त्रोsपि सिध्यति ।रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥२३॥गोपनात् सिद्धिमान्पोति नात्र कार्या विचारणा ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२४॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे क्रमफलकथनं नामैकत्रिंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP