संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| षट्षष्टिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - षट्षष्टिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत षट्षष्टिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।श्रीशिव उवाच ।अथोच्यते महायन्त्रसंस्कारः सर्वसिद्धिदः ॥१॥शुभेsह्नि स्नानमाचर्य शुभे लग्ने शुभे क्षणे ।कृतनित्यक्रियो मन्त्री प्राड्मुखो वाप्युदड्मुखः ॥२॥भूतशुद्धयादिकं कृत्वा कल्पोक्तं न्यासमाचरेत् ।सुवर्णं राजतं ताम्रं श्रेष्ठं मध्यं तथाधमम् ॥३॥ताम्रं शतगुणं प्रोक्तं रौप्यं कोटिगुणं भवेत् ।स्वर्णं चानन्तफलदं स्फाटिकेsपि तथा भवेत् ॥४॥स्फाटिके वा मरकते नियमो नास्ति मानकम् ।एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् ॥५॥पञ्चतोलं रसतोलं सप्ताष्टतोलकं तथा ।साधकस्य मनोज्ञं वा कृत्वा पीठं सुसाधयेत् ॥६॥पूर्वोक्तधातुद्रव्युऐश्च सुन्दरं सुमनोहरम् ।ताम्रे द्वादशवर्षाणि धारणे न तु पूजणे ॥७॥ताम्रार्घ्ये ताम्रयन्त्रे च देवता सर्वदा स्थिता ।सुरेखं शुभदं यन्त्रं लेखयित्वा विधानतः ॥८॥प्रतिष्ठां च ततः कुर्यात् यथाशास्त्रप्रमाणतः ।पुण्यक्षेत्रे पुण्यकाले शैलादिविहिते स्थले ॥९॥मन्त्री कल्पानुसारेण पूर्वेद्युरधिवासयेत् ।सायं संकल्प्य विधिवत् घटस्थापनपूर्वकम् ॥१०॥गणेशादीन्समभ्यर्च्य दिक्पालान्परिपूजयेत् ।मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च ॥११॥यन्त्रसंस्कारकर्मादौ द्रव्यमेतन्मयेरितम् ।यथाशक्त्युपचाराद्यैः पूजयेन्मूलदेवताम् ॥१२॥सुगन्धतैलगन्धाद्यैर्द्रव्युऐस्तमधिवासयेत् ।चन्द्रेत्यादि तु मन्त्रेण जपेद्दोषपुरःसरम् ॥१३॥इत्यधिवासनं कृत्वा संयतो विजितेन्द्रियः ।प्रातःकृत्यं तु निर्वर्त्य कृत्वा योगस्थले विशेत् ॥१४॥पताकाध्वजसंकीर्णे दिव्यमण्डलमण्डिते ।वितानचामरच्छत्रपुष्पमालाविराजिते ॥१५॥मङ्गलाङ्कुरपत्राद्यैः कलशैः परिभूषिते ।मण्डलं सर्वतोभद्रं रेखासहस्रसंयुतम् ॥१६॥सामान्यभद्रं वा देवि वेद्या उपरितो लिखेत् ।प्राड्मुखो वाग्यतो भूत्वा सङ्कल्पाभीष्टसिद्धये ॥१७॥पंचशुद्धि समाचर्य्य कूर्चमक्षतसंयुतम् ।संस्थाप्य मण्डले तत्र यजेदाधरशक्तितः ॥१८॥पीठमन्त्रान् समास्तीर्य स्थापयेत् कलशं बुधः ।दीक्षाक्रमोक्तविधिनाभिषेककलशं तथा ॥१९॥पंचगव्यं तथा कुर्यात् शिवमन्त्रैर्विशोधयेत् ।तेन सुस्नापयेन्मन्त्री यन्त्रे वा प्रणवं जपेत् ॥२०॥पञ्चामृतेन हविषा दध्ना च पयसा क्रमात् ।तत उद्वर्तणं कृत्वा जलेन स्नापयेदपि ॥२१॥पञ्चगव्यं समानीय तत्र यन्त्रं समाहितः ।जप्तं क्षिपेत्सुवर्णादि देवमूलपुरःसरम् ॥२२॥तत उद्धृत्य स्वर्णादि पात्रे संस्थाप्य मन्त्रवित् ।पञ्चामृतेन तीर्थेन शीतलेन जलेन च ॥२३॥सहस्रशीर्षामन्त्रेण मूलमन्त्रपुरःसरम् ।सुस्नाप्य पावमानेन कर्पूरागुरुनीरतः ॥२४॥सर्वौषधिजलैर्गन्धजलैर्यत्नेन मज्जनम् ।ततः शुद्धदुकूलेन जलमुत्सार्य साधकः ॥२५॥परिधाय दुकूले द्वे स्वर्णनिर्मितदोलया ।मण्डले तं समानीय नृत्यगीतैर्जयस्वनैः ॥२६॥कुंकुमाद्यैर्विलेप्याथ पूज्य सर्वोपचारकैः ।पीठपूजां ततः कुर्यात् स्वसङ्कल्पोक्तमानतः ॥२७॥कुशैः कुलीनैर्देवेशि शतमष्टोत्तरं जपेत् ।प्रणवं यन्त्रराजय विद्महे पदमुद्धरेत् ॥२८॥महायन्त्राय धीरूपं लिखेत्ततो महीति च ।तन्नो यन्त्रं प्रचोरूपं दयादेषा प्रकीर्तिता ॥२९॥इमां यन्त्रस्य गायत्रीं जप्त्वा देवत्वमाप्नुयात् ।अथेष्टदेवतां ध्यात्वा मुद्रयाsवाहयेत्ततः ॥३०॥जीवन्यासं ततः कुर्यात् पूजयेदिष्टदेवताम् ।नृत्यगीतैश्च वादित्रैः पञ्चघोषपुरःसरम् ॥३१॥ततो जपेदिष्टमन्त्रं अष्टोत्तरसहस्रकम् ।कुण्डे वा स्थंडिले मन्त्री हविषा संस्कृतेsनले ॥३२॥यथाविधिविधानेन स्रुचा होमं समाचरेत् ।ग्रासप्रमाणं चरुकं मूलेनावृत्य मन्त्रवित् ॥३३॥घृतस्रुवं ततो दत्त्वा ज्य्हुयादग्निसंमुखे ।पञ्चविंशतितत्त्वैश्च तत्त्वन्यासपरायणः ॥३४॥वरुणं दिक्पतिं चैव दद्यात्पूर्वोदितं बलिम् ।तत आवृतिदेवेभ्यो घृतेनाहुतिमाचरेत् ॥३५॥तदन्ते देवीमन्त्रेण हुनेदष्टोत्तरं शतम् ।मातृकायुक्तमन्त्रं तु जपन् जयजयस्वनैः ॥३६॥गत्वा होमसमीपे तु दत्त्वा पूर्णाहुतिं ततः ।इष्टसिध्यै बलिं दद्यात् प्रणमेच्चक्रमुत्तमम् ॥३७॥तोषयेत्स्वर्णवस्त्राद्यैः प्रदद्याद्दक्षिणामपि ।मकारैः पञ्चभिर्देवि वीरपूजां समाचरेत् ॥३८॥शक्तिं कुमारिकां बालां पूजयेत्पञ्चपञ्चकम् ।कुर्यादष्टाष्टकं वापि कुलद्रव्यसमाक्तकैः ॥३९॥त्रैलोक्यनाथो भवति यन्त्रपूजनयोगतः ।रहस्यातिरहस्यं च मुण्डयन्त्रविशोधनम् ॥४०॥गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४१॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे यन्त्रसंस्करणं नाम षट्षष्टिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP