संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| षट्त्रिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - षट्त्रिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत षट्त्रिंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच शङ्कर श्रीमहादेव निशापूजां वद प्रभो ।श्रीशिव उवाच निशापूजा प्रकर्तव्या हेतुयुक्तः सदैव हि ॥१॥निजं कुलं समादाय स्वयं भैरवरूपधृक् ।कुलं च भरवीरूपं तद्गात्रे न्यासविस्तरम् ॥२॥विन्यस्य सकलन्यासं नवयोन्यात्मकं तथा ।प्रसूनतुलिकामध्ये पुष्पप्रकरसङ्कुले ॥३॥नानागन्धसमाकीर्णे कुलद्रव्येण यन्त्रकम् ।लिखित्वा पूजयेच्छङ्खे घटस्थापनपूर्वकम् ॥४॥स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् ।लिखित्वा तत्र कुम्भं च सौवर्णं राजतं तथा ॥५॥ताम्रभूमिमयं वापि यद्वा लोहविवर्जितम् ।स्थापयेत्कलया देवि कुम्भं गन्धसुवासितम् ॥६॥हेतुद्रव्यं ब्राह्मणादिभेदतः परिपूजयेत् ।तत्र मन्त्रं विलिख्यादौ यद्यत्कुलसमुद्भवम् ॥७॥ध्यात्वेष्टदेवतां तत्र जपेदष्टोत्तरं शतम् ।धेनुमुद्रां प्रदर्श्याथ अमृतं तद्विचिन्तयेत् ॥८॥दृष्ट्वार्घ्यपात्रं नृत्यन्ति भैरवा मातरो गणाः ।इन्द्रादयः सुराः सर्वे नृत्यन्ति मधुलोलुपाः ॥९॥ब्रह्मविष्णुमहेशाद्या नृत्यन्ति हर्षतत्पराः ।अर्व्यभाण्डं द्विधा कृत्वा गुरवे चैकभागकम् ॥१०॥एकं गुरुं समादाय एकेन देवतर्पणम्।पीत्वा कुलरसं देवि नानालङ्कारभूषितः ॥११॥साक्षाद्यदि गुरुर्न स्यात्तदा तोये विसर्जयेत् ।आनन्दरूपवान् भूत्वा पूजयेत्परमेश्वरीम् ॥१२॥स्वस्वकल्पोक्तविधिना तत्तद्यन्त्रे प्रपूजयेत् ।विसर्जनं विधायाथ मन्त्रं वै प्रजपेत्ततः ॥१३॥तद्धि स्वरसमानेन अमृतं भुज्यते मया ।तच्चकोररसास्वादैः सम्यक् रसः प्रजायते ॥१४॥तत्फलग्रहणादेव सुमेरोः श्रृङ्गरोहणम् ।लतालिङ्गनमात्रेण सुधाधौतकलेवरः ॥१५॥मूलयोगे कृते तत्र जपेद्दशसहस्रकम् ।जपपूतं हविर्द्रव्यं गृहीत्वा तर्पयेत्ततः ॥१६॥विधाय तर्पणं देवि प्रदक्षिणमनुवचन् ।प्रणम्य स्तुत्वा कल्पोक्तस्तवेन तोषयेत्ततः ॥१७॥तस्मात्कुलं तथा योग्यं कृत्वा यत्नेन सञ्जपेत् ।कुलं शक्तिः समाख्याता तस्याः पूजादि कथ्यते ॥१८॥कुलाचारः स विज्ञेयो देवानामपि दुर्लभः ।कुलीनो जायते यस्मात्तत्कथं कथयामि ते ॥१९॥कुले साक्षाद्यतस्तत्त्वं स्वयं तिष्ठति तत्त्वतः ।मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च ॥२०॥एभिरेव कृता पूजा कुलाचारः प्रकीर्त्तितः ।तेन तत्कुलशास्त्रज्ञैः पूजनीयः प्रयत्नतः ॥२१॥कुलं चात्मकुलं वापि निश्चलं यस्य वर्तते ।स धन्यः स च विज्ञानी कुलरूपः स एव च ॥२२॥कुलदीक्षा यत्कुले स्यात्स शिवः परिकीर्तितः ।यथा काली तथा तारा यथा श्रीर्भैरवी तथा ॥२३॥समपूजादिकं सर्वं प्रयोगं भावलक्षणम् ।वेदशास्त्रपुराणानि स्पष्टा वेश्याङ्गना इव ॥२४॥इयं तु शाम्भवी विद्या गुप्ता कुलवधूरिव ।सुगुप्तं कौलिकाचारमनुगृह्णन्ति देवताः ॥२५॥वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशने ।अनाचारान्मधुपान् चक्रस्थान् शक्तिकौलिकान् ॥२६॥शिवगौरीधिया देवि भावयेन्नावमानयेत् ।कुलाचारगृहं गत्वा भक्त्या पापविशुद्धये ॥२७॥याचयेदमृतं चान्नं तदभावे जलं पिबेत् ।कुलाचारेण यद्द्रव्यं सर्वं दत्तं तु भक्तितः ॥२८॥नमस्कृत्य तु गृह्नीयादन्यथा नरकं व्रजेत् ।पूर्वोक्तं देवदेवेशि न सिद्धं स्यात्स्त्रियं विना ॥२९॥स्त्रीसमीपप्रदेशो हि कामरूपाधिकस्तव ।श्रीदेव्युवाच ।पुरश्चरणलक्षैर्वा होमानामपि कोटिभिः ॥३०॥कोटिहोमदक्षिणाभिस्तस्मात्पूजनविस्तरैः ।न च सिद्धिं समायाति वनितासन्निधिं विना ॥३१॥वनितासु सदा नाथ निवसामि निरन्तरम् ।वाराणसी कामरूपं जालन्धरमथापि वा ॥३२॥अथवान्यानि पीठानि शाम्भवाख्यानि शङ्कर ।षट्चक्रं षोडशाधारं त्रितयं व्योमपञ्चकम् ॥३३॥कुलचक्रे महादेव सर्वं नित्यं प्रतिष्ठति ।इतोsपि किं महत्पुण्यं वक्तुं शक्नोमि शङ्कर ॥३४॥कदाचिद्वनिता वापि वनिता वत सन्निधिम् ।विग्रहे नैव शक्नोमि देही देहं यथा प्रमो ॥३५॥यादृशी तादृशी वापि व्याधिदारिद्र्यपीडिता ।विरूपा वा सुरूपा वा वनिता मम विग्रहा ॥३६॥मयि स्याद्यादृशी भक्तिः साधकानां निरन्तरम् ।नूनमेतादृशी कुर्याद्योषिन्मात्रेsपि साधकः ॥३७॥या नारी रूपसम्पन्ना सुदृशा गन्धशालिनी ।मम तस्याः परिज्ञेया शेषा तु शक्तिरीश्वरी ॥३८॥बालां वा यौवनोन्मत्तां वृद्धां वा सुन्दरीं तथा ।कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् ॥३९॥सर्वावस्थासु देवेशि योषिद्वन्द्या तु साधकैः ।समस्तमन्त्रसिद्धीनां सर्वस्वरूपमङ्गला ॥४०॥साक्षाद्वा मनसा वापि नारी पूज्यैव दर्शनात् ।कदा च न कटूक्त्या तु सम्भाव्या वनिता जनैः ॥४१॥स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम् तद्धस्तरचितः भोज्यं तद्धस्तरचितं जलम् ॥४२॥तद्धस्तरचितं पुष्पं देवताभ्यो निवेदयेत् ।तत्सङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि ॥४३॥x x र्देया न कुत्रापि साधकेन वधूः क्कचित् ।प्रत्यक्षदृष्टदोषेपि स्वस्त्रियो वा परस्त्रियः ॥४४॥सकृदपि न वक्तव्यो निन्दयेन्मनसापि न ।पूर्ववद्वयवहर्तव्या सर्वदा साधकेन सा ॥४५॥मम निन्दा मम द्वेषो मम हिंसा ममार्दनः ।गुरुनिन्दा गुरुद्वेषो गुरुहिंसा तथैव च ॥४६॥साधकेन वरं कार्यं वनितां नैव निन्दयेत् ।वरं पूजां न कुर्वीत वरं बलिं परित्यजेत् ॥४७॥कुलाचारं कुलद्रव्यं कुलपंक्तिं वरं त्यजेत् ।तथापि नैव योषाणां निन्दायां मानसं चरेत् ॥४८॥किमिहोक्तेन बहुना वरं त्याज्यो भवेन्मनुः ।तथापि नैव कर्तव्यं वनितानिन्दनादिकम् ॥४९॥मातृवत्पूजयेन्नित्यं मातृवद्भावयेत्सदा ।साधकप्राणदानेन प्रीतिः साद्यदि कामिनी ॥५०॥प्राणान् दत्त्वापि कर्तव्या सुप्रीतिरनपायिनी ।स्वयं देहं समुत्सृज्य मोक्षमान्पोति शाश्वतम् ॥५१॥स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः ।स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात्कुलजां शुभाम् ।नारीं सम्पूजयेन्नित्यमुपभोगं न कारयेत् ॥५२॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे निशापूजाकथनं नाम षट्त्रिंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP