संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| सप्तपंचाशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तपंचाशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत सप्तपंचाशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।पूर्वोक्तसर्वमालानां फलं भवति किं वद ।कियत्काले च देवेश तदद्य कथ्यतां त्वया ॥१॥श्रीशिव उवाच ।रहस्यातिरहस्यञ्च कथ्यते शृणु सादरम् ।रुद्राक्षमालाजापे तु दशवर्षेण वै फलम् ॥२॥स्फाटिके रुद्रवर्षेण पद्माक्षे नंदवर्षतः ।प्रवाले सूर्यवर्षेण पद्माक्षे परमेश्वरि ॥३॥कामवर्षेण देवेशि पुत्रजीव्यां श्रृणु प्रिये ।भूतवर्षेण फलदा गुंजाख्ये वसुवर्षतः ॥४॥रक्तचन्दनजायां तु सप्तवर्षात् फलं भवेत् ।रौप्ये तु युग्मवर्षेण स्वर्णे वर्षैस्त्रिवेदिकैः ॥५॥पञ्चविंशतिवर्षेण ताम्राख्ये फलमीरितम् ।अकस्मादीप्सिता सिद्धिर्महाशंखाख्यमालया ॥६॥महाशंखेsप्यशक्तश्चेत् स्फटिक्या मालया जपेत् ।दन्ताक्षमालया देवि दशाहेन फलं स्मृतम् ॥७॥अङ्गुलिपर्वमालायां सप्ताहेन फलं लभेत् ।महाशंखाख्यमालायां सूर्याहेन फलं ध्रुवम् ॥८॥भद्राक्षैः षोडशाहेन माहेन्द्राक्षेsपि पूर्ववत् ।माणिक्ये पञ्चवर्षेण रत्ने वर्षाष्टकेन च ॥९॥अस्थिभिः पक्षमात्रेण फलं भवति पार्वति ।चण्डघण्टाविधौ देवि नरास्थिमालिका स्मृता ॥१०॥एकाक्षरी छिन्नमस्ता चण्डघण्टा प्रकीर्तिता ।न रुद्राक्षैर्न पद्माक्षैश्चण्डघण्टाविधौ शिवे ॥११॥इतोsप्युग्रा नान्यविद्या न कदाचिद् भविष्यति ।सिद्धिर्वा मृत्युरपि वा द्वयोरकेतरं भवेत् ॥१२॥ताराबीजं तथा काल्याः शक्तिछिन्नामनुर्भवेत् ।बीजदैवेतयोगेन अधिप्रत्यधियोगतः ॥१३॥अधिष्ठात्री महेशानि तथा प्रत्यधियोगतः ।नरास्थिमालिका शक्तिः सर्वकार्यकारी स्मृता ॥१४॥त्रिशक्तिमन्त्रं रुद्राक्षैर्न दिवा प्रजपेच्छिवे ।स दुर्गतिमवाप्नोति जापस्तस्य निरर्थकः ॥१५॥शक्तौ स्त्रीषु च मन्त्रेषु रुद्राक्षैर्न जपेद् बुधः ।पीताक्षै रसवर्षेण फलं भवति पार्वति ॥१६॥कुण्डलीमालिका देवि भैरव्यां परिकीर्तिता ।स्वयम्भूमालिका देवि स्वजातक्रमयोगतः ॥१७॥या प्राप्ता विधिना देवि पञ्चाहेन फलप्रदा ।खरदन्तैर्वेदवर्षैर्गजदन्तैर्द्विवेदतः ॥१८॥राजदन्तेsप्यशक्तश्चेद् गजदन्तेन वै जपेत् ।कुलवृक्षस्य बीजैश्च मासाद्भवति वै फलम् ॥१९॥कुशग्रन्थ्या वर्षयुग्मैः फलमत्र प्रकीर्तितम् ।नारिकेलमयी माला प्रोक्ता कापालिनीविधौ ॥२०॥प्रत्यक्षमुण्डमालेयं षण्मासेन फलप्रदा ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२१॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मालाफलप्रकथनं नाम सप्तपंचाशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP