संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| दशमः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - दशमः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत दशमः पटलः । Translation - भाषांतर श्रीशिव उवाच ।अथातः संप्रवक्ष्यामि वीरसिद्धेश्वरीं पराम् ।यस्या विज्ञानमात्रेण महाकालसमो भवेत् ॥१॥पादुकाखङ्गवेतालधातुवादश्च यक्षिणी ।गुटिकाञ्जनसिद्धिश्च गुप्तिश्च तिलकः शिवे ॥२॥सर्वं संभवति क्षिप्रं नान्यथा शाङ्करं वचः ।कालिका तारिणी छिन्ना त्रिशक्तिरिति ईरिता ॥३॥त्रिशक्तिविषये देवि साधनेयं प्रकीर्तिता ।मुण्डकोपासनं नाम सर्वसिद्धिप्रदायिका ॥४॥साधना कालिकारूपा मुण्डदुर्गाsभिधातु सा ।रणवीरं महावीरं तथा पाशगलानपि ॥५॥शूलाप्रोतान् यष्टिविद्धान् षट्त्रिंशदस्त्रविद्धकान् ।सर्पादिजीवनष्टान् वै गजव्याघ्रविदारितान् ॥६॥अपमृत्युमृतान्देवि शवानाहृत्य पार्वति ।महावीरैर्महामुण्डैर्दुर्गं कृत्वा प्रयत्नतः ॥७॥रणवीरं समारभ्य महावीरान्तकं शिवे ।आसनार्थं प्रकर्तव्यं परितो मुण्डदुर्गकम् ॥८॥दिननन्दाष्टाद्रिरसैः सहस्त्रैः पञ्चभिश्च वा ।अभावे त्रिसहस्त्रेण मुण्डदुर्गं समाचरेत् ॥९॥तारासारूप्यचक्रं तु स्वाग्रे संलिख्य पार्वति ।पात्रार्थं च तथात्मार्थं देवार्थमपि पार्वति ॥१०॥स्थानं त्यक्त्वा प्रयत्नेन साधने र्गुसाधनम् ।दुर्गेsरण्ये नदीगर्भे तडागे शून्यवेश्मनि ॥११॥रणे श्मशाने देवेशि त्रिपथे वा चतुष्पथे ।कुलवृक्षे चैकवृक्षे शिवदेवगृहेsथ वा ॥१२॥एकलिङ्गे प्रयत्नेन मुण्डदुर्गं प्रसाधयेत् ।एके संसाधिते देवि त्रैलोक्यसाधितं भवेत् ॥१३॥वीरसाधनसामग्रीं पुरतः स्थाप्य पार्वति ।वीरवेषो दयायुक्तो खादिरान्दशकीलकान् ॥१४॥अन्तर्बन्धबहिर्बन्धौ कृत्वा यत्नेन पार्वति ।वीरसाधनवत्कृत्वा सर्वं यत्नेन पार्वति ॥१५॥यावदग्रे समायान्ति मुण्डानि परमेश्वरि ।तावदिष्टा भवन्त्यत्र दशविद्याक्रमेण च ॥१६॥काली तारा तथा छिन्ना सुन्दरी बगलामुखी ।इष्टाः पञ्च विशेषेण भविष्यन्ति क्षणेन च ॥१७॥या या बलिर्याच्यते तैः सा सा देया प्रयत्नतः ।वरो ग्राह्यः प्रयत्नेन वीरयन्त्रप्रपूजकैः ॥१८॥वीरजापी वीरपात्री वीरमालासनी शिवे ।मुण्डदुर्गे नरः स्थित्वा क्षणात् त्रैलोक्यसिद्धिभाक् ॥१९॥भीतिं तु तृणवत्कृत्वा महावीरो दिगम्बरः ।शिवरूपो नरो भूयान्नात्र कार्या विचारणा ॥२०॥घटीपञ्चकयोगेन सर्वसाम्राज्ययोगके ।इष्टाः पञ्च भविष्यन्ति महाविद्यास्वरूपिणः ॥२१॥इष्टसिद्धिं सर्वसिद्धिं प्रदास्यन्ति क्षणे क्षणे ।गोपनीयाः कलौ देवि साधकेन हितेच्छुना ॥२२॥गोपनीया साधनेयं स्वयोनिरिव तारिणि ।त्रैलोक्यराज्यं सत्काव्यं महाश्रुतिधरी कला ॥२३॥शापानुग्रहसामर्थ्यं मुण्डदुर्गभवं फलम् ।बिन्दुं त्रिकोणं सूर्यं च ततोsष्टदलभूषितम् ॥२४॥वृत्तं भूपुरसंयुक्तं वज्राष्टकविभूषितम् ।बिंन्दुं सिन्दूरवर्णं च त्रिकोणं दिव्यवर्णकम् ॥२५॥सूर्यं घुसृणवर्णं च दले वर्णाष्टकं शिवे ।वृत्तं च कालिकावर्णं भूपुरं श्वेतवर्णकम् ॥२६॥चतुर्वर्णं चतुर्द्वारं तारास्वाराज्यचक्रकम् ।शूलाष्टकविभूषाढ्यं तत्रिकोणे त्रिशक्तयः ॥२७॥तत्तद्वर्णानि बीजानि कामेशी दिक्सुरेश्वरी ।प्रचण्डेति महेशानि महाकाली ततो दले ॥२८॥रुद्राणी च तथोग्रा च घोरा भीमा तथाम्बिका ।महारात्रिर्भैरवीति ततो वैरोचनाष्टकः ॥२९॥पद्मान्तकादयः पूज्याः कुल्लकां मूर्ध्निं पूजयेत् ।अक्षोभ्यं पूजयेत्तत्र सर्वमन्यच्च पूर्ववत् ॥३०॥एवं कालीमयं चक्रं कृत्वा वा साधनं चरेत् ।चतुरान् साधकान्दूरे स्वगुरून्दूरदेशकान् ॥३१॥कृत्वा संसाधयेद्देवि किं तद्यन्न करे स्थितम् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३२॥श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।श्रीशिव उवाच ।काली तारा तथा छिन्ना चतुर्थी सुन्दरी मता ॥३३॥एवं दशसु विद्यासु वीरसाधनमाचरेत् ।शैवे गाणपते चान्द्रे बौद्धे स्वायम्भुवे तथा ॥३४॥वैष्णवे सौरमन्त्रेषु गारुडे केरलेषु च ।एतेषु देवदेवेशि वीरसाधनमाचरेत् ।३५॥वीरसाधनकं कर्म वैदिके नाचरेत् शिवे ।केरलेष्वपि देवेशि वीरसाधनकं न च ॥३६॥वैदिकेsप्याचरेद्देवि यदि वै तादृशो मनुः ।केरलेsप्याचरेद्देवि यदि क्रूरो मनुर्भवेत् ॥३७॥मुख्या तु साधना काल्यां तारायामपि कीर्तिता ।या काली सैव तारा स्यात् छिन्नायामपि संमता ॥३८॥एवं पाशुपताद्येषु वीरसाधनमाचरेत् ।वगलाद्यासु विद्यासु वीरसाधनमाचरेत् ॥३९॥वीरसाधनकं कर्म विहाय सिद्धिकामुकः ।स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति ॥४०॥तस्मात्तु साधना मुख्या दशविद्यासु पार्वति ।तारिणी ब्रह्मरूपा स्यात् कालिका ब्रह्मसुन्दरी ॥४१॥छिन्नाद्या ब्रह्मसिद्धिः स्यात् सुन्दरी ब्रह्मचिद्घना ।एवं सर्वत्र देवेशि ब्रह्मत्वं व्याप्य तिष्ठति ॥४२॥मुख्यत्वं सर्वविद्यासु तत्रापि कालिका कलौ ।एकद्वित्रिविधा देवि दशधा शतधा शिवे ॥४३॥लक्षधा कोटिधा देवि तथा चानन्तरूपिणी ।अङ्गाङ्गकैर्नामभेदैः कालिकेति प्रगीयते ॥४४॥सर्वद्या कालिकाशक्तिः सैव तारा च कुलुका ।सुन्दरी छिन्नमस्ता च कालिकैव प्रकीर्तिता ॥४५॥यावद्धि वर्णितुं शक्त्या तावत्सगुणतां गता ।वाच्यातीता यदा जाता तदा निर्गुणतां गता ॥४६॥जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि ।महिमां वर्णितुं चास्या न शक्रोमि महेश्वरि ॥४७॥अशक्यत्वं यदा जातं तदैव ब्रह्म कीर्तितम् ।निर्गुणत्वं तु किन्नाम वर्णनाशक्तिगोचरम् ॥४८॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे वीरसिद्धेश्वरीकथनं नाम दशमः पटलः ॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP