संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकोनविंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनविंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकोनविंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि आरार्त्तिकविनिर्णयम् ।श्रीशिव उवाच ।दशदीपैर्विंशतिभिः पञ्चभिर्नवभिश्च वा ॥१॥अष्टभिस्तत्त्वसंख्याभिः कुर्यादारार्त्तिकं बुधः ।त्रिकोणं चैव षट्कोणं मध्ये बिन्दुं निपातयेत् ॥२॥तत्तद्विद्यामयैर्यन्त्रैर्विशेषार्ध्यमयेन वा ।आदौ तु भरवीयन्त्रं चक्रमुद्रां प्रदर्शयेत् ॥३॥समस्तयोगिनीचक्रे परिवारसमन्विते ।आरार्त्तिकं गृहाणेदं देवते प्रीतिहेतवे ॥४॥मन्त्रेणानेयदेवेशि कुर्यादारार्त्तिकं बुधः ।माषैस्तिलैस्तण्डुलैर्वा गोधूमैर्यवजैरपि ॥५॥ओदनोत्त्याः शर्करोत्त्था हारिद्राः केशरोद्भवाः ।अष्टगन्धोद्भवा गौडां दीपा यत्नेन कारयेत् ॥६॥दीपानां रक्तपीतानां वश्यस्तम्भभिधं फलम् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥७॥श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि पात्रसिद्धेस्तु लक्षणम् ।श्रीशिव उवाच ।पात्रं तेजोमयं पश्येत्पात्रसिद्धेश्च लक्षणम् ॥८॥तत्पात्रबिन्दुग्रहणादेति देवस्वरूपताम् ।ऊर्ध्वोर्ध्वक्रमणं भूयात्पात्रस्पर्शनमात्रतः ॥९॥मृतरूपोsपि देवेशि पात्रस्पर्शेन जीवति ।दुर्जना भैरवा विद्यापात्रं पश्यन्ति दीपवत् ॥१०॥महाज्वालानिभं पश्येद्देवत्ताहस्तदर्शनम् ।षडङ्गमपि संपश्येत्तत्र निर्याततेजसि ॥११॥तेजोमध्ये समुद्यन्ति साधकाग्रे न संशयः ।पात्रं चलति देवेशि देवताग्रेsतिसादरम् ॥१२॥वाणीं वदति देवेशि शान्तिस्तोत्रमयीं पराम् ।दुष्टान्धीकरणं देवि मांसानां करवीरताम् ॥१३॥मद्यानां दुग्धतामेति मत्स्यानां मूलकन्दताम् ।यागे भरवता देवि शक्तौ दीपस्वरूपता ॥१४॥होमकुण्डस्वरूपत्वं मंत्राध्वा तत्त्वरूपता ।देवतारूपता देवि पात्रासिद्धेरियं मता ॥१५॥पात्रमासाद्य देवेशि यन्त्रं पीठे निवेशयेत् ।बीजहीनं तु यद्यन्त्रं तद्यन्त्रं शववद्भवेत् ॥१६॥बीजयुक्तं सिद्धिरूपं सजीवं परिकीर्तितम् ।जीवचक्रं यथा देवि तथा यन्त्रं सजीवकम् ॥१७॥प्रसिद्धप्राचीमार्गेण केरले बीजलेखनम् ।कलिप्ता प्राक्क्रमेणैव गौडकाश्मीरयोर्लिपिः ॥१८॥स्वसाम्मुख्यक्रमेणैव चैतन्ये बीजमेलनम् ।स्ववामदक्षभेदेन नन्दनाथे क्रमाल्लिपिः ॥१९॥देवतादक्षवामाख्यक्रमाच्चिद्घनभरवौ ।एवं लेख्यक्रमज्ञानात्पूजनात्तत्र सिध्यति ॥२०॥ध्यानरूपा महाविद्या यद्बिन्दौ दिव्यरूपताम् ।रूपमासाद्य देवेशि सदा तिष्ठति यत्र वै ॥२१॥यत्किंचित् लेखनेनैव तदेव सिद्धिदायकम् ।यन्त्रसिद्धिरियं देवि लक्षणाभिः क्षणे क्षणे ॥२२॥भवन्ति सिद्धिरूपाणि देहसिद्धिकराग्रके ।रहस्यातिरहस्ये च रहस्यं योनिवरत्कुरु ॥२३॥इति संक्षेपतः प्रोक्तं घटसिद्धिं श्रृणु प्रिये ।यद्घटस्थापनेनैव देवता करगा भवेत् ॥२४॥सर्वचक्रं सर्वरूपं सर्वदेवमयं शिवम् ।आनन्दभैरवं पश्येद् घटमध्ये निरन्तरम् ॥२५॥तेजःस्वरूपो वाञ्चाख्यो मणीः कल्पलतामयः ।सुधारसमयीं वाणीं अमृतस्यन्दनिर्झराम् ॥२६॥वाणीं वदति देवेशि देवतानां निवेदनात् ।स्वयं करोति देवेशि स्वयं नीलासमो घटः ॥२७॥तद्रेहगमनाद्देवि मूको वदति शारदाम् ।सहस्त्रशतधारां च महाश्रुतिधरो घटी ॥२८॥घटसिद्धिरियं प्रोक्ता सर्वशास्त्रमयी भवेत् षोडशोपचारसिद्धिर्बलिसिद्धिस्तथैव च ।भवत्येककरे देवि किमन्यच्छ्रोतुमिच्छसि ॥२९॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे आरार्त्तिकविनिर्णयो नाम एकोनविंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP